Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 355
________________ १०५ पञ्चाधिकशततमोऽध्यायः ] पत्रपुराणम् । २४९ मनः खिमं बभूवास्य हुण्डस्यापि दुरात्मनः । एवं वर्षशतं तस्य पश्यमानस्य वै गतम् ॥ ११ प्रसूता सा हि पुत्रं चे धर्मात्मानं महामतिम् । रात्रौ चैव सुतश्रेष्ठ तस्याः पुत्रो व्यजायत ॥ तेजस्वी वीरशोभाभिर्यथा सूर्यो नभस्तले । सूत उवाच-- अथ दासी महादृष्टा काचित्सूतिगृहागता । अशौचाचारसंयुक्ता महामङ्गलवादिनी ॥ १३ तस्याः सर्व परिज्ञाय स हुण्डो दानवाधमः । अस्या अङ्गं प्रविश्यैव प्रविष्टश्चाऽऽयुमन्दिरे ॥ १४ महाजने प्रसुप्ते च निद्रयाऽनीव मोहिते । तं पुत्रं देवगर्भाभमपहृत्य बहिर्गतः ॥ १५ काश्चनाख्यं पुरं प्राप्तः स्वकीयं दानवाधमः । समाहूय प्रियां भार्या विपुलां तामयाब्रवीत् ॥१६ वधस्वैनं महापापं बालरूपं रिपुं मम । पश्चात्सूदस्य वै हस्ते भोजनार्थ प्रदीयताम् ॥ १७ नानाद्रव्यैः समायुक्तं पाचयस्त्र हि निघृणम् । सूदहस्तान्महाभागे अहं भोक्ष्ये न संशयः ॥१८ वाक्यमाकर्ण्य तद्भतुर्विपुला विस्मिताऽभवत् । कस्मानिघृणतां याति मम भर्ताऽतिनिष्ठुरः ॥१९ सर्वलक्षणसंपन्नं देवगर्भोपमं मुतम् । कस्य कस्मात्प्रभक्षेत कृपाहीनः सुनिघृणः ॥ २० इत्येवं चिन्तयामास कारुण्येन समन्विता । पुनः पप्रच्छ भर्तारं कस्माद्भक्षसि बालकम् ॥ २१ यस्माद्भवसि संक्रुधो ह्यतीव निरपत्रपः । सर्व मे कारणं हि तत्त्वेन दनुजेश्वर ॥ आत्मदोषस्य वृत्तान्तं समासेन निवेदितम् । शापं ह्यशोकसन्दर्या हुण्डेनापि दुरात्मना ॥ २३ तया ज्ञातं तु तत्सर्व कारणं दानवस्य वै । वध्योऽयं बालकः सत्यं नो वा भर्ता मरिष्यति॥२४ इत्येवं संविचार्यैव विपुला क्रोधमूर्छिता । मेकलां तु समाहूय सैरन्ध्रीं वाक्यमब्रवीत् ॥ २५ जह्येनं बालकं दुष्ट मेकलेऽद्य महानसे । सूदहस्ते प्रदेहि त्वं हुण्डभोजनहेतवे ॥ २६ मेकला बालकं गृह्य सूदमाहूय चाब्रवीत् । राजादेशं कुरुष्वाद्य पचस्वैनं हि बालकम् ॥ २७ एवमाणितं तेन सूदेनापि महात्मना । आदाय बालकं हस्ताच्छवमुद्यम्य चोयतः॥ २८ एष वै देवदेवस्य दत्तात्रेयस्य तेजसा । रक्षितस्त्वायुपुत्रश्च म जहास पुनः पुनः॥ २९ तं हसन्तं समालोक्य स सूदः कृपयाऽन्वितः । सैरन्ध्री कृपया युक्ता मूदं तं प्रत्युवाच ह॥३० नैव वध्यस्त्वयाँ सूद शिशुरेप महामते । दिव्यलक्षणसंपन्नः कस्य जातः मुसत्कुले ॥ १ सूत उवाच-- सत्यमुक्तं त्वया भद्रे वाक्यं वै कृपयाऽन्वितम् । राजलक्षणसंपन्नो रूपवान्कस्य बालकः ॥ १२ कस्माद्भोक्ष्यति पापात्मा हुण्डोऽयं दानवाधमः । येन वै रक्षितो वंशः पूर्वमेव स्वकर्मणा ॥३३ आपत्स्वपि स जीवेत दुर्गेषु नान्यथा भवेत् । नद्या वेगहतश्चापि वह्निमध्यगतोऽपि वा ॥ ३४ जीवते नात्र संदेहो यस्य कर्म सहायकम् । तस्माद्धि क्रियते कर्म धर्मपुण्यममन्वितम् ॥ ३५ आयुष्मन्तो नरास्तेन प्रविन्दन्ति सुखं ततः । तारकं पालकं कर्म रक्षते जाग्रते हि तत् ॥ १६ भुक्तिदं जायते नित्यं मैत्रस्थानप्रदायकम् । दानपुण्यान्वितं कर्म पियवाक्यसमन्वितम् ॥ ३७ उपकारयुतं यश्च करोति शुभकृत्तदा । तमेव रक्षते कर्म सर्वदैव न संशयः ॥ १ क ख ङ, च. छ. झ. ट. . मनेप्सित नव जात हु । २ क. ख. घ. इ. च. छ. स. ट. ठ. ह. द. च स्वर्भानोस्तनया तदा । रा। ३ क. ख. घ. ङ. च. छ. झ ड. द. विद्युदां । ४ . निर्जितम् । ५ छ. उ. विद्युदा। घ. छ. ठ. ठ... विद्यदा । ७ इ. 'तः । स त देवेन देवेश कृपयाऽपि स्वकर्मणा ।र'। ८ क, ख. घ. ङ. प.छ.स. ट... . 'याऽयव शि।

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387