Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 429
________________ प्रथमः प्रत्यक्षप्रस्ताव: २१८७] ३५९ तवृत्तिः केवलस्यैव निर्विकल्पम्य प्रतिसंहारे विकल्पस्य चेन्द्रियव्यापारोपरमें दर्शनादिति चेत्; न; तर्हि नीलतज्ज्ञानयोरपि तन्नियमः ३ वर्लस्यैव तज्ज्ञानस्य विषयान्तरे नीलस्यापि ज्ञानान्तरे दर्शनात् । तदन्यदेव ज्ञानं नीलं च, पूर्वापरैकत्वे प्रमाणाभावस्य निवेदनात् । ततो यन्नीलसहितं ज्ञानं ज्ञानसहितश्च नीलं तदन्यदेवेत्यस्त्येव तत्र तन्नियम इति चेत् ; कथमेवं विकल्पेतरयोरप्यसहभाविनोरन्यत्वात सहप्रतिपन्नयोस्तन्नियमों न भवेत् ? तथा च वस्तुवृत्त्यैव तर्दभेदव्यवस्थितेः।। कथमुक्तमिदम् “मूढः तयोरैक्यं व्यवस्यति" ॥ [प्र० वा०२।१३३] दर्शनाभेदतः स्पाष्ट्यं विकल्पे तत्त्वतो भवेत् । "न"विकल्पानुविद्धस्य' इत्यादि "तज्जडकल्पितम् ।।८९३॥ "तद्वद्यमपि सामान्य वस्तु सत्स्यात्स्वलक्ष्मवत् । "तदवस्त्वभिधेयत्वात्” इति तन्मुग्धभाषितम् ॥८९४॥ विकल्पधर्मयोरेवमभिलाप्येतरात्मनोः। सहोपलम्भादेकत्वे विकल्पो नावकल्पते ॥८९५॥ तथा हि-न "तस्याभिलाप्यैकस्वभावस्य स्वतो वेदनम्; "तस्यानभिलाप्यस्य तत्रा सम्भवात्, अभिलाप्यस्यानभिलाप्यरूपानुपपत्तेः । अभिलाप्यमेव "तदपीति चेत् ; न तर्हि १५ प्रत्यक्षम्, "तस्यानभिलाप्यस्यैवाभ्यनुज्ञानात् । तृतीयं तु प्रमाणं भवेत् अलिङ्गजत्वेनानुमानेऽप्यनन्तर्भावात् । ततश्च 'प्रमेयद्वैविध्यात्' इति व्यभिचारी हेतुर्भवेत् , प्रमाणद्वैविध्यातिक्रमेणापि भावात् । “नाप्ययमनभिलाप्यस्वभाव एव ; ""अभिलापसंसर्ग" [ न्यायबि० पृ० १३] इत्यादेनिर्विषयत्वापत्तेः। अभिलान्याकारविषयं खल्वेतत् कथं तदभावे निर्विषयं न भवेत् ? "आरोपिततदाकारविषयत्वान्न दोष इति चेत् ; न ; आरोपकस्याभावात् । २० विकल्प "एव हि आरोपकारी, तस्य चोक्तन्यायादसम्भवे कुतः क्वचित्कस्यचिदारोपणमिति विकल्पविकलं सकलं जगद्भवेदिति कथमनुमानं यतः सहोपलम्भनियमादित्यसाधनाङ्गतया निग्रहाधिकरणं न भवेत् ? यदि पुनर्विकल्पाविकल्पयोर्विकल्पधर्मयोः अभिलाप्येतराकारयोर्वा सत्यपि सहोपलम्भनियमे नाभेदः ; कथं तदा तस्य गमकत्वं व्यभिचारात् ? तदेवाह-विरुद्धस्वात्' इति । विरुद्धत्वं विपक्षस्वीकृतत्वं तस्मादिति । १ युगपबृत्तिः। २ "सकलविकल्पसंहारे सुगतावस्थायामित्यर्थः"-ता. टि.। "केवलस्येति अत्रापि सम्बन्धनीयम्"-सा.टि."पिहिते कारागारे"-ता०टि०।५सहोपलम्मनियमः। केवलस्य वि-भा.., प०। ७ सहोपलम्भनियमः। ८ तदभेदे व्यवस्थिते आ०, ब०, प० । निर्विकल्पसविकल्पयोरभेदव्यवस्थितेः। ९ प्र०वा. १८३ । १० "सविकल्पकस्य विकल्पज्ञानस्येत्यर्थः"-ता-टि०।११ तजडजल्पि-मा०,०प०। १२ विकल्पज्ञानवेद्यम् । १३ तत् सामान्यमवस्तु । प्र०वा०२।११।१४ विकल्पस्य । १५स्वसंवेदनस्य । १५-रूपखानुपपत्तेः-आ०,०,०। १७ स्वतो वेइनमपि । १८ प्रत्यक्षस्य । १९ "प्रमेयद्वैविध्यात् प्रमाणद्वैविध्यम्"-ता. टि० । २० विकल्पः । २१ "अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पनाः"-न्यायवि० । २२ कल्पित-अभिलाप्याकार । २३ एव व्यवहारोप-मा०,०,०।

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618