Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 348
________________ १४२ महामुनिश्रीव्यासप्रणीतं २ [ भूमिखण्डेअशोकसुन्दरीनाम्ना लोके ख्याति प्रयास्यसि । सर्वसौभाग्यसंपमा मम पुत्री न संशयः ॥ ६८ सोमवंशे तु विख्यातो यथा देवः पुरंदरः । नहुषो नाम राजेन्द्रस्तव नाथो भविष्यति ॥ ६९ एवं दत्त्वा वरं तस्यै जगाम गिरिजा गिरिम् । कैलासं शंकरेणापि मुदा सा परयान्विता ॥७० इति श्रीमहापुरोण पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे यधिकशततमोऽध्यायः ॥ १०२ ॥ आदितः श्लोकानां समष्टयङ्काः-८१३६ अथ त्र्यधिकशततमोऽध्यायः । कुञ्जल उवाचअशोकसुन्दरी जाता सर्वयोषिद्वरा तदा । रेमे तु नन्दने पुण्ये सर्वकामगुणान्विते ॥ ? गुरूंपाभिः सुकन्याभिर्देवानां चारुहासिनि । सर्वान्भोगान्प्रभुञ्जाना गीतनृत्यविचक्षणा ॥ २ विप्रचित्तिसुतो हुण्डो रौद्रस्तीत्रश्च सर्वदा । स्वेच्छाचारो महाकामी नन्दनं प्रविवेश ह ॥ ३ अशोकसुन्दरीं दृष्ट्वा सर्वालंकारशोभिताम् । तस्यास्तु दर्शनाईत्यो विद्धः कामस्य मार्गणैः ॥ ४ तामुवाच महाकायः का त्वं कस्यासि सुन्दरि। कस्मात्त्वं कारणाचात्र ह्यागताऽसि वनोत्तमम् ॥५ अशोकसुन्दर्युवाचशिवस्यापि सुपुण्यस्य सुताऽहं शृणु सांप्रतम् । स्वमाऽहं कार्तिकेयस्य जननी गिरिजा मम ॥६ बालभावेन संप्राप्ता लीलया नन्दनं वनम् । भवान्को हि किमर्थं तु मामेवं परिपृच्छसि ॥ ७ हुण्ड उवाचविप्रचित्तेः सुतश्चाहं गुणलक्षणसंयुतः । हुण्डेति नाना विख्यातो बलवीर्यसमन्वितः॥ दैत्यानामप्यहं श्रेष्ठो मत्समो नास्ति राक्षसः ॥ देवेषु मर्त्यलोकेषु तपसा यशसा कुलैः । अन्येषु नागलोकेषु धनभाग्यैर्वरानने ॥ दर्शनात्ते विशालाक्षि हतः कन्दर्पमार्गणैः । शरणं तेऽप्यहं प्राप्तः प्रसादसुमुखी भव ।। भवस्व वल्लभा भायो मम पाणसमा प्रिया॥ अशोकसुन्दर्युवाचश्रूयतामभिधास्यामि सर्वसंबन्धकारणम् । भवितव्या मुजातस्य लोके स्त्री पुरुषस्य हि । भवितव्यस्तथा भतो स्त्रिया यः सदृशो गुणेः॥ संसारे लोकमार्गोऽयं शृणु हुण्ड यथाविधि । अस्त्येव कारणं चात्र यथा ते न भवाम्यहम् ॥१२ सुभायों देत्यराजेन्द्र शृणुष्व यतमानसः । तरुराजादहं जाता यदा काले महामते ॥ १३ शंभोभावं सुसंगृह्य पार्वत्या कल्पिताऽस्म्यहम् । देवस्यानुमतो देव्या सृष्टो भर्ता ममैव हि ॥१४ सोमवंशे महामाज्ञः स धर्मात्मा भविष्यति । जिष्णुजिष्णुसमो वीर्ये तेजसा पावकोपमः ॥ १५ सर्वज्ञः सत्यसंधश्च त्यागे वैश्रवणोपमः । यज्वा दानपतिः सोऽपि रूपेण मन्मथोपमः ॥ १६ नहुषो नाम धर्मात्मा गुणशीलमहानिधिः । देव्या देवेन मे दत्तः ख्यातो भर्ता भविष्यति॥१७ १ घ. ट. ठ. ड. वीक्षकः । २ क. स्व. रु. च. छ. झ. इ. द. पुणुर्विष्णु। ३ क. ख. च. छ. 'मः । धर्मशः सत्यवाग्धीरस्त्यागे। ङ, झ. ड. म. धर्मज्ञः सत्यवान्धीरस्त्यागे।

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387