Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
३४८
महामुनिश्रीव्यासप्रणीतं—
[ २ भूमिखण्डे -
१५
कण्ठे तस्याः स देवेश इन्दुमत्या महायशाः । हस्ते पद्मं ततो दत्त्वा स्वस्थानं प्रति जग्मिवान् १४ एवंविधं महास्वमं सा तु दृष्ट्वा सुतोत्तम । समाचष्टे महाभागा तमायुं भूपतिं पतिम् ॥ समाकर्ण्य महाराजश्चिन्तयामास वै पुनः । समाहूय गुरुं पश्चात्कथितं स्वममुत्तमम् ॥ शौनकं सुमहाभागं सर्वशं ज्ञानिनां वरम् ॥
राजोवाच
१६
अद्य रात्रौ महाभाग मम पत्न्या द्विजोत्तम । विप्रो गेहं विशन्दृष्टः किमिदं स्वप्रकारणम् ।। १७ शौनक उवाच -
१८
२०
२१
बरो दत्तस्तु ते पूर्वं दत्तात्रयेणे धीमता । आदिष्टं च फलं राज्ञ्यां सुगुणं सुतहेतवे ।। तत्फलं किं कृतं राजन्कस्यै त्वया नियोजितम् । स्वभार्यायै मया दत्तमिति राज्ञोदितं वचः १९ श्रुत्वोवाच महाप्राज्ञः शौनको द्विजसत्तमः । वृत्तान्तं स्वप्रभावेन तव गेहे सुतोत्तमः ॥ वैष्णवांशेन संयुक्तो भविष्यति न संशयः । स्वमस्य कारणं राजनेतत्ते कथितं मया । इन्द्रोपेन्द्रसमो राजंस्तव पुत्रो भविष्यति । पुत्रस्ते सर्वधर्मात्मा सोमवंशस्य भूषणः || धनुर्वेदे सवेदे च सगुणोऽसौ भविष्यति । एवमुक्त्वा स राजानं शौनको गतवान्गृहम् ।। २३ हर्षेण महताऽऽविष्ट राजाऽभूत्सह : भार्यया ||
२२
२४
इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे चतुरधिकशततमोऽध्यायः ॥ १०४ ॥ आदितः श्लोकानां समथ्र्यङ्काः -८२९२
अथ पचोत्तरशततमोऽध्यायः ।
कुञ्जल उवाच
१
३
४
गता सा नन्दनवनं सखीभिः सह क्रीडितुम् । तेत्रोक्तं केनचिद्वाक्यमस्या गर्भे महाबलः ।। भविष्यति सुतश्रेष्ठो हुण्डस्यान्तं करिष्यति । एवंविधं महद्वाक्यं [*मप्रियं दुःखदायकम् ॥ २ समाकर्ण्य समायाता पितुरग्रे निवेदितम् । समासेन तया तस्य पुरतो दुःख ] दायकम् ॥ पितुरग्रे जगादाथ पिता श्रुत्वा च विस्मितः । शापमशोकसुन्दर्याः सस्मार च पुरा कृतम् ॥ गर्भस्य नाशनायैव इन्दुमत्याः स दानवः । विविक्तमुद्यमं चक्रे कालाकृष्टो दुरात्मवान् ॥ ५ छिद्रान्वेषी ततो भूत्वा चेन्दुमत्याश्च नित्यशः । यदा पश्यति तां राज्ञीं रूपौदार्यगुणान्विताम् ॥ दिव्येन तेजसा युक्तां रक्षितां विष्णुतेजसा । [+ दिव्यतेजः समायुक्तां सूर्यबिम्बोपमां तु ताम् ] ॥ तस्याः पार्श्वे महाभाग रक्षणार्थं स्थितः सदा । दुरात्मा दानवो हुण्डस्तस्याश्च बहु दर्शयेत् ॥ ८ नानाविधा भीषिका मायावी मायया सदा । गर्भस्य तेजसा चैव रक्षिता विष्णुतेजसा ॥ ९ भयं न जायते तस्या मनस्येव कदा पुनः । विफलो दानवो जात उद्यमश्च निरर्थकः ॥ १०
* एतच्चिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ड ढ पुस्तकस्थः । + एतचिह्नान्तर्गतः पाठः ड. पुस्तकस्थ: ।
१ क. ख. ड. च. छ. झ. उ. 'मः । दत्तात्रेयप्रसादेन । घ ट ठ 'मः । दत्तात्रेयप्रभावेन । २ क. ख. ङ. च. ड. तत्राऽऽकर्ण्य महद्वाक्यमाप्रयं तु तदा पितुः । चारणानां स पुत्राणां भाषतां हर्षकेण वै । आयोर्गेहे महावीर्यो विष्णुतुल्यपराक्रमः । वेदे तु ब्रह्मणा तुल्यः सर्वशास्त्रविशारदः । भी । ३ ग. घ. ज. अ. ट. उ. 'क्यमाश्रुत्वा सुखदायकम् । पितुरप्रे ज' ।

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387