________________
५१० न्यायविनिश्चयविवरणे
[१२१५६ प्रादुर्भावस्यावलोकतात् । अथ तत्रापि देशादेर्धर्मविशेषाणामुत्पत्तौ तदधिष्ठाना: सामान्यविशेषा एव तत्प्रत्ययहेतवो न देशादय इति चेत् ; न ; तेभ्य एव तदर्शनात् । अन्यतस्तत्परिकल्पनायां सर्वत्र हेतुफलभावनियमनिर्लोपापत्तेः। अतो. देशादय एव तद्धतव इति भवत्येव तेषां सामान्य
रूपत्वम् । तदेवाह-देशकालाश्च । च शब्दादवस्थादयश्च सामान्यं भवेयुरिति वाक्यशेषः। ५ तथा च यदुक्तम्-"सामान्यादयो न सत्तासम्बन्धवन्तः, अवान्तरसामान्यविकलत्वात् ,
ये तु तत्सम्बन्धवन्तो न ते तद्विकलाः यथा द्रव्यादयः तद्विकलाश्च सामान्यादयः, तस्मान्न तत्सम्बन्धवन्तः"[ ] इति ; तत्प्रतिव्यूढम् ; देशादिवदन्येषामपि द्रव्यगुणकर्मणां क्वचित् कथञ्चित् कदाचित् सामानप्रत्ययहेतुत्वेन सामान्यरूपतोपपत्तौ न सत्तासम्बन्धी नावान्तरसामान्यमित्युभयाव्यावृत्या वैधोदाहरणत्वानुपपन्तः। समानप्रत्ययहेतुरेव सामान्य देशादयस्तु नैवम् , विशेषप्रत्ययम्यापि तत एव भावादिति चेत् ; न तर्हि सत्त्वद्रव्यत्वादयोऽपि सामान्यं समानप्रत्ययवन् 'प्रागभावादिरूपादिव्यावृत्तिप्रत्ययस्यापि तत एव भावादिति न किञ्चिदेतत् । स्याद्वादिनां तु नायं दोषः सर्वस्यापि विशेषात्मकत्ववत् सामान्यात्मकत्वस्यापि प्रतीतिबलेन तैरभ्युपगमात । तदाह- सकलं चेतनेतररूपं वस्तु मतम् अङ्गीकृतं सामान्य. मिति सम्बन्धः।
सकलमपि यदि सामान्यं तर्हि सन्मात्रमेव जगत् प्राप्तम् , तस्माद्वयतिरेके 'सामान्यरूपत्वानुपपत्तेः, अभिमतञ्चैतद् ब्रह्मविदाम्-सकलभेदकलापमलविकलस्य तन्मात्रस्यैव ब्रह्मरूपतया तैरभ्युपगमादिति चेत् ; कुतस्तदभ्युपगम: ? स्वेच्छानिबद्धादभ्युपगमात् तत्सिद्धावतिप्रसङ्गाद । प्रतिभासबलोपनिवद्धादिति चेत् ; न ; निभदस्याप्रतिभासनात् । न हि निर्भेदस्य सतः प्रतिभासनम् जीवपुद्गलादिभेदतत्प्रभेदपरिकलितशरीरतया भेदरूपस्यैव तस्य प्रत्यवभासनात् । कथमन्यथा संसारतत्कारणादिः , तस्य भेदरूपत्वेन तदभावेऽनुपपत्तेः ? मा भूदिति चेत् ; न ; "मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति" [ कठ० ४।१० ] इत्यादेवचनस्य निर्विषयत्वापत्तेः । भवतु भेदप्रतिभासः स तु अविद्यारूपवारवनितास्वैरविलासपरिकल्पितत्वेनातत्त्वविषय एवेति चेत् ; कथं तस्यार्थान्तरत्वे ब्रह्मणः तात्त्विक एव भेदो न भवेत् ? तस्यासत्त्वादिति चेत् ; न ; 'असंश्च प्रतिभासश्च' इति व्याघातात् । भावाभावाभ्यामनिर्वचनीयत्वादिति चेत् ; न ; तपस्याप्यसत्त्वे भेदप्रतिभासत्वा. 'नुपपत्तेः। सत्त्वे भेदतात्विकत्वस्य तदवस्थत्वात् । तस्यापि ताभ्यामनिर्वचनीयत्वकल्पनायां प्राच्यप्रसङ्गानिवृत्तेरनवस्थापत्तेश्च । ततस्तस्यानन्तरत्वे तु ब्रह्मापि तद्वत् तद्विलासपरिकल्पितं भवेत् । न चैवम् , तस्य निरवद्यविद्यारूपतया परैः प्रतिज्ञानात् । नायं दोषः तस्य ततो भेदाभेदाभ्यामनिर्वाच्यत्वादिति चेत् ; न ; तद्रूपस्यासत्त्वे प्रतिभासत्वासम्भवात् । सत्त्वेऽप्य.
१ साध्यहेतूभय । २ प्राग्भावा-आ०, ब०, प० । प्रागभावादिव्यावृत्तिप्रत्ययः सत्त्वात् , रूपादिव्यबृत्तिप्रत्ययः द्रव्यत्वात् । ३-पविक-आ०, ब०,१०। ४ सन्मात्रस्यैव । ५-तात्त्विकस्व आ०, ब०,१०। ६-प्रसङ्गानतिवृआ०, ब०, प० । ७ परिज्ञा- आ०, ब०, प० । “विज्ञानमानन्दं ब्रह्म"-वृहदा०३।९।३४ ।