________________
म्यायविनिश्चयविवरणे
[१।१५८ लक्षणम् - "अज्ञातार्थप्रकाशो वा' [प्र०वा० १।३] १ व्यावहारिकमिति चेत् ; ननु तन्निश्चयात्मकमेव, तथैव व्यवहर्तृषु प्रसिद्धः, अन्यथा “मनसो" [प्रश्वा० २।१३३] इत्यादिना तत्प्रसिद्धिप्रतिपादनस्यानुपपत्तेः । न च ततः क्षणिकस्य प्रतिपत्तिः, निर्विवादत्वे.
नानुमानवैफल्यापत्तेः। द्वितीयविकल्पेऽपि कुतस्तदनुमानस्य प्रामाण्यम् ? समारोपव्यवच्छे. ५ दादिति चेत् ; कोयं समारोपो नाम ? क्षणिकेऽक्षणिकज्ञानमिति चेत् ; उच्यते
कालत्रयानुयायिनमिह न क्षणिकं वदन्ति विद्वांसः । प्रत्यक्षादिव तन्न क्षणिकज्ञानात्सुबोधं वः ॥११७६॥ न ह्यक्षणिकं ज्ञानं वस्तुबलादस्ति बौद्धसिद्धान्ते । कल्पितरूपं कथमिव तत्कस्यापि प्रतीतिकरम् ॥११७७।। तस्याप्यक्षणिकत्वं क्षणिकज्ञानान्न शक्यकल्पनकम् । अक्षणिकश्च न किञ्चिद्विज्ञानं तात्त्विकं भवताम् ॥११७८।। कल्पितमक्षणिकं तद्यदि पुनरुच्येत पूर्ववदोषः । पुनरपि तद्वद्वचने कथमनवस्थानतो मुक्तिः ? ॥११७९।। तन्न समारोपोऽयं शक्यपरीक्षस्ततः कथं ब्रूयुः ।।
तद्विच्छित्तिविधानात् प्रमाणमनुमानमिति बौद्धाः १ ॥११८०॥
अपि चैवं कथं नीलादिविकल्पस्यापि न प्रामाण्यम् ? नीलादौ विपरीतसमारोपाभावादिति चेत् ; क्षणिके कुतस्तद्भावः ? साधर्म्यदर्शनादिति चेत् ; न; नीलादेरपि पीतादिना कथ. चित्तदर्शनात् । सर्वथा क्षणिकेऽपि तदभावात् । न तत्र समारोपः प्रतीयत इति चेत् ; इतरत्र
कुतस्तत्प्रतीतिः ? स्वत इति चेत् ; न; अस्वलक्षणत्वे तदयोगात् । प्रत्यक्षं हि स्वसंवेदनम् , तत् २. कथमस्वलक्षणविषयं भवेत् ? स्वलक्षणात्मैव स इति चेत् ; न तर्हि समारोपाकारत्वं स्वलक्षण
स्यातद्रूपत्वात् । अन्यत एव तस्य तदाकारत्वं न स्वत इति चेत; कथमन्यकृतस्य स्वतो वेद. नम् ? तदप्यन्यत एवेति चेत् ; न; तस्याप्यतदाकारत्वे तदयोगात् । तदाकारत्वे तदपि न स्वलक्षणमिति तस्यापि न स्वसंवेदनादवगतिः। स्वलक्षणमेव तत् , तदाकारत्वन्तु तस्याप्यन्यत
एवेति चेत् ; न; तत्रापि कथमित्यादेरनुषङ्गादनवस्थानदोषपाषाणदूरपरिपातनस्य दुरपाकरत्वात् । २५ तन्न समारोपस्यैवाप्रतिपत्तेः तयवच्छेदः फलमनुमानस्य । अनिश्चितार्थनिश्चय इति चेत्; कि
पुनः प्रत्यक्षतः स नास्ति ? नास्त्येव तस्यानिश्चयरूपत्वादिति चेत् ; कथं प्रामाण्यम् ? प्रामाण्ये वा किमनुमानेन ? तत्कृतनिश्चयाभावेऽपि तत्प्रामाण्यस्याविघातात्, अस्ति च तत् । ततो न प्रत्यक्षात्प्रतिपत्तिः क्षणिकस्य ।
"मनसोर्युगपवृत्तेः सविकल्पाविकल्पयोः । विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति ॥"-ता० टी० । २ यायिनमिति न प०।-यायिनमपि न आ०, ब.। ३ च्यात् आ०, ब०, प०। ४ साधाभावात् । ५ अनुमानकृत