________________
प्रथमः प्रत्यक्षप्रस्तावः
र्थान्तरत्वेऽनान्तरत्वे च पूर्ववत्प्रसङ्गात् । तस्यापि ताभ्यामनिर्वचनीयत्वकल्पनायाम् अनवस्थानोपनिपातात् ।
स्यान्मतम् -अयमेव ह्यविद्यामुग्धवधूविलासप्रपञ्चस्य स्वभावो यदुक्तविचारपरशुपरिपातासहिष्णुत्वम् । तत्सहिष्णुत्वे तत्प्रपञ्चत्वपरित्यागापत्तेः ।
‘जंह्यादविद्याऽविद्यात्वं विचारं सहते यदि ।
न्यायघातासहिष्णुत्वमविद्यालक्षणं यतः ॥' [ ]
इति वेचनादिति चेत् ; न; तत्स्वभावस्यापि सत्त्वासत्त्वयोस्ताभ्यामनिर्वचनीयत्वे च भेदाभेदयोस्ताभ्यामनिवर्चनीयत्वे च पूर्ववत्प्रसङ्गात् तस्यापि तत्प्रतिघातासहिष्णुत्वव्यावर्णनायामनवस्थितेरप्रतिक्षेपात् । ततो दूरं गत्वापि तात्त्विकं तदर्थान्तरञ्च तद्रूपमभ्युपगन्तव्यमिति कथं न भेदो वास्तवो यतस्तदात्मकमेव सत्त्वं न भवेत् ? तदाह
___ सर्वभेदप्रभेदं सत् सकलाङ्गशरीरवत् ॥१५६॥ इति ।
भेदाश्च जीवपुद्गलादयः प्रभेदाश्च तेषानवान्तरविशेषाः, जीवस्य संसारिणो मुक्ताः सस्थावराः सकलेन्द्रिया विकलेन्द्रियाः सज्ञिनोऽसज्ञिन इति, पुद्गलस्य ऍथिव्य आपस्ते. जांसि वायव इति भेदप्रभेदाः, सर्वे निरवशेषा भेदप्रभेदा यस्मिंस्तत् सर्वभेदप्रभेदं सत् सत्वं भावप्रधानत्वानिर्देशस्य । सकलेत्यादि तत्रैव निदर्शनम् । सकलान्यङ्गानि करच१५ रणादीनि यस्य तच्च तच्छरीरं च तदिव तद्वदिति । तात्पर्यमत्र-यथा न पाणिपादादेरर्थान्तरं शरीरं तद्भाव एवोपलभ्यमानत्वात् । न हि तदर्थान्तरत्वे तस्य तद्भाव एवोपलब्धिः , गोरभावेप्यश्वस्योपलम्भात् । न चैवम् अतोऽनन्तरमेव ततस्तत् । उक्तश्चैतत्-''भावे चोपलब्धेः" [ब्रह्मसू० २।१।१५] इति । अतश्च तस्य ततोऽनर्थान्तरत्वं यत्प्रत्यक्षतस्तथैवोपलभ्यते । न हि गवाश्ववत् पाण्यादिशरीरयोर्भेदेनोपलब्धिः; परस्पराविष्वग्भावेनैवोपलब्धेः । न चोपलब्धे. २० लक्षणान्तरम् ; अतिप्रसङ्गात् । इदमप्युक्तम्-"भावाच्चोपलब्धेः' [ ब्रह्मसू० २।१।१५ ] लक्षणान्तरे इति । तथा तत एव सद्रूपमपि भेदादनान्तरमभ्युपगन्तव्यम् । न हि तस्यापि भेदाभावेऽपि भेदादन्यत्वेनाप्युपलब्धिः; सत्येव द्रव्यादौ भेदे तत्प्रभेदे च तदनन्तरत्वेन च सर्वत्र सर्वदापि प्रतिपत्तेः । तदनन्तरत्वे तस्य भेदस्येव भेदान्तरं प्रति तस्याप्यनुगमनं न भवेत् , तथा च"तदन्तरस्य सर्वस्याप्यसत्त्वादेकभेदमात्रमेव सद्रूपं प्राप्तम् । तच्च प्रतीतिविरुद्धमिति २५ चेत्, न; शरीरेऽप्येवं प्रसङ्गात् । न हि तस्यापि पाण्यादेव्यतिरेके 'तद्वदेव तदन्तरं प्रत्यनुगमन
१ यदुतवि-आ०, ब०, प० । २ स्यादविद्या-आ०,ब०, प० । ३ न्यायाघातस-ता०। ४ “अविद्याया अविद्यात्व इदमेवतु लक्षणम् । मानाघातासहिष्णुत्वमसाधारणमिप्यते ॥"-बृ० सं० वा० श्लो० १८१ । ५ सदसत्वयो-आ०, ब०, प० । ६ त्रसा स्था-आ०,ब०प० । ७ पृथिव्यापस्ते-आ.५०, ५०! ८ स्वरूपान्तरम् । ९ 'लक्षणान्तर' इति पदं सम्पातादायातमिति भाति । १० "भावाच्चोपलब्धेरित वा सूत्रम्"-ब्रह्म शा० भा० । ११ भेदान्तरस्य । १२ पाण्यादिवदेव । १३ अवयवान्तरम् ।