________________
५१८
म्यायविनिश्चयविवरणे
[ १२११५८
'धर्मिणोऽपि तत्वम् ? स्वयमन्यत्र समवायादिति चेत्; न; परमाण्वात्मादेस्तदभावात् । स्वस्मिन्नन्यस्य समवायादिति चेत्; न; सत्तावदिति निदर्शनस्य साधनवैकल्यापत्तेः सत्तायामन्यस्य तदभावात् । समवायस्य तेन सम्बन्धादिति चत्; न; सम्बन्धान्तरात् तदभा बातू, अनवस्थापत्तेः । 'स्वतस्तद्भावस्तु प्रागभावेनापि किन्न स्यात् ? तत्र सन्नपि सम्बन्ध प्रत्ययं ५ न जनयतीति व्याघातात् । तन्न सविशेषणमप्यकारणवत्त्वम् तत्र लिङ्गम्, व्यभिचारात् ।
भवतु विनाशकारणापरिज्ञानं नित्यत्वे लिङ्गम् । विनाशकारणं हि कस्यचित् समवायिकारणविनाशः घटादिनाशात् तद्रूपादिनाशोपलब्धेः असमवायिकारणविनाशश्च कस्यचित् कपालादिसंयोगनाशात् घटादिनाशप्रतिपत्ते, नापरमनुपलम्भात् । न च परमाण्वास्मादेः समवायिकारणम् ; निरवयवत्वात् । अत एव नाऽसमवायिकारणम् ; समवायिकारण१० संयोगस्य तस्वात् । न चासतो विनाश इति सिद्धं विनाशकारणापरिज्ञानम्ः । सूत्रञ्चैतत्
I
" अविद्या च " [वैशे० ४।१।५] इत्यविद्यापदेन विनाशकारणापरिज्ञनास्य प्रतिपादनात् । अत्र प्रयोगः नित्याः परमाण्वादयः अपरिज्ञातविनाशकारणत्वात् सत्तावदिति चेत्; न; अस्यापि प्रागभावेनैव व्यभिचारात् न हि तत्रापि विनाशकारणं समवाय्यादिकारण विनाशः, तत्कारणस्यैवानुत्पत्तिमत्त्वेनासम्भवात् । समवायित्वविशेषणस्य च पूर्ववत् प्रतिक्षेपात् । नन्वेवं १५ विनाशाभावात् कथं तस्यानित्यत्वमिति चेत् ? अयमपि परस्यैव दोषो य एवमिच्छति । न दोषो विनाशाभावेप्यन्तवत्वेन तस्यानित्यत्वात्, अन्तवान् हि प्रागभावः कार्यान्तरस्यैव तस्य प्रतीतेरिति चेत्; कथं कार्यस्य तदन्तत्वम् ? तदभावरूपत्वादिति चेत्; तदेव तर्हि तस्य नाश इति कथं ' तदभावः । तत्प्रच्छादनादिति चेत् ; न तस्य प्रतिषिद्धत्वात् । तनेदमपि तत्र लिङ्गम् । लिङ्गान्तरमप्येवमुपन्यस्य प्रत्यसितव्यम् । तन्नानुमानादपि प्रतिपत्तिर्नित्यस्य ।
नाप्युपमानात तस्य प्रमाणान्तरप्रतीते वस्तुनि संज्ञासंज्ञिसम्बन्धप्रतिपत्तित्वात् । प्रमाणान्तरेण च नित्यस्याप्रतिपन्नत्वात् 'तदिदं नित्यम्' इति तत्सम्बन्धप्रतिपत्ते दुरुपपादत्वात् । आगमस्य तु नात्र प्रामाण्यम्; प्रत्यक्षादिप्रत्यनीकत्वात् । तन्न नित्यं नाम किश्चित, यदेकमेव प्रतीयमानमात्मन्यनेकरूपतां प्रतिकुर्वीत । ततो " युक्तमेकानेकस्य प्रमाणसिद्धत्वादनेकान्तत्वमिति ।
२०
२५
"
तथा समविषमाकारस्यापि । नहि तत्रापि कश्चिद्विरोधः; प्रामाण्यस्य तद्ग्रहणपरिणामस्याप्रतिवेदनात् । ततो व्यवस्थितम् - व्यवसायात्मकं विशदं द्रव्यपर्यायसामान्यविशेषार्थामवेदनं प्रत्यक्षमिति ।
किमनेन तल्लक्षणेन " प्रत्यक्षं कल्पनापोढमभ्रान्तम्" [ न्यायबि० १ । ४ ]
१ "परमाण्वात्मादयो नित्याः समवायित्वे सत्यकारणवस्वात्सत्तावत्" - ता० टी० । २खतस्माद्भाव-आ०, ब०, प० । ३ प्रागभावेऽपि आ०, ब०, प० । ४ - णविशेषनाशः आ०, ब०, प० । ५ -दयो न परि-आ०, ब०, प० । ६ ‘“प्रागभावस्य " - ता० दि० । ७ कार्यमेव । ८ प्रागभाव विनाशः कथमभावात्मकः ? ९–त्मन्यरूता० । ११ युक्तमेवानेक-आ०, ब०, प० ।