________________
१२१५६ ) प्रथमःप्रत्यक्षप्रस्ताव:
५०९ सत्तदिष्वप्यपरसत्तासम्बन्धकल्पनायामनवस्थितिरिति प्रकारेण तेषु तत्प्रतीत्यभावप्रकारेण वा, सन्ति विद्यन्ते सत्तादयः आदिशब्दाद् द्रव्यत्वादयश्च । तथा तेन प्रकारेण अर्थाः द्रव्यादयः "द्रव्यगुणकर्मस्वर्थः" [वैशे० ८।२।३] इति वचनान् , सर्वे निरवशेषाः सन्तीति सम्बन्धः । न हि तत्राप्यर्थान्तरस्य सत्त्वस्थ प्रतिपत्तिः, रूपभेदानवलोक नात् । सम्बन्धात् तदनवलोकनमिति चेत् ; न ; सर्वथाप्यनवलोकनप्रसङ्गात् । 'तद्भेदाद्रूपान्तरस्याप्यं. ५ नर्थान्तरत्वात् । तथापि तस्यावलोकने नानेकान्तप्रतिक्षेपः अवलोकितानवलोकितरूपत्वेन तस्यावश्यम्भावात् , तथा च सामान्यविशेषात्मकत्वेनैव किन्न स्यात् , यतः प्रतीतिमतिलक्ष्य सत्त्वमर्थान्तरं परिकल्प्येत ? कथं वानवस्थाननिर्मुक्तिः ? सत्तादिपु सत्त्वान्तरस्याभावादिति चेत् ; न ; जीवति सत्प्रत्यये तदभावस्यासम्भवात् । औपचारिक एव स तत्र माणवके सिंहप्रत्ययवदिति चेत ; न ; बाधकाभावे तत्वानुपपत्तेः । तत्र तदन्तरानवलोकनमेव १० बाधकमिति चेत, यद्येवं प्रतिपद्यसे द्रव्यादिष्वपि तन्माभून , अनवलोकनम्याविशेषात् । अनवलोकितमपि सत्प्रत्ययादवगम्यत इति चेत् ; न तर्हि तत्प्रत्ययस्यानवलोकनं वाधकमिति कथं सत्त्वादिष्वपि ततस्तदन्तरं नावगम्येत यतोऽनवस्थानं न प्राप्नुयात् ? तस्मात् स्वत एव द्रव्यादयः सन्ति, पृथिव्यादीनि द्रव्याणि रूपादयो गुणाः उत्क्षेपणादीनि कर्माणोति वक्तव्यम् , प्रतीतिव्यापारस्यैवमेवानुभवात् ।
___ नन्वेवं सत्त्वादीनां "पथगभावे कथं "दृष्टान्तत्वम् ? परप्रसिद्ध्येति चेन् ; न; तस्याः प्रमाणत्वे तथा तदभावानुपपत्तः । अभ्युपगममात्रत्वे तु तद्विषयनिदर्शनबलादवस्थाप्यमानं तद्व्याद्यर्थसत्त्वमपि तादृशमेव भवेदिति चेत् ; सत्यम् ; न हि वयं दृष्टान्तबलात् तत्र तत्सत्वमवकल्पयामो निरपवादात् तत्प्रतीतिबलादेव तदवकल्पनात् । सत्त्वादिनिदर्शनोपदर्शनं तु परस्य तद्बलातिलचनमवस्थापयितुम्-'यदि द्रव्यादिषु तद्वलमतिलवयसि किन्न सत्त्वादिष्वपि २० लायन्ननवस्थादोषमन्वाकर्षसि ?' इति । भवति चैवमवस्थापनम"-"स्ववाह्य (वाग्य)त्रिता वादिनो न विचलिष्यन्ति" [ ] इति न्यायात् । कुतो वा सत्त्वादीनां सामान्यरूपत्वं यतस्तत्र सामान्यान्तराभावः ? समानप्रत्ययहेतुत्वादिति चेत् ; न ; देशकालावस्थासंस्कारादेरपि तद्रूपत्वापत्तेः । अस्ति हि तस्यापि तत्प्रत्ययहेतुत्वम्-'दक्षिणात्योऽयम् अयमपि दाक्षिणात्यः' इति देशात् , 'प्रावृषिजोऽयम् अयमपि प्रावृषिजः' इति कालात् , 'बालोऽयम् २५ अयमपि बालः' इत्यवस्थातः, 'पण्डितोऽयम् अयमपि पण्डितः' इति संस्काराच्च तत्प्रत्यय
१ अनवलोकितस्वरूपविशेषात् । २ ज्ञातुं योग्यस्य स्वरूपान्तरस्य । ३ अनवलोकितखरूपादभेदेऽपि । ४ रूपान्तरस्य । ५ -कत्वेनेव आ०, ब०, प० । ६ सत्तादिषु । ७ औपचारिकत्वानुपपत्तेः । ८ सामान्यादिषु । ९ सत्तान्तर । १० सामान्यम् । ११ पृथग्भावे आ०,व०प० । १२ “सत्तायोगाद्विना सन्ति यथा सत्तादयः" इतिता०टि०। १३-वादाप्रति-आ०, ब०, ५०।१४ - पनं स्वबाधानियन्त्रिता ता० । 'अस्मिन् पाठे खमतबाधाभयानियन्त्रिता बादिनः' इत्यर्थो शेयः । १५ "स्ववाग्यन्त्रिता वादिनो न विचलिष्यन्तीति"-प्रमेयक पृ०६६२ । १६पिप्रत्य- आ०, ब., ५०।