________________
८१ एकाशीतितमोऽध्यायः ]
पद्मपुराणम् ।
२९१
इत्याशया मया भर्ता स त्वमङ्गीकृतः पुरा । यस्य विष्णुप्रसादोऽस्ति स सर्वत्र परिव्रजेत् ।। ११ दुर्लभं नास्ति राजेन्द्र त्रैलोक्ये सचराचरे । सर्वेषु चैव लोकेषु विद्यते न च सुव्रतं ॥ aafaणोः प्रसादेन स्वर्ग च नृपसत्तम ॥
1
मर्त्यलोकं समासाद्य त्वयैव वसुधाधिप । जरापीडाविहीनाश्च मृत्युहीना नराः कृताः ॥ गृहद्वारेषु सर्वेषां मर्त्यानां तु नरर्षभ । अनेके कल्पवृक्षाश्च त्वयैव परिकल्पिताः ।। येषां गृहेषु मर्त्यानां मुनयः कामधेनवः । त्वयैव प्रेषिता राजन्स्थिरीभूताः कृताः सदा ॥ सुखिनः सर्वकामैश्व मानवाश्च त्वया कृताः ॥
गृहमध्ये साहस्रं कुलीनानां प्रदृश्यते । एवं वंशविवृद्धिश्व मानवानां त्वया कृता ।। यमस्यापि विरोधेन इन्द्रस्यापि नरोत्तम । व्याधिपापविहीनस्तु मर्त्यलोकस्त्वया कृतः ॥ स्वतेजसाऽहंकारेण स्त्रर्गरूपं तु भूतलम् । दर्शितं हि महाराज त्वत्समो नास्ति भूपतिः ॥ पुणेsपि प्रभूते हि नान्यश्वास्ति भवादृशः । भवन्तमित्यहं जाने सर्वधर्मदायकम् ॥ तस्मान्मया कृतो भर्ता वदस्वैव ममाग्रतः । [नर्ममुक्तं नृपेन्द्र त्वं वद सत्यं ममाग्रतः ] ।। यदि ते सत्यमस्तीति धर्म चापि नराधिप । देवलोकेषु मे नास्ति गमने गतिरुत्तमा ।। सत्यं त्यक्त्वा यदा च त्वं नैव स्वर्ग गमिष्यसि । तदा कुटं तव वचो भविष्यति न संशयः पूर्व कृतं तु यच्छ्रेयो भस्मभूतं भविष्यति ।। राजोवाच
२२
१२
१३
१४
१५
१६
१७
१८
१९
२०
२१
1
सत्यमुक्तं त्वया भद्रे साध्यासाध्यं न चास्ति मे । सर्व साध्यं स्वर्गलोके प्रसादाजगतां पतेः ॥ २३ न याम्यहं यथा स्वर्ग तच्च मे कारणं शृणु । भागं तु ते न दास्यन्ति मम मृत्युश्च देवताः ॥ २४ ततो वै मानवे लोके प्रजाः सर्वा ममानघे । मृत्युयुक्ता भविष्यन्ति मया हीना न संशयः ॥ अतः स्वर्ग न गच्छामि सत्यमुक्तं वरानने ।।
२५
देव्युवाच -
लोकान्दृष्ट्वा गमिष्यामि मर्त्यलोकं च वै पुनः । रूपं पश्य ममाद्य त्वं जाता श्रद्धा ममातुला २६ राजोवाच
सर्वमेवं करिष्यामि यत्त्वयोक्तं न संशयः । एवमुक्त्वा प्रियां राजा चिन्तयामास वै तदा ॥ २७ अन्तर्जलचरो मत्स्यः सोऽपि जालेन वध्यते । मरुत्ममानवेगोऽपि मृगः प्राप्नोति बन्धनम् २८ योजनानां सहस्रस्थमामिपं भक्षते खगः । से पाशं पादसंलग्नं न पश्येदेवमोहितः ॥ स वैषम्यकरः कालः कालः संमानहानिंदैः ॥
२९
1
एवं भयंकरः कालो यत्र कुत्रापि निष्ठुरः । नरं करोति दातारं याचितारं च वे पुनः ॥ ३० भूतानि स्थावरादीनि दिवि वा यदि वा भुवि । सर्वत्र कल्पते कालः कालो ह्येक इदं जगत् ३१ अनादिनिधनो योऽसौ जगतः कारणं परम् । लोकेषु कालः पचति वृक्षे फलमिवाऽऽहितम् ३२
* एतच्चिदान्तर्गतः पाठः क ख च छ पुस्तकस्थः ।
१ ङ. छ. ट. 'वेष्वेव सुलोकेषु विद्यते तव सु । २. ढ त । विष्णोश्चैव प्रसादेन गगने गतिरुत्तमा । म । 3 छ. भूतले । ४ ङ. ढ. 'रा नैव प्रसृतो हि । ५ क. ख. ड. च. छ. ढ. प्रभाकरम् । ६ क. स्व. च. 'र्मयुक्तं । ७ड. ध्यं तु मे कार्य त्वत्प्रसादाज्जगत्रये न । ८ क. ख. ङ. छ. ट. पश्यते । ९ ड स पश्येत्कण्ठसं । १० ड. छ. द. 'तः । कालः समविषमकः । ११ क.ख. घ. च. ड. 'दः । पराभवकरः । १२ ड. प ।
1