________________
५०८
न्यायविनिश्चयविवरणे
[ १११५६
तत्कृतो यद्यन्यत्र तेद्भावो नितरामात्मनि इति न्यायात् । यदि पुनः सत्यपि समवाये न सामान्यादौ तद्भाव द्रव्यादावपि न भवेदविशेषात् । विशेषकल्पनायां तु नैकः समवायः स्यात् दविशेषेऽपि द्रव्यादीनां विशेषो यतस्तत्रैव सत्त्वं न सामान्यादाविति चेत्; तर्हि द्रव्यत्वादिसामान्यविशेषाणामन्त्यविशेषाणाञ्च तत एव तत्रैव भावोपपत्तेः कैमर्थक्यात् समवाय कल्प५ नम् ? यदि पुनः समवायात् द्रव्यादिवत् द्रव्यत्वादावपि सत्त्वं पृथ्वीत्वाद्यवान्तरसामान्यमपि किन्न भवतीति चेत् ? अयमपि भवत एव पर्य्यनुयोगो यः समवायकृतं द्रव्यादौ सत्त्वमन्वाह, नास्माकं विपर्ययात् । ततो युक्तं द्रव्यादिवद् द्रव्यत्वादौ सामान्ये विशेषसमवाययोश्च सवोपपत्तेः सचराचरं त्रैलोक्यं ततो व्यक्तं भवेदिति ।
यत्पुनरिदं सूत्रम्-“सदिति यतो द्रव्यगुणकर्मसु स भावः ॥ [वैशे० १।२।७३] १० इति, तत्रैव भाष्यच “ परस्परविशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टं सदिति यतोऽभिधानं प्रत्ययश्च भवति स भाव इति । उपलक्षणार्थश्चैतत् सूत्रम्, तथा द्रव्यमिति यतः पृथिव्यादिषु तद् द्रव्यत्वं गुण इति यतो रूपादिषु तद्गुणत्वं कर्मेति मत उत्क्षेपणादिषु तत्कर्मत्वम्" [ ] इति । तत्र यदि सवादयो न सन्ति कथं तेभ्यः क्वचिद् व्योमकुसुमेभ्य
इव सदाद्यभिधानस्य प्रत्ययस्य च प्रवृत्तिः ? सन्त्येवोपचारतस्त इति चेत्; न; तत्कुसुमेष्वपि १५ तदनिवारणात् । किं वा सद्भिस्तेषां साधर्म्यं यतस्तत्र सस्वमुपचर्येत ? सद्विशेषणत्वमेव, तथा च भाष्यम् - "यथा च सन्ति द्रव्यगुणकर्माणि सतामपि द्रव्यगुणकर्मणां विशेषणं तथा सामान्यविशेषसमवाया इति सन्त इव सन्त इत्युच्यन्ते ।" [ ] इति चेत्; न; परस्पराश्रयापत्तेः - सति द्रव्यादीनां सत्त्वे तद्विशेषणत्वेन सत्त्वादेः सस्वम्, सता च तेन सम्बन्धाद् द्रव्यादीनां सत्वम् पृथिव्यादीनाच्च द्रव्यादित्वमिति । तन्नोपचारतस्तेषां सत्वम् ।
२०
नापि सत्तासम्बन्धात्; सत्तासम्बन्धे हि सामान्यादीनामपरजातित्वप्रसङ्ग इति स्वयमेव तन्निराकरणात् । भवन्तु तर्हि स्वत एव ते सन्तं इति चेत्; कथं तहींदं भाष्यम् - " सामान्यविशेषसमवायानां तु सदित्यभिधानप्रत्ययावौपचारिकौ” [ ] इति ? वस्तुभूतस्वरूपसत्तानिबन्धनयोस्तयोरौपचारिकत्वानुपपत्तेः । स्वतश्च तेषां सत्त्वे तद्वद् द्रव्यादीनामपि स्यादविशेषात् । एतदेवाह
२९ •
सत्तायोगाद्विना सन्ति यथा सत्तादयस्तथा ॥ १५५ ॥ देशकालश्च सामान्यं सकलं मतम् । इति ।
सर्वे
सत्तया महासामान्येन योगः सम्बन्धः तस्माद् विनां तमन्वरेण यथा येन
१ समवेतत्वम् । २ सस्वभावः । ३ समवायाविशेषेपि । ४ समान्येनवि-आ०, ब०, प० । ५ - कर्मसु इति आ०, ब०, प०। ६ “परस्पर विशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टा सत्सदिति प्रत्ययानुवृत्तिः सा चार्थान्तराद्भवितुमर्हतीति यत्तदर्थान्तरं सा सत्तेति सिद्धा । " - प्रश० भा० पृ० १६५ । ७ “ अभिधानं प्रत्ययश्च भवतीति सम्बन्धनीयम्, एवं गुणत्वकर्मत्वयोरपि । ” - ता० दि० । ८-न प्रत्ययप्रत्र - आ०, ब०, प० । ९ सामान्यादीनाम् ।