Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
१०
५२०
१५
इदमेवाह
न्यायविनिश्वयविबरणे
अविकल्पकमभ्रान्तं प्रत्यक्षाभम् [पटीयसाम् ] ॥ १५८ ॥ इति ।
न विद्यते विकल्पो 'जात्यादियोजनरूपः प्रतिभासो यस्मिंस्तद् अविकल्पकम् अभ्रान्तं तिमिराशुभ्रमणाद्यनाहितविभ्रमं परोक्तमर्थज्ञानम् । तत्किम् १ प्रत्यक्षमिवाभाति न ५ प्रत्यक्षमेवेति प्रत्यक्षाभं तस्यैवासम्भवात्, असम्भवश्च तत्र प्रमाणाभावात् । अत एवोक्तम्अन्यथाsपरिणामतः इति । संम्भवेऽपि क्व तस्य प्रत्यक्षत्वम् ? दृश्ये जलादाविति चेत् ; न; तस्याप्यनुभवाधिष्ठितत्वेनाप्रवृत्तिदिषयत्वात् । प्रवर्त्तकस्य च प्रत्यक्षत्वमनुमतं भवतां प्राप्ये भाविनीति चेत्; न; तस्य तेनाप्रतिपत्तेः । अप्रतिपन्नेऽपि प्रत्यक्षत्वे अतिप्रसङ्गात् । दृश्यप्रतिपत्तिरेव तस्यापि प्रतिपत्तिस्तयोरेकत्वादिति चेत्; उच्यते
[ ११५८
वस्तुतो यदि तद्भावः क्षणभङ्ग जगत्कथम् १
'
संवृत्या यदि तन्न स्यात् प्रत्यक्षमविकल्पकम् ॥ ११८५ ॥ न ह्येकत्वोपसम्पृक्तदृश्यप्राप्योपलम्भनम् । अविकल्पकमध्यक्षमा चक्षाणाः परीक्षकाः ॥ ११८६॥ क्षणक्षयित्वं प्रत्यक्षवेद्यमित्यपि वः कथम् । परमार्थपथे तच्चेन्न तत्र तदसम्भवात् ॥ ११८७ ॥ नित्यानित्यादिनिःशेषविकल्परहितं यतः । अद्वैतमेव तत्रार्थः स्वसंवेदनगोचरः ॥ ११८८ ॥
१
भवतु वर्त्तमानविषयमेव प्रत्यक्षम्, न च तस्याप्रवर्त्तकत्वम्, उपलम्भपरितोषमात्रादेव तदुपपत्तेः, भाविनि तु तस्य तत्त्वं व्यवहर्तृजनाभिप्रायादेव न तवत इति चेत् ; २० नन्वेवं क्षणभङ्गादावपि तस्यैव प्रामाण्यात् किमर्था तत्र प्रमाणान्तरप्रवृत्तिः १ समारोपव्ययच्छेदस्य विहितोत्तरत्वात् । निश्चयार्थेति चेत्; नीलादावपि किन तत्प्रवृत्ति: १. प्रत्यक्षादेव तस्य निश्चयादिति चेत् ; कथमेतत् तस्यानिश्चयरूपत्वात् ? निश्चयहेतुत्वादिति चेत् ; न ; निर्विकल्पत्वात् । निर्विकल्पं हि प्रत्यक्षं कथं निश्चयहेतुः अर्थवत् १ निश्चयसंस्कारादेव विनिश्चयः प्रत्यक्षस्य तद्धेतुत्वं तत्संस्कारप्रबोधादिति चेत्; न; तत्प्रबोधस्याप्यर्थादेवोपपत्तेः । २५ चैत
“अभेदात्सदृशस्मृत्यामर्थाकल्पधियां न किम् ।
संस्कारा विनियम्येरन् यथास्वं सन्निकर्षिभिः || ” [ सिद्धिवि० परि० १] इति । तन प्रत्यक्षान्निश्चयः । भवन्नपि कथं नीलादावेव न क्षणक्षयादावपि यत्तस्तत्रैव
१ " जातिः क्रिया गुणो द्रव्यं संज्ञा पञ्चैव कल्पनाः । अश्वो याति सितो घण्टी कत्तलारव्यो यथाक्रमम् ॥ "ता० डी० । २ - विप्रति आ०, ब०, प० । ३ णात्परी-आ०, ब०, प० । ४ नः आ०, ब०, प० ।

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618