Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 589
________________ प्रथमः प्रत्यक्षप्रस्ताव: २।१५८] इत्येवास्तु निर्दोषत्वादिति चेत् ; उच्यते कीदृशं तज्ज्ञानं यदेवं प्रत्यक्षतया लक्ष्येत ? निरंशक्षणक्षीणपरमाणुरूपमिति चेत् ; न; विकल्पदशायां तदप्रतिपत्तेः । विकल्पस्यैव 'नीलमहं वेद्मि' इत्याकारस्यानुभवात् , न तद्व्यतिरिक्तस्य दर्शनस्य । अस्त्येव तस्याप्यनुभवः, केवलं विकल्पैकत्वेनाव्यवसायान पृथनिश्चय इति चेत् ; कथमनिश्चितमनुभूतं नाम बुद्धिव्यतिरिक्तचैतन्यबत् ? कथं वा तद्रूपं प्रतिभासनं भावानां क्षणिकतया व्यवहारहेतुः; निश्चितस्य तत्त्वानुपपत्तेः, ५ असिद्धत्वात् । अनिश्चितस्यापि सिद्धत्वे हेतोरपि स्यादित्यसङ्गतमिदम्-"हेतोस्त्रिष्वपि" [प्र. वा० ३।१४ ] इत्यादि । विचारतो विद्यत एव निश्चयस्तस्य, अनिश्चयस्तु नीला. दिवत् प्रत्यक्षजन्मनो निश्चयस्याभावादिति चेत् किमेप्येवमप्यनुमानेन ? व्यवहारस्य नीलादिवत् क्षणक्षयेऽपि तनिश्चयादेवोपपत्तेः अन्यथा नीलादावपि ततस्तदनुपपत्तेस्तस्य निदर्शनत्वाभावप्रसङ्गात् । तत्राप्यनुमानत एव तदुपपत्तिकल्पनायामनवस्थोपनिपातः-परापरतन्निदर्शनस्य १० तव्यवहारकारणानुमानप्रबन्धस्य चावश्यकल्पनीयत्वात् । तन्न विकल्पदशायां तत्प्रतिपत्तिः । विकल्पसंहारवेलायामिति चेत् ; न; तद्वैलाया एवानवलोकनात् । तदा तत्प्रतिपत्तौ वा कुतस्तत एव क्षणक्षयेऽपि व्यवहाये न भवेत् ? विपरीतारोपादिति चेत् ; न; विकल्पसंहारश्च विपरीतारोपश्चेति व्याघातात् , तदारोपस्यैव विकल्पत्वात् । कचिन्नीलादावपि कुतस्ततो व्यवहारः ? तदारोपाभावादिति चेत् ; न; निरंशे वस्तुनि भागतस्तदनुपपत्तेः । काल्पनिकस्य च १५ सांशत्वस्य तदशायामसम्भवात् । तन्न समारोपात् ततस्तद्व्यवहाराभावः । नापि पाटवाद्यभावात् ; नीलादावपि तदापत्तेः। तत्र पाटवादिभावे वा न प्रतिभासनमेव तव्यवहारहेतुः , अपि तु पाटवादिविशिष्टम् , तस्य च क्षणक्षयेऽभावादसिद्धो हेतुः । यच तत्र'वभासमात्रम् ; तस्य नीलादावभावात् साधनवैकल्यब्च दृष्टान्तस्य । ततो दुर्भाषितमिदम्-"यद्यथाऽवभासते तत्त. थैव व्यवहारमवतरति यथा नीलं नीलतयाऽवमासमानं तथैव तद्व्यवहारमवतरति, अब- २० मासन्ते च सर्वे भावाः क्षणिकतया" [ ] इति । ततो निर्विशेषमेव समारोपवैकस्यादिकं चिदादिनीलादिक्षणक्षयादिविषयमन्वेषणीयम् । तथा च सति निःशेषधर्मव्यवहृतेस्ततः । प्रत्यक्षादेव सिद्धत्वात् व्यर्थस्तत्साधनश्रमः ॥११८१।। अस्ति चायं प्रयासस्ते तत्र तत्र तदुच्यते । क्षणक्षयनिरंशत्वाविकल्पत्वादिसाधनम् ॥११८२॥ तम ज्ञानं किमप्यस्ति क्षणक्षीणमनंशकम् । नापि चित्रं क्रमेणापि तचित्रत्वप्रसञ्जनात् ॥११८३॥ क्षणभङ्गाविकल्पत्ववार्ताप्यत्र न यद्भवेत् । तस्मादसम्भवादोषाधुक्तं नाध्यक्षलक्षणम् ॥११८४॥ १-रीतसमारो-आ०, ब०,१०।२-वानीला-आ०, ब०, प० ।

Loading...

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618