Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 578
________________ ५०८ न्यायविनिश्चयविवरणे [ १११५६ तत्कृतो यद्यन्यत्र तेद्भावो नितरामात्मनि इति न्यायात् । यदि पुनः सत्यपि समवाये न सामान्यादौ तद्भाव द्रव्यादावपि न भवेदविशेषात् । विशेषकल्पनायां तु नैकः समवायः स्यात् दविशेषेऽपि द्रव्यादीनां विशेषो यतस्तत्रैव सत्त्वं न सामान्यादाविति चेत्; तर्हि द्रव्यत्वादिसामान्यविशेषाणामन्त्यविशेषाणाञ्च तत एव तत्रैव भावोपपत्तेः कैमर्थक्यात् समवाय कल्प५ नम् ? यदि पुनः समवायात् द्रव्यादिवत् द्रव्यत्वादावपि सत्त्वं पृथ्वीत्वाद्यवान्तरसामान्यमपि किन्न भवतीति चेत् ? अयमपि भवत एव पर्य्यनुयोगो यः समवायकृतं द्रव्यादौ सत्त्वमन्वाह, नास्माकं विपर्ययात् । ततो युक्तं द्रव्यादिवद् द्रव्यत्वादौ सामान्ये विशेषसमवाययोश्च सवोपपत्तेः सचराचरं त्रैलोक्यं ततो व्यक्तं भवेदिति । यत्पुनरिदं सूत्रम्-“सदिति यतो द्रव्यगुणकर्मसु स भावः ॥ [वैशे० १।२।७३] १० इति, तत्रैव भाष्यच “ परस्परविशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टं सदिति यतोऽभिधानं प्रत्ययश्च भवति स भाव इति । उपलक्षणार्थश्चैतत् सूत्रम्, तथा द्रव्यमिति यतः पृथिव्यादिषु तद् द्रव्यत्वं गुण इति यतो रूपादिषु तद्गुणत्वं कर्मेति मत उत्क्षेपणादिषु तत्कर्मत्वम्" [ ] इति । तत्र यदि सवादयो न सन्ति कथं तेभ्यः क्वचिद् व्योमकुसुमेभ्य इव सदाद्यभिधानस्य प्रत्ययस्य च प्रवृत्तिः ? सन्त्येवोपचारतस्त इति चेत्; न; तत्कुसुमेष्वपि १५ तदनिवारणात् । किं वा सद्भिस्तेषां साधर्म्यं यतस्तत्र सस्वमुपचर्येत ? सद्विशेषणत्वमेव, तथा च भाष्यम् - "यथा च सन्ति द्रव्यगुणकर्माणि सतामपि द्रव्यगुणकर्मणां विशेषणं तथा सामान्यविशेषसमवाया इति सन्त इव सन्त इत्युच्यन्ते ।" [ ] इति चेत्; न; परस्पराश्रयापत्तेः - सति द्रव्यादीनां सत्त्वे तद्विशेषणत्वेन सत्त्वादेः सस्वम्, सता च तेन सम्बन्धाद् द्रव्यादीनां सत्वम् पृथिव्यादीनाच्च द्रव्यादित्वमिति । तन्नोपचारतस्तेषां सत्वम् । २० नापि सत्तासम्बन्धात्; सत्तासम्बन्धे हि सामान्यादीनामपरजातित्वप्रसङ्ग इति स्वयमेव तन्निराकरणात् । भवन्तु तर्हि स्वत एव ते सन्तं इति चेत्; कथं तहींदं भाष्यम् - " सामान्यविशेषसमवायानां तु सदित्यभिधानप्रत्ययावौपचारिकौ” [ ] इति ? वस्तुभूतस्वरूपसत्तानिबन्धनयोस्तयोरौपचारिकत्वानुपपत्तेः । स्वतश्च तेषां सत्त्वे तद्वद् द्रव्यादीनामपि स्यादविशेषात् । एतदेवाह २९ • सत्तायोगाद्विना सन्ति यथा सत्तादयस्तथा ॥ १५५ ॥ देशकालश्च सामान्यं सकलं मतम् । इति । सर्वे सत्तया महासामान्येन योगः सम्बन्धः तस्माद् विनां तमन्वरेण यथा येन १ समवेतत्वम् । २ सस्वभावः । ३ समवायाविशेषेपि । ४ समान्येनवि-आ०, ब०, प० । ५ - कर्मसु इति आ०, ब०, प०। ६ “परस्पर विशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टा सत्सदिति प्रत्ययानुवृत्तिः सा चार्थान्तराद्भवितुमर्हतीति यत्तदर्थान्तरं सा सत्तेति सिद्धा । " - प्रश० भा० पृ० १६५ । ७ “ अभिधानं प्रत्ययश्च भवतीति सम्बन्धनीयम्, एवं गुणत्वकर्मत्वयोरपि । ” - ता० दि० । ८-न प्रत्ययप्रत्र - आ०, ब०, प० । ९ सामान्यादीनाम् ।

Loading...

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618