________________
प्रथमः प्रत्यक्षप्रस्ताव:
५०७ नित्यसर्वगतत्वमेव न गृह्यते । न सत्त्वमपि तस्य तस्मादर्थान्तरत्वादिति चेत् ; कथमेवं तत्र तद्रूपव्यपदेश:- 'नित्यं सर्वगतच सत्त्वम्' इति ? सम्बन्धादिति चेत् ; न ; तेनापि ताद्रूप्यस्यानवकल्पनात् । अवकल्पने तु स एव प्रसङ्गः-तदनवलोकन तद्रूपं न शक्यपरिज्ञानमिति । न ताप्यस्य 'तेनावकल्पनम् , तद्रूपज्ञानस्यैवावकल्पनादिति चेत् ; न ; अतद्रूपे तद्रूपज्ञानस्य मिथ्यात्वात् , वस्तुतस्तदनित्यमसर्वगतञ्च प्राप्तम् । तथा च कथमेतत् 'एको भावः' इति , प्रतिदेशकालभेदं भिद्यमाने तस्मिन्नेकत्वानुपपत्ते: ? ततो वास्तवमेव तस्य नित्यसर्वग. तत्वमिति कथं सर्वदेशकालविशेषापरिज्ञाने तस्य परिज्ञानं यतः कचित् कदाचिदपि सत्प्रत्ययं कुर्वीत ?
एतेनावयविज्ञानमपि प्रत्युक्तम् ; अवयविनोऽपि स्वारम्भकसकलावयवपरिज्ञानाभावे तद्वयापिरूपस्य दुष्परिज्ञानत्वात् । तदपरिज्ञाने तद्व्यापित्वमेव तस्य न ज्ञायते न स्वरूपमिति २० चेत् ; न ; तस्य तस्मादनान्तरत्वात् । अर्थान्तरत्वे कथं तत्र तद्व्यपदेश:- स्वारम्भकावयव. व्याप्यवयवीति ? सम्बन्धादिति चेत् ; न ; तेनापि ताद्रूप्यस्यानवकल्पनात् , अवकल्पने तु पूर्ववदोषात् । अतद्रूपे तद्रूपज्ञानस्य तेनायकल्पने वस्तुतस्तदव्याप्येवावयवीति कथमूर्ध्वाधःपार्श्वभागादिष्वेक एव स्तम्भो भवेत् ? यतः सौगतं तदभाववादिनमतिशयीत वैशेषिकः । तन्न स्वारम्भकनिरवशेषावयवापरिज्ञाने तत्परिज्ञानमुपपन्नम् । तथा च यदुक्तमात्रेयेण- १५ "यदुपलब्धिकारणोपपन्नं वस्तु तद्विशेषणत्वेनोपलभ्यते भावो न सर्वाधारविशेषणत्वेन । एतेनावयविद्रव्यमपि व्याख्यातम् , येपामवयवानामुपलब्धिकारणमस्ति तैः सहोपलभ्यतेऽवयवी येषां नास्ति न तैः सह" [ ] इति ; तदतीव परीक्षापथपरिभ्रष्टतामेव तस्याचष्टे ; निरवशेषाधारावयवव्यापिस्वभावयोर्भावावयविनोः कतिपयाधारावयव. गोचरतया परिज्ञानस्यासम्भवात् । सम्भवतोऽपि अतस्मिंस्तद्रूपतया मिथ्यात्वापत्तेः। ततः २० कतिपयाभिरपि व्यक्तिभिरभिव्यज्यमानं सत्त्वं सर्वस्वाधारगतेनैव रूपेणाभिव्यज्यत इति सूक्तम्'संवा व्यक्तं त्रैलोक्यम्' इति ।
___ नन्वेवमपि द्रव्यगुणकर्मणामेव ततोऽभिव्यक्तिः तत्रैव तस्य भावात्-"सदिति यतो द्रव्यगुणकर्मसु स भावः" [ वैशे० १।२।७ ] इत्यभिधानात् , न सामान्यसमवायविशेषाणां विपर्ययात् । न च द्रव्यादित्रयमेव त्रैलोक्यम् , तस्य पदार्थसन्निवेशरूपत्वादिति चेत् ; २५ आह-'सचराचरम्' इति । चरत्यभिव्यङ्ग्यत्वेन परस्य बुद्धि गच्छतीति चरं द्रव्यादित्रयम् , अचरं तद्विपरीतं सामान्यादित्रयम् , ताभ्यां सह वर्तत इति सचराचरं त्रैलोक्यमिति ।
नेनूक्तम्-'सामान्यादौ सत्त्वाभावान्न ततस्तदभिव्यक्तिः' इति, चेत्; द्रव्यादौ कुतस्तद्भावः ? समवायादिति चेत ; न ; तस्य सामान्यादावपि भावात् , अन्यथा 'द्रव्यादिममवेतं सामान्यम्, नित्यद्रव्यसमवेता विशेषाः' इति च प्रत्ययाभावापत्तेः । समवाये तु नितरामुपपन्नः, ३०
सम्बन्धेन । २ अवयव्यचभाववादिनम् । ३ तदाव्य-आ०, ब०, प० । ४. सा सत्ता"-वैशे० । ५ न सूक्तं आ०, ब०,५०।६ -व्यक्तिरिति चेत् आ०, ब०, ५०। ७ समवायः ।