________________
११५८ ]
प्रथमः प्रत्यक्षप्रस्तावः
नाप्यनुमानात् ; प्रत्यक्षतः तदप्रतिपत्तौ ततस्तद्धेतुसम्बन्धस्योपरिज्ञानात् । अनुमानात्तत्परिज्ञाने ; तत एव परस्पराश्रयस्य, अन्यतश्चानवस्थानस्य प्रसङ्गात् । न च प्रमाणान्तरम् ; अनभ्युपगमात् । तन्न क्षणिकं प्रमाणवेद्यं यदनेकमेवं भवदात्मनि क्रमत एकरूपतो विरुध्यात् । नापि नित्यम् । नहि तत्रापि प्रत्यक्षं प्रमाणम् ; तद्धि तद्धेतुकम् अतद्धेतुकं वा ? तद्धेतुकत्वे विषयस्य तत्करणैकस्वभावस्य नित्यत्वात् कथं तज्ज्ञानोपैरमः ? सामग्रीवैकल्यादिति चेत्; ५ न; विषयस्यैव वे तदयोगात् । अन्यस्य तत्स्वे कथं विषयहेतुकं तज्ज्ञानम् ? विषयश्चान्यश्च सामप्रीति चेत्; न; प्रत्येकं तयोस्तव ज्ञानानुपरमस्य तदवस्थत्वात् । सम्भूय तत्त्वे कथं प्रत्येकं कारणत्वं यतः समवायि किञ्चिद् अन्यदसमवायि निमित्तञ्चापरं कारणमुच्यते ? नहि सामया एव कारणत्वे तद्भेदः; तस्या एकत्वेन समवाय्यादीनामन्यतमत्वस्यैवोपपत्तेः । न च तदन्यतममात्रात्कार्यम् ; त्रभ्यः कारणेभ्यः कार्यमिति भवतामभ्युपगमात् । कुतो वा प्रत्येक १० मकारणत्वे वस्तुत्वं व्योमकुसुमादिवत् ? सत्तासम्बन्धादिति चेत् ; ननु सोऽप्याधार्याधारभाव एव । न चाचित्करत्वे तद्भावः, तत्कुसुमादिवदेव । सामग्री कारणत्वस्य तत्रोपचारात् न किञ्चित्करत्वमिति चेत्; न; तदायत्तस्य सत्तासम्बन्धस्याप्युपचरितस्यैव प्रसङ्गात, संवृतिसत्ताया एव प्राप्तेः । नच संवृतिसत्तासंभवदशायामपि वस्तुतः कारणत्वमिति बतायं हेतुफलभावः तात्त्विकीमवस्थामास्तिधनुवीत ? ततः प्रत्येकमेव कारणत्वात् कथमुपरमस्तज्ज्ञानस्य ? समप्रभाव - १५ दर्शायामेव तद्भावादिति चेत्; न तर्हि तन्नित्यम् प्रागकारणस्य तद्दशायां कारणतया परिणामात् । तन्न तद्धेतुकं प्रत्यक्षम् ।
酒
नाप्यतद्धेतुकम् ; नित्येश्वरहेतुकत्वे तत्राप्यनुपरमदोपस्य तदवस्थत्वात्, अन्यथा कार्यत्वादेः तेन व्यभिचारापत्तेः । नचानुपरतस्यैव तस्य भावः तद्वतो विषयान्तरपरिज्ञानाभावानुषङ्गात, युगपत्तदुत्पादनस्यानभ्युपगमात् । तन्न प्रत्यक्षात्तत्परिज्ञानम् ।
२०
9
नाप्यनुमानात् ; तस्य प्रत्यक्षपूर्वकत्वेन तदभावेऽनवतारात् । किं वा तत्र लिङ्गम् ? कार्यमेव कारणभावादेव तस्योपपत्तेरिति चेत्; न; अनुपरतस्यासिद्धेः । उपरतिमतस्तु उपरतिमत एव तस्य सिद्धिर्न नित्यस्य । ततो न युक्तमुक्तम्- तस्य कार्यं लिङ्गमिति । अकारणवत्वमिति चेत्; न; प्रागभावेन व्यभिचारात् तस्य तत्त्वेप्यनित्यत्वात् । सोऽपि नित्य एवेति चेत् ; कुतो न कार्यकालेऽपि तस्यै प्रतिपत्तिः । कार्येण प्रच्छादनादिति चेत ; २५ प्रच्छादनप्रागभावेन तर्हि व्यभिचारः, तस्याऽकारणवत्खेऽप्यनित्यत्वात् । सोऽपि नित्य एवेति चेत् ; न ; तत्रापि 'कुतो न' इत्यादेरावर्त्तनाद् अव्यवस्थापत्तेः । न चापरापरस्यापरिमितस्य प्रच्छादनस्य प्रतिपत्तिः । तस्मादनित्य एव स इति कथन्न व्यभिचारः । समवायित्वे ' सत्य कारणवस्त्वादिति हेतोर्विशेषणात् प्रागभावस्य च समवायित्वादिति चेत् ; कुतो
,
५१७
"
१ - स्यासंज्ञानात् आ०, ब०, प० । २ - व च तदा-प० । वचपदा-आ०, ब० । ३ - पगमः आ०, ब०, प० । ४ " सामग्रीत्वे " - ता० टि० । ५ -तुकं ज्ञानंआ०, ब०, प० । ६ - यामिव त आ०, ब०, प० । ७ प्रागभावत्वस्य । ८ -त्वे तस्य कारणवत्त्व-आ०, ब०, ।-त्वे तस्य कारणत्त्रा प० ।