________________
प्रथमः प्रत्यक्षप्रस्तावा
१२१५८] पदनेककायगोचराणां जीवानामपि भेदोपपत्तेः समाना एव ते परस्परं नाभेदिन इत्युपपन्नमुक्तम्'समा भावाः' इति ।
यद्येवमेकशरीराधिष्ठानानामपि पूर्वापरचित्तलक्षणानां सादृश्यमेव परस्परं नैकत्वमिति चेत् ; अत्रोत्तरम् - 'केचिन्नापरे' इति । केचित् नानादेहगह्वरपरिवर्तिन एव ते समा नापरे नैकवपुःसम्पर्किणस्तत्र भेदवदभेदस्यापि तत्प्रतीतिबलेनावस्थापनात् । अभिहितश्चैतत्- ५ 'भेदज्ञानात्' इत्यादिना । यदि वा केचित् जीवा एव परस्परं समानापरे जीवपुद्गला. दरास्तेषां परस्परतो विसदृशपरिणामाधिष्ठानतया 'प्रतीतः। अत्रोदाहरणम्-'चरणादिवत्' इति । चरण आदिर्येषां करशिर:पृष्ठोदरादीनां ते इव तद्वदिति । यथा चरणादीनामेकशरीरात्मकत्वेऽपि भेदप्रभेदरूपत्वं परस्परतः समविषमात्मकतया भिन्नरूपतयैव प्रतीतेः । चरणादयो हि चरणादिभिः समा न करादिभिः, तेऽपि तदन्तरैः समा न चरणादिभिरिति, .. तथा समहनयार्पितैकसद्रूपत्वेऽपि जीवेपुद्गलादीनामिति ।
साम्प्रतं प्रस्तुतप्रस्तावार्थविस्तारमुपसंहृत्यां दर्शयन्नाह
एकानेकमनेकान्तं विषमञ्च समं यथा ॥ १७ ॥
तथा प्रमाणतः सिद्धमन्यथाऽपरिणामतः । इति ।
सदित्यनुवर्तते सद्विषयविषयिरूपं वस्तु एकम् अनुगतरूपापेक्षया, अनेक १५ व्यावृत्ताकारापेक्षया । अनेन द्रव्यपर्यायरूपत्वमुक्तम् । तथा विषमं विसदृशरूपं 'च' शब्दः सममित्यत्र द्रष्टव्यः । समं च न केवलं विषमम् , अपि तु समं च सदृशपरिणामि च । इत्यनेन सामान्यविशेषात्मकत्वं निवेदितम् । अत एव अनेकान्तम् अनेकस्वभावम् । न चेदं वाङमात्रमपि, यथा येन प्रस्तुतप्रस्तावप्रपश्चितप्रकारेणानेकान्तं वस्तु भवति तथा तेन प्रकारेण सिद्धं निश्चितम् । कुतः प्रमाणतः प्रत्यक्षादन्यतश्च, तस्यापि तद्विषयत्वेन २० निरूपयिष्यमाणत्वात् । यद्येकं कथमनेकं विरोधादिति चेत् ? अत्रोत्तरम्-'अन्यथा' इत्यादि। अन्यथा अन्येनैकान्तप्रकारेण विषयग्रहणव्यापारः परिणामस्तदभावाद् अपरिणामतः प्रमाणस्येति विभक्तिपरिणामेन सम्बन्धः । तथा हि यद्येकमनेकात् , तदपि एकरूपादेकान्ततो व्यावृत्तं प्रमाणतोऽवगम्येत भवत्येव तदभेदस्य विरोधः प्रमाणप्रत्यनीकत्वात् । न च तस्य ताशस्य प्रतिपत्तिः, अन्योन्यात्मन एवावगमात् । न च प्रमाणावगते विरोधः , वस्तुमात्रेऽपि . तत्प्रसङ्गेन नैरात्म्यवादोपनिपातात् ।
____ क्षणिकमेव वस्तु प्रत्यक्षतोऽवगम्यत इति चेत् ; तत्पुनः प्रत्यक्षं व्यावहारिक वा स्याद्यस्येदं लक्षणम्-"प्रमाणपविसंवादिज्ञानम्" [प्र०वा० ११३ ], पारमार्थिकं वा यस्यापीदं
यद्येकमेव शरीराधिष्टानामपि आ०, ब०,५०।२ "भेदज्ञानात् प्रतीयेते प्रादुर्भावात्ययौ यदि । अभेदज्ञानतः सिद्धा स्थितिरंशेन केनचित् ॥"-ता०टि०। न्यायवि० श्लो० ११८ । ३ न परे ता०। ४ -ते तत्री-ता। ५-पुद्गलानामि-आ०, ब०,५०।६ -त्य दर्श-आ०, ब०, प० ।