________________
प्रथमः प्रत्यक्षप्रस्ताव:
२।१५८] इत्येवास्तु निर्दोषत्वादिति चेत् ; उच्यते कीदृशं तज्ज्ञानं यदेवं प्रत्यक्षतया लक्ष्येत ? निरंशक्षणक्षीणपरमाणुरूपमिति चेत् ; न; विकल्पदशायां तदप्रतिपत्तेः । विकल्पस्यैव 'नीलमहं वेद्मि' इत्याकारस्यानुभवात् , न तद्व्यतिरिक्तस्य दर्शनस्य । अस्त्येव तस्याप्यनुभवः, केवलं विकल्पैकत्वेनाव्यवसायान पृथनिश्चय इति चेत् ; कथमनिश्चितमनुभूतं नाम बुद्धिव्यतिरिक्तचैतन्यबत् ? कथं वा तद्रूपं प्रतिभासनं भावानां क्षणिकतया व्यवहारहेतुः; निश्चितस्य तत्त्वानुपपत्तेः, ५ असिद्धत्वात् । अनिश्चितस्यापि सिद्धत्वे हेतोरपि स्यादित्यसङ्गतमिदम्-"हेतोस्त्रिष्वपि" [प्र. वा० ३।१४ ] इत्यादि । विचारतो विद्यत एव निश्चयस्तस्य, अनिश्चयस्तु नीला. दिवत् प्रत्यक्षजन्मनो निश्चयस्याभावादिति चेत् किमेप्येवमप्यनुमानेन ? व्यवहारस्य नीलादिवत् क्षणक्षयेऽपि तनिश्चयादेवोपपत्तेः अन्यथा नीलादावपि ततस्तदनुपपत्तेस्तस्य निदर्शनत्वाभावप्रसङ्गात् । तत्राप्यनुमानत एव तदुपपत्तिकल्पनायामनवस्थोपनिपातः-परापरतन्निदर्शनस्य १० तव्यवहारकारणानुमानप्रबन्धस्य चावश्यकल्पनीयत्वात् । तन्न विकल्पदशायां तत्प्रतिपत्तिः । विकल्पसंहारवेलायामिति चेत् ; न; तद्वैलाया एवानवलोकनात् । तदा तत्प्रतिपत्तौ वा कुतस्तत एव क्षणक्षयेऽपि व्यवहाये न भवेत् ? विपरीतारोपादिति चेत् ; न; विकल्पसंहारश्च विपरीतारोपश्चेति व्याघातात् , तदारोपस्यैव विकल्पत्वात् । कचिन्नीलादावपि कुतस्ततो व्यवहारः ? तदारोपाभावादिति चेत् ; न; निरंशे वस्तुनि भागतस्तदनुपपत्तेः । काल्पनिकस्य च १५ सांशत्वस्य तदशायामसम्भवात् । तन्न समारोपात् ततस्तद्व्यवहाराभावः । नापि पाटवाद्यभावात् ; नीलादावपि तदापत्तेः। तत्र पाटवादिभावे वा न प्रतिभासनमेव तव्यवहारहेतुः , अपि तु पाटवादिविशिष्टम् , तस्य च क्षणक्षयेऽभावादसिद्धो हेतुः । यच तत्र'वभासमात्रम् ; तस्य नीलादावभावात् साधनवैकल्यब्च दृष्टान्तस्य । ततो दुर्भाषितमिदम्-"यद्यथाऽवभासते तत्त. थैव व्यवहारमवतरति यथा नीलं नीलतयाऽवमासमानं तथैव तद्व्यवहारमवतरति, अब- २० मासन्ते च सर्वे भावाः क्षणिकतया" [ ] इति । ततो निर्विशेषमेव समारोपवैकस्यादिकं चिदादिनीलादिक्षणक्षयादिविषयमन्वेषणीयम् ।
तथा च सति निःशेषधर्मव्यवहृतेस्ततः । प्रत्यक्षादेव सिद्धत्वात् व्यर्थस्तत्साधनश्रमः ॥११८१।। अस्ति चायं प्रयासस्ते तत्र तत्र तदुच्यते । क्षणक्षयनिरंशत्वाविकल्पत्वादिसाधनम् ॥११८२॥ तम ज्ञानं किमप्यस्ति क्षणक्षीणमनंशकम् । नापि चित्रं क्रमेणापि तचित्रत्वप्रसञ्जनात् ॥११८३॥ क्षणभङ्गाविकल्पत्ववार्ताप्यत्र न यद्भवेत् । तस्मादसम्भवादोषाधुक्तं नाध्यक्षलक्षणम् ॥११८४॥
१-रीतसमारो-आ०, ब०,१०।२-वानीला-आ०, ब०, प० ।