________________
प्रथमः प्रत्यक्षप्रस्तावः
प्रबन्धवन्निमित्ताश्चेन्निमित्तं तत्प्रबध्यते । प्रबन्धवत्त्वं तस्यापि परस्मादेव तादृशात् ॥११७४।। तथा सत्यम (न) वस्थानाहोणन्निर्मुच्यसे कथम् ।
तन्नौपनिषदं सत्त्वमप्युत्पत्त्यादिकारणम् ॥ ११७५॥
सत्यम्, अकारणमेव ब्रह्म तस्य नित्यनिरूजनरूपतया शान्तात्मनः कचित्प्रवृत्तिनिवृत्त्यो- ५ रसम्भवात, अविद्योल्लासस्य तु जगत्कारणस्य तन्नान्तरीयकत्वात् तदपि तत्कारणमावेदयन्ति श्रुतयः । नहि विद्यासम्पर्कविकलस्तदुल्लास: प्रतिभासरहितस्य तस्यासम्भवात्, प्रतिभासस्य च विद्यारूपत्वादिति चेत् ; कुतस्तथाभूतस्य परिज्ञानम् ? “सदेव सोम्येदमग्र आसीत् , एकमेवाद्वितीयम्" [छान्दो० ६ । २ । १] इत्यादेराम्नायादिति चेत् ; न; तस्यापि निरंशपरमाणुरूपस्याऽप्रतिवेदनात् । स्थूलत्वे तु नानावयवसाधारणत्वमवश्यम्भावि, तस्य तदन्तरेणानुपपत्तेः। १५ तथा च तदेव स्वावयवेभ्योऽनर्थान्तरं भवत्प्रस्तुते वस्तुनि निदर्शनम्, शरीरग्रहणस्योपलक्षणत्वादिति सिद्धो नः सिद्धान्तः । तस्याप्यविद्योल्लासनिबन्धनत्वेन न स्वावयवेभ्यो भेदो नाप्य. भेदो वस्तुसद्विषयत्वात् तद्विकल्पस्येति चेत् ; कथमिदानी तद्वलात् तत्त्वतो ब्रह्मसिद्धिः अवस्तु सतस्तदनुपपत्तेरतिप्रसङ्गात् । माभूत्ततस्तत्प्रतिपत्तिः तदुपकल्पितादन्यत एव ज्ञानात् तत्परिज्ञानोपगमादिति चेत् ; न; तत्रापि तस्येत्यादेरनुगमादनवस्थापत्तेश्च । ततो दूरमनुसृत्यापि किश्चि- १० तात्त्विकमेव तज्ज्ञानमनन्तरच स्वावयवेभ्यो वक्तव्यं तथा च सिद्धं तद्वदेव सद्रूपस्यापि भेदप्रभेदरूपतत्त्व(रूपत्वम् तथैव निर्बाधादवबोधादित्युपपन्नमुक्तं 'सकलाङ्गशरीरवत्' इति ।
यस्य तु मतम्-साध्यवैकल्पं निदर्शनस्य शरीरस्यापि तदंशेभ्यो नियमेनानन्तरत्वा. भावादिति; तदपि दुर्मतम् ; जीवत्यनर्थान्तरत्वपरिज्ञाने तदनुपपत्तेः । समवायादेव तत्परिज्ञानं नानान्तरत्वादिति चेत् ; कः पुनः संयोगात् समवायस्य विशेषो यतस्तत एव तत्परिज्ञानं न २० संयोगादपि । अयुतसिद्धसम्बन्धत्वमेवेति चेत् ; न तावदियमयुतसिद्धिरपृथग्देशत्वम् ; शरीरतदङ्गयोस्तदभावेन समवायाभावापत्तेः । नहि तयोरपृथग्देशत्वम् ; शरीरस्य तदङ्गदेशत्वात् तदङ्गानाञ्च तदारम्भकदेशत्वात् । अश्वमहिषवत लौकिकस्य पृथग्देशत्वस्याभावादपृथग्देशत्वं तयोरिति चेत्, न; करतलगतयोः कुँवलामलकयोरपि तथात्वेन समवायापत्तेः । नाप्यभिन्नकालत्वम् ; अत एव । न च शरीराभिन्नकालत्वं तदङ्गानाम् ; प्रागपि भावात् , अन्यथा तदारम्भ- २५ कस्वानुपपत्तेः । शरीरस्यैव सम्बन्धापेक्षमभिन्नकालत्वम्, नहि शरीरमन्यदाऽन्यदा च सम्बन्धः । सम्बध्यमानस्यैव तस्योत्पत्तेरिति चेत् ; कुत एतत् ? तत्सम्बन्धस्य तदेकसामग्यधीनत्वादिति चेत् ; न; तस्य नित्यस्योपगमात् । सदुत्पत्तिसमये तस्य भावादिति चेत् ; तत एव कुवलमप्यामलकेन तादृशमेवोत्पधेत । आमलकस्याकारणत्वान्नेति चेत् ; न तेनापि तत्सम्बन्धविभुत्वा.
आम्नायस्यापि । २ भेदाभेदविकल्पस्य । ३ आम्नायबलात् । ४ आम्नायतो ब्रह्मप्रतिपत्तिः । ५ तैरेवनिमा०,०,०।६बदरामलकयोरपि । ७ एतत्सम्बन्ध-आ०, ब०, प० ।