________________
म्यायविनिश्चयविवरणे
। १।१५६
मिति तस्याशरीरत्वादेकावयवमात्रभव तदपि प्रतीतिविरुद्धं प्राप्नुयात् । स्वत एव पाण्यादेः शरीरत्वं नैकशरीरानुगमनादिति चे ; द्रव्यादेः सत्त्वमपि तथैव किन्न स्यात् ? सत्त्वबहुत्वापत्तेरिति चेत् ; शरीरबहुत्वापत्तेरितरदपि न भवेत् ।
ननु शरीरं नाम कणादस्य परम्परया परमाणुकार्यम् , परमाणुभ्यां हि संयोगसहा. ५ याभ्यां व्यणुकम् , ब्यणुकाभ्याञ्च चतुरणुकमुत्पद्यते, यावदन्त्यावयवि शरीरमिति तन्मत. प्रसिद्धः। परमाणवश्च नित्याः ते च यदि प्रवृत्तिस्वभावाः; सर्वदा तत्कार्याणामुत्पत्तिरेव नोपरमः । निवृत्तिस्वभावत्वे नोत्पत्तिः । उभयस्वभावत्वं तु विरोधादसम्भाव्यम् । अनुभय. स्वभावत्वे तु निमित्तवशात् प्रवृत्तिनिवृत्त्योरभ्युपगम्यमानयोरदृष्टादेनिमित्तस्य नित्यसन्निधानात्
नित्यप्रवृत्तिप्रसङ्गः । अतत्रत्वेऽप्यदृष्टादेः ; नित्याप्रवृत्तिप्रसङ्गात् । तस्मादनुपपन्नः परमाणूनां १० कारणभाव इति कथं तद्व्यणुकादिरन्त्यावयविपर्यन्तः कार्यप्रबन्धो यस्य स्वावयवभेदाभेद
परिचिन्तया परिक्लिश्नीम इति चेत् ; न ; सद्रूपस्याप्यौपनिषदस्यैवमसम्भवात् । तदपि यदि प्रवृत्तिस्वभावम् ; सृष्टिरेव सर्वदा जगत इति कथं प्रलयो महाप्रलयो वा ? निवृत्तिस्वभावं चेत; सर्गाभावात् कथं जगत्प्रपञ्चप्रतिभास: ? तदुभयस्वभावत्वं पुनस्तत्रापि निष्कलैकस्वभावे
विरोधादेवासम्भाव्यम् । अनुभयस्वभावञ्चेत् ततोऽपि कथं जगदुत्पत्तिस्थितिविपत्तयो यत १५ इति ? निमित्तवशादेव तस्य प्रवृत्तिनिवृत्तिर्वा न स्वत इति चेत ; तदपि निमित्तं यदि
नित्यमव्यतिरिक्तञ्च ततः ; किमभ्यधिकमभिहितम् ? व्यतिरिक्तञ्चेत् ; कथमद्वैतम् तत्त्वम्? अपि च प्रवृत्तिनिवृत्योरन्यतरैव तस्यापि स्वभावो नोभयम , विरोधाविशेषादिति सम एव दोष:-प्रवृत्तिस्वभावत्वे सर्ग एव जगतः, निवृत्तिस्वभावत्वे च न प्रपञ्चप्रतिभास इति ।
तस्याप्यनुभयस्वभावस्य निमित्तवशात् प्रवृत्तिनिवृत्तिपरिकल्पनायाम : अयमेव प्रसङ्गोऽनवस्था२० पत्तिश्च । तन्न तन्नित्यमनित्यमपि ।
ब्रह्मणश्चेन्न तत्कार्यं जगद्ब्रह्मकृतं कथम् ? कार्य चेत् नित्यकार्यस्य कदाचिद्भवनं कथम् ? ॥ ११७० ॥ सर्गप्रलययोर्येन कादाचित्कत्वमुच्यताम् । ... कादाचित्कनिमित्ताञ्चेत् तत्कादाचित्ककल्पनम् ॥ ११७१ ।। तत्राप्येवं प्रसङ्गे किन्नानवस्थितिरापतेत् । अनादेस्तत्प्रबन्धस्य न चेदोषोऽनवस्थितिः ॥११७२॥ क्रमे सति प्रबन्धः स्यादक्रमाच क्रमः कथम् ? । अक्रमं च मतं ब्रह्म कूटस्थं यत्तदिष्यते ॥११७३॥
१ शरीरमपि। २ परिक्षेम आ०, ब०,५०।३ -यो नियतः आ०, ब०, ५०। ४ प्रवृत्तेर्निवआ०, ब०,१०।