________________
५०६
न्यायविनिश्चयविवरणे
[१११५५
चेत् ; तदपि यदि 'नाभावविलक्षणम् , कथं तत एवाभिव्यक्तिः सत्त्वस्य नाभावादपि ? तत्रैव तस्य विद्यमानत्वादितरत्र विपर्ययादिति चेत् ; न ; तत्रेति सप्तम्यर्थस्य कारकविशेषत्वात् , न चाभावाभेदिनः कारकत्वम् ; अशक्तेः । शक्तेरेव कारकत्वेन न्यायविदा प्रसिद्धत्वात् । शक्तिभावे तु भवत्येवाभावविलक्षणं तत् , तथा च तत एव भावप्रत्ययोपपत्तेरलमर्थान्तरेण ५ भावेन प्रयोजनाभावात् । शक्तेः शक्तिमदनन्तरत्वात् , तेषां च परस्परतो व्यावृत्तेः कथं सत्सदित्यनुवृत्तप्रत्ययहेतुत्वम् , अनुवृत्तरूपस्यैवानुवृत्तबुद्धिनिबन्धनत्वोपपत्तेरिति चेत् ? कथमिदानी तेषामेवेदमभिव्यञ्जकमिदमभियंञ्जक तत्वस्येत्यनुगतप्रतिपत्तिनिमित्तत्वम् ? न हि तेषामनुगमः परस्परतः ; भावसाकर्यापत्तेः। अननुगमेऽपि शक्तिसादृश्यात् तेभ्य एव तत्प्रत्यय इति चेत् ;
कथमेवं भावप्रत्यय एव तेभ्यो न भवेत् । तथा च प्रतिद्रव्यं भिद्यते भावः एकद्रव्येन्द्रियसन्नि. १. कांदुपलभ्यमानत्वात् , रूपादिवदिति ।
___अत्र यदुक्तमात्रेयेण-"प्रतिद्रव्यं भिद्यते भावः' इति ब्रुवाणो भवान् भावं धर्मिणं प्रतिपद्यते वा, न वा ? यदि न प्रतिपद्यते ; हेतुराश्रयासिद्धो भवति । अथ प्रतिपद्यते; येनैव प्रमाणेने सत्सदित्यनुवृत्तप्रत्ययेन भावं धर्मिणं प्रतिपद्यते तदेव प्रमाणं तस्याश्रर्य
भेदऽप्यभेदकलमनुशास्ति' [ ] इति ; तत्प्रतिविहितम् ; अनुवृत्ताभि१५ व्यञ्जकप्रत्ययेनेव अनुवृत्तभावप्रत्ययेनाप्येकस्य भावस्याप्रतिवेदनात् । तन्नैवं तस्य कुतश्चिद
भिव्यक्तिः सम्भवति स्वयमेवाभावात् । भवतोऽपि यद्यभिव्यक्तिरनन्तरम् ; तर्हि तद्वदेव तस्यासिद्धत्वात् , सतोऽपि विशेषलिङ्गात् न तस्य भेदः तदभेदप्रतिवेदिना सल्लिङ्गाविशेषेण सत्सदित्यनुवृत्तप्रत्ययरूपेण बाध्यमानत्वादिति चेत् ; ततोऽपि न तस्यैकत्वं तद्भेदनिवेदन(ना).
विधुरेण विशेषलिङ्गेन बाध्यमानत्वात् । नैष दोषः ततोऽपि सर्वथा तद्भेदस्याप्रतिवेदनादिति २० चेत् ; किमिदानीमेकानेकरूपो भावः ? तथा चेत् ; न ; सांशत्वापत्तेः । न चायमभ्युपगमो भवतां तदाह - निरंशमिति । ततो नानान्तरं ततोऽभिव्यक्तिः ।
भवत्वर्थान्तरमेव, तस्यास्तत्प्रतिपत्तिरूपत्वादिति चेत् ; तत्सहायमपि सत्त्वं किन्न सर्व सर्वदाऽभिव्यनक्ति ? सर्वस्य सर्वदाप्यग्रहणात् , गृहीतमेव हि द्रव्यादिकं तेन स्वविशिष्टतयाs.
भिव्यज्यते दण्डेनेव देवदत्तः, न चार्वाग्दर्शिनां सर्वदा सर्वग्रहणे कश्चिदुपाय इति चेत् ; न ; २५ सत्त्वस्याप्यग्रहणप्रसङ्गात् । न हि निरवशेषदेशकालकलाकलापावलोकनविकलस्य नित्यसर्वगतं
सत्त्वं शक्यपरिज्ञानम् । न चापरिज्ञातेन तेन तद्विशिष्टतया द्रव्यादिप्रतिपत्तिः "नागृहीतविशेषणा विशेष्यबुद्धिः" [ ] इति "न्यायादतिप्रसङ्गात् । तदनवलोकने तदपेक्षं
नाभावलक्षण-आ०, ब०, प० । २ "न हि द्रव्यं कारकम् , किं तर्हि शक्तिः"-काशि०२।३।७। ३ "सत्त्वेन"-ता. टि.। ४-व्यञ्जकं सर्वस्ये-आ०, ब०, प० । ५-णेनैव :स-आ०, २०, ५०। ६-श्रयभेदस्य भेद-आ०, ब०, प० । ७ सल्लिङ्गाविश्लेषेण आ०, २०, ५०। ८ न वायमभ्यु-आ०, ब०, ५०। ९"विशिष्ट बुद्धिरिष्टेह न चाशातविशेषणा ॥८॥"-मी० श्लो. अपोह० । लौकिक० तृ.। १० न्यायादिति प्र-आ०, ब०, ५०।