Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 319
________________ ९० नवतितमोऽध्यायः ] पद्मपुराणम् । सुहंसा हंसवाहा च हेमवेगा मनोरथा । मुरथा सारुणा वेगा सुषेणा च सुपमिनी ॥ २६ वाहनी सरघा चान्या पुण्या चान्या पुलन्दिका। हिमा मनारथा दिव्या चन्द्रिका वेदसंक्रमा२७ ज्वाला हुताशनी स्वाहा काला चैव कपिञ्जली । स्वधा सुकाला कालिङ्गा गम्भीरा हिमवाहिनी देवद्रवी वीरवाहा लक्षहोमाऽप्यघापहा । पाराशरी वेदगर्भा हेमवेशा सुपुण्ड्रकी ॥ २९ एता नद्यो महापुण्या मूर्तिमत्यो बघापहाः । सर्वाभरणशोभाव्याः कुम्भहस्ताः सुपूजिताः ॥३० प्रयागः पुष्करश्चैव सर्वतीर्थमनोरमः । वाराणसी महापुण्या ब्रह्महत्याव्यपोहिनी ॥ ३१ द्वारावती प्रभासश्च यवन्ती नैमिषस्तथा । दण्डक[*श्व दशारण्यं महेश्वरकलेवरौ ॥ ३२ कालञ्जरो ब्रह्मक्षेत्रं मथुगे नाम वाहकः । माया काची नथाऽन्यानि दिव्यानि विविधानि च ॥ अष्टषष्टिस्तु तीर्थानि नदीनां दश कोटयः । गोदावरीमुग्वाः सर्वाः समायातास्तदाज्ञया ॥ ३४ द्वीपानां तु समस्तानि तीथानि च महान्ति च । [+ पूर्तिलिङ्गधराण्येव सहस्राक्षं सुरेश्वरम्]॥३५ समाजग्मुः समस्तानि तदादेशकराणि च । प्रणेमुर्देवदेवेशं ननशीपाणि सर्वशः ॥ ३६ तैस्तु प्रोक्तो महातीर्थैर्देवराजस्तु सादरम् । कम्मानया समाहना देवराज बदस्व नः ॥ ३७ ब्रूहि नः कारणं सर्व नमस्तुभ्यं मुगधिप । एवमाणितं सर्वं तीर्थानां वचनं तदा।] एवमाकर्ण्य तद्वाक्यं देवराजोऽभ्यभापत ।। कः समर्थों महाभागा ब्रह्महत्यां व्यपाहितुम् । गोवधाग्व्यं महापापं स्त्रीवधाख्यमनुत्तमम् ।। ३९ स्वामिद्रोहात्समुद्भूतं सुरापानाच दारुणम् । हेमस्तेयोद्गतं पापं गुरुनिन्दासमुद्भवम् ।। ४० भ्रूणहत्यां महाघोरां कः समर्थो निवनितुम् । गजद्रोहं महापापं बहुपीडाप्रदायकम् ॥ ४१ मित्रद्रोहं तथा चान्यन्सर्वविश्वामघातकम् । देवभदं तथा चान्यल्लिङ्गभेदं ततः परम् ॥ ४२ वृत्तिच्छेदं च विप्राणां गांप्रचारप्रणाशनम् । अगाग्दाहनं चान्यद्रामदीपनकं परम् ॥ ४३ षोडशेत महापापा अगम्यागमनं तथा । स्वामित्यागात्समुद्भूतं रणस्थानात्पलायनम् ॥ ४४ एतानि नाशयत्को वै [ +ममर्थस्तीर्थसत्तमः । समर्थो भवतां मध्य प्रायश्चित्तं विना ध्रुवम्।।४५ पश्यतां देवतानां च नारदस्य च पश्यतः । ब्रुवन्त सर्वे संचिन्त्य निश्चितं पापनाशनम् ॥ ४६ एवमुक्ते शुभे वाक्ये देवेशेन महात्मना । संमन्त्र्य तीर्थराजेन प्रोचुः शक्रं समागतम् ॥ ४७ तीथान्यूचुः-- श्रूयतामभिधास्यामो देवराज नमोऽस्तु ते । यावन्ति मर्वतीर्थानि सर्वपापहराणि च ॥ ४८ ब्रह्महत्यादिकान्येव त्वयोक्तानि सुरेश्वरम् । महाघोराण पापानि नाशितुं नैव शक्नुमः ॥ ४९ प्रयागः पुष्करश्चैव सर्वतीर्थमनुत्तमम् । वाराणसी महाभाग सर्वपातकनाशिनी ॥ महापातकनाशाय चत्वारोऽमितविक्रमाः ॥ उपपातकनाशाय वयं धात्रा विनिर्मिताः । महापापापपापार्थं सृष्टोऽसौ पुष्करो ध्रुवम् ॥ ५१ ३८ --- - ..---. एतच्चिदान्तर्गतः पाठः क. ख. हु च छ झ. इ. द. पुस्तकस्थः । + एतचिहान्तर्गतः पाटः क. ख. घ. ज. च. छ. स. ट. ठ. ड. द. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. घ. हु. च. छ. . ट. ठ. ड. ढ. पुस्तकस्थः। + एतचिहान्तर्गत: पाठः क ख. घ. इ. च. छ. स. ट. ठ. ड. द. पुस्तकस्थः । १ क. ख. ड. छ. झ. ड. द. वेणा भद्रवेणा सु। २ क. स्व. इ. च. छ. इ. ८. हेमा ३ ड. शुद्धा । ४ छ. झ. हेमगी ।

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387