Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
८४ चतुरशीतितमोऽध्यायः
पद्मपुराणम् ।
देववृन्दैः समाकीर्ण ययातिनहुषात्मजः । प्रविवेश पुरं दिव्यं सर्वदाहविनितम् ॥ ददर्श सर्वक्लेशनं नारायणमनामयम् । वितानरुपशोभं तं सर्वाभरणशोभितम् ।। पीतवस्त्रं जगनाथं श्रीवत्साई महागतिम् । वैनतेयसमारूढं श्रिया युक्तं परात्परम् ॥ सर्वेषां देवलोकानां यो गतिः परमेश्वरः । परमानन्दरूपेण कैवल्येन विराजते ॥ सेव्यमानं महालोकैः सुपुण्यैर्वैष्णवैहरिम् । देववृन्दसमाकीर्ण गन्धर्वगणसेवितम् ॥ अप्सरोभिर्महात्मानं दुःखक्लेशापहं प्रभुम् । नारायणं ननामाय स्वपल्या सह भूपतिः ।। ते नेमुर्मानवाः सर्वे वैष्णवा मधुसूदनम् ।। गता ये वैष्णवाः सर्वे राज्ञा सह महामते । पादाम्बुजव्यं तस्य नेमुर्भक्त्या महामते । प्रणमन्तं महात्मानं राजानं दीसतेजसम् । तमुवाच हृषीकेशस्तुष्टोऽहं तव सुव्रत । वर वरय राजेन्द्र यत्ते मनसि दुर्लभम् । तत्ते दामि न संदेहो मद्भक्तोऽसि महामते ॥
राजोवाचयदि तुष्टोऽसि देवेश मम वै मधुसूदन । दासत्वं देहि सततमात्मनश्व जगत्पते ।
विष्णुरुवाचएवमस्तु महाभाग मम भक्तो न संशयः । मम लोके त्वया राजस्थातव्यं त्वनया सह ॥ ७७ एवमुक्तो महाराजो ययातिः पृथिवीपतिः। प्रसादात्तस्य देवस्य विष्णुलोकं प्रभासितम् ।। निवसत्येष भूपालो वैष्णवं लोकमुत्तमम् ॥ इति श्रीमहापुराणे पाये भूमिखण्डे वेनोपाख्याने पितृतीर्थ ययातिचारने ययातिस्वर्गारोहणं नाम व्यशीतितमोऽध्यायः ॥३॥
आदितः श्लोकानां समथ्यङ्काः-७१५५
७८
अथ चतुरशीतितमोऽध्यायः ।
सुकर्मोवाचएतत्ते सर्वमाख्यातं चरितं पापनाशनम् । पुत्राणां तारकं दिव्यं बहुश्रेयःप्रदायकम् ॥ १ प्रत्यक्षं दृश्यते लोके ययातिचरितं शुभम् । राज्यं च पुरुणा प्राप्तं स्वर्गतिं प्राप्तवान्गुरुः ॥ २ पितृप्रसादात्कोपाच्च यथा जातं तथा पुनः। [*पुत्राणां तारकं पुण्यं यशस्य धनधान्यदम् ॥३ [' शापयुक्ताविमो चोभी गुरुश्च यदुरेव च ] । पितृमातृसमं नास्ति अभीष्टफलदायकम् ॥ ४ [*साभिलाषेण भावेन पिता पुत्रं समायेत् । माता च पुत्र पुत्रेति तस्य पुण्यफलं शृणु ॥ ५ समाहूतो यदा पुत्रः प्रयाति मातरं प्रति । यो याति हर्षसंयुक्तो गङ्गाम्नानफलं लभेत् ॥ ६ पादप्रक्षालनं यश्च कुरुते च महायशाः । सर्वतीर्थफलं भुङ्क्ते प्रसादादुभयोः सुतः] ॥ अगसंवाहनाचाथ अश्वमेधफलं लभेत् । भोजनाच्छादेनैश्चैव गुरू च परिपोषयेत् ॥ * एतचिहान्तर्गतः पाठः क.ख. ड. च. छ. झ. द. पुस्तकस्थः । । एतानहान्ता
समझ पस्तकस्थः । एतमिहान्तर्गतः पाठःट. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. ङ. च. झ. ड. द. पुस्तकस्थः ।
१४. र्वक्लेशवि । २ क. ख. घ. कु. च. छ. झ. ट. ड. द. विमाने' । ३१. सर्ववर्ण सुसे। ४ क. स्व. च. रोमिः समाकीर्ण । ५ क. ख. . च. छ. . १. श्रीकृष्ण उवाच । ६ क. ख. इ. च. छ... द. प्रसाधितम् । ७क. ख. च. 'हुदेयप्र। ८ इ.तृतीर्थप्रसादेन शापाचैव त । ९ इ. इ. 'दननानगं यः पोषयेत्सुतः । ।

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387