________________
म्यायांवनिश्चयविवरणे
શિ૧૭ देरनिवारणात् , तथा च तत्सम्बन्धोऽपि समवाय एवेति न संयोगस्यावकाशः कश्चित् ।
का चेयमुत्पत्तिर्यस्याः सम्बन्धाभिन्नकालत्वम् ? प्रागसतः शरीरस्यात्मलाभ एवाभावविलक्षण इति चेत् ; न; तस्य द्रव्यादिष्वनन्तर्भावे सप्तमस्य पदार्थस्य प्रसङ्गात् । अन्तर्भावोऽपि
न सामान्यादित्रयतया; तस्य नित्यत्वेनानुत्पत्तिरूपत्वात् । नापि गुणकर्मत्वेन; शरीरस्य द्रव्य५ त्वोपगमात् । द्रव्यत्वेनैवेति चेत् ; कुतस्तस्य तत्त्वम् ? स्वत एवेति चेत् ; न; द्रव्यत्वकल्पना
वैफल्योपनिपातात् द्रव्यत्वसम्बन्धादिति चेत्, न; सम्बन्धाधीनस्य स्वभावस्यातात्त्विकत्वात् स्फटिकोपरागवत् । संयोगायत्तमेव स्वरूपमतात्त्विकं न समवायाधीनमिति चेत् ;न; तादात्म्याभावस्योभयत्राविशेषात् । ततो वस्तुतः सप्तम एव पदार्थ इति दुस्तरो व्याघातः परस्य । तन्न
प्रागसत आत्मलाभ उत्पादः । तर्हि भवतु सत्तासम्बन्धः कारणसम्बन्धो वा स इति चेत् ; कथ१० मेवमुत्पादसम्बन्धयोरभिन्नकालत्वं तस्य भेदनिष्ठत्वात् ? सम्बन्धस्यैवोत्पादत्वे च भेदासम्भवात् ।
तन्नाभिन्नकालत्वमयुतसिद्धिः । अभिन्नस्वभावत्वमिति चेत् ; सिद्धस्तर्हि तादात्म्यपरिणाम एव समवायः, तत्रैव सति तत्स्वभावत्वोपपत्तेरिति न साध्यवैकल्यं निदर्शनस्य । ___नापि साधनवैकल्यम् ; निर्बाधतादाम्यप्रत्ययविषयत्वस्य शास्त्रकारहृदयगतस्य साधन
स्य दार्शन्तिकवत् तत्रापि भावात् । ततो युक्तमेव तत्-'सर्वभेदप्रभेदात्मकं सत्, निरवद्यता१५ दात्म्यप्रत्ययविषयत्वात् , स्वाङ्गप्रत्यङ्गात्मकशरीरवत्' इति । सद्रूपाव्यतिरेके कथं भेदप्रभेदी
भावानामिति चेत् ? न; तेथात्वेनापि प्रतिभासात् । नहि सद्रूपतयैव भावाः प्रत्यवभासन्ते सद्रपेणेव समविषमपरिणामाधिष्ठानभेदप्रभेदरूपेणापि परिस्फुटज्ञानवपुषि तेषां निरपवादतया प्रत्यवभासनात् , निरवद्यप्रतिभासोपाध्यायत्वाच्च भावतत्त्वप्रतिष्ठायाः । सदाह
तत्र भावाः समाः केचिन्नापरे चरणादिवत् । इति । ___ तत्र तस्मिन्नुक्तरूपसद्रपे सति भावा जीवादयः समाः परस्परं समानपरिणामरूपा नाभेदिनः । तथा च दुराग्नातमेतत्
"एको देवः सर्वभूतेषु गूढः सवव्यापी सर्वभूतान्तरात्मा"[श्वेता०६।११]इति । जीवानां प्रतिशरीरं सदृशपरिणामाधिष्ठानतया भेदिनामेव प्रतिभासनामाभेदिनाम् । उपा
धिभेदादेव तत्र भेदप्रतिभासो न स्वरूपभेदादिति चेत् ; न; सर्वाभेदवादिनामुपाधिभेद. २५ स्यापि वस्तुवृत्तेनाभावात् । सोऽपि परोपाधिभेदोपनीतात् तत्प्रतिभासादेव न तत्त्वत इति चेत् ;
न; अनवस्थादोषात् । नचापरापरापरिमितोपाधिभेदप्रतिभासा युगपदनुभव॑पारिजातशीतलच्छायामण्डलपिण्डीभूताः प्रत्यवलोक्यन्ते येनैवं तत्त्वस्थितिं प्रति विस्रब्धबुद्धयः सुखमध्यासीमहि । वस्तुतश्चोपाधिभेदव्यवस्थापने न प्रतिभासभेदादन्यनिबन्धनम् । अतस्तत एव युग
१ “सामान्य" -ता० टि०। २ भेदप्रभेदरूपेणापि। ३ उपाधिभेदोऽपि । ४-वपरिज्ञात-आ०,40, प०। ५ "विश्वस्तधियः, समौ विसम्मविश्वासी इत्यमरः। विस्रब्धविस्रम्भशब्दावेकधातुसमुत्पन्नौ"-ता. टि.। ६-दन्यनि- भा०, ब०, प० ।