Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
११४
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेएवमाकर्ण्य तद्वाक्यं तीर्थानां सुरराद ततः । हर्षेण महताऽऽविष्टस्तेषां स्तोत्रं चकार ह ॥ ५२ इति श्रीमहापुराणे पाद्म भूमिखण्ड वेनोपाख्याने गुरुतार्थकथने नवतितमोऽध्यायः ॥ ९ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७५२३
अथकनवतितमोऽध्यायः ।
कुञ्जल उवाचब्रह्महत्याऽभिभूतश्च सहस्राक्षा यदा पुरा । गौतमस्य प्रियासङ्गादगम्यागमनात्तथा ॥ सुजातं पातकं तस्य त्यक्तुं देवेश्च ब्राह्मणः । महस्राक्षस्तपस्तंप निरालम्बो निराश्रयः॥ २ तपन्ति देवताः सर्वा ऋषयो यक्षकिंनराः । देवराजस्य पूजार्थमभिषेकं प्रचक्रिरे ॥ देशे मालवके नीत्वा देवराज सुतोत्तमाः । चक्रुः स्नानं महाभागाः कुम्भैरुदकपूरितैः॥ ४ स्नापितुं प्रथमं नीतो वाराणस्यां स्वयं ततः । प्रयागे च सहस्राक्षः सर्वतीर्थे ततः पुनः॥ ५ महात्मना पुष्करेण स्नापितः स्वयमेव च । ब्रह्मादिभिः सुरैः सर्वैर्मुनिवृन्दद्विजोत्तमः॥ ६ नागवृन्दैनगैः सर्वैर्गन्धर्वश्च सकिनरैः । नापिता देवराजस्तु वेदमंत्रः सुसंस्कृतः॥ [ *मुनिभिः सर्वपापघ्नेस्तस्मिन्कालं द्विजोत्तम ] ॥ शुद्ध तस्मिन्सहस्राक्षे महाभागे महामतो । ब्रह्महत्या गता तस्य अगम्यागमनाद्भवा ॥ ८ [ + पापेन तेन घोरेण सायमिन्द्रस्य भूतले ] । सुप्रसन्नः महस्राक्षस्तीर्थेभ्योऽपि वरं ददौ ॥ ९ भवन्तस्तीर्थराजानो भविष्यथ न संशयः । मत्प्रसादात्पवित्राश्च यस्मादहं विमोक्षितः ॥ सुघोरात्किल्बिषादत्र युप्माभिविमलैरहम् ॥ एवं तेभ्यो वरं दत्त्वा मालवाय वरं ददौ । यस्मात्स्वयं त्वयाऽप्येतद्विधृतं मम पातकम् ॥ तस्मात्त्वमनपानेश्च धनधान्यैरलंकृतः ॥ भविष्यसि न संदेहो मत्प्रसादान संशयः । सुदुप्कालविना न्वं तु भविष्यसि न संशयः ।। १२ एवं तस्मै वरं दत्त्वा सहस्राक्षः पुरंदरः । क्षेत्राणि सर्वतीर्थानि देशान्मालवकांस्तथा । [*आखण्डलेन सार्धं ते स्वस्थानं प्रति जग्मिरे ।।
सूत उवाचतदामभृति चत्वारः प्रयागः पुष्करस्तथा ] । वाराणसी मर्वतीर्थ प्रापुः स्वस्थानमुत्तमम् ॥ १४
कुञ्जल वाच -- [+ अस्ति पाश्चालदेशे तु विदुरो नाम क्षत्रियः । तेन लोभप्रसङ्गेन ब्राह्मणो निहतः पुरा ।।१५ शिखासूत्रविहीनस्तु तिलकेन विवर्जितः । भिक्षार्थमटते सोऽह्नि ब्रह्मन्नोऽहं समागतः॥ १६ ब्रह्मनाय सुरापाय भिक्षा चान्नं प्रदीयताम् । गृहप्वेवं समस्तेषु भ्रमते याचतं पुरा।। १७
* एतच्चिदान्तर्गतः पाठः क. स्व. घ. ड. च. छ. झ. ट. ड. दृ. पुस्तकस्थः । + एतञ्चिद्वान्तर्गतः पाठः क. ख. घ. ङ. च. छ. झ ट. ठ. ड. द. पुस्तकस्थः । * एतचिहान्तर्गतोऽय पाठः क. ख. ड. च. छ. झ. ड पुस्तकस्थः । + एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. स. ड. पुस्तकस्थः ।
१क. ख. ड. च. छ.श. द. "मीम्तपोबल: । म" । ड. "मन्त्रः सुशोभनेः । म ।

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387