________________
१।१५५ ]
५०५
निराकरणार्थत्वेन सार्थकत्वात् । स्वमतानुरागपरवशचेतसो मत्सरित्वादनेकात्मके वस्तुनि नास्तुङ्कारमनुमन्यत इति चेत्; न; प्रमाणालोकप्रकाशिते वस्तुनि सत्पुरुषाणां पुरुषार्थभङ्गभीरुतया मत्सरानुपपत्तेः । एतदेवाह
सत्या लोकप्रतीतंऽर्थे सन्तः सन्तु विमत्सराः । इति । सुबोधमेतत् ।
साम्प्रतं सदृशपरिणामं सामान्यमनभ्युपगच्छतो वैशेषिकादेः तद्व्यवहार एव न सम्भवति, तत्परिकल्पितस्य सामान्यस्यानुपपत्तेरिति दर्शयितुं प्रथमं तावत् परसामान्यं सत्त्वमेव प्रत्याचष्टे । समानन्यायतया तत्प्रत्याख्यानादेव द्रव्यत्वादेरपरसामान्यस्यापि प्रत्याख्यानोपनीतात् ( पनिपातात् ) -
नित्यं सर्वगतं सत्त्वं निरंशं व्यक्तिभिर्यदि ॥ १५४ ॥ व्यक्तं व्यक्तं सदा व्यक्तं त्रैलोक्यं सचराचरम् । इति ।
प्रथमः प्रत्यक्ष प्रस्तावः
१०
अत्र द्वितीयव्यक्तशब्दो व्यञ्जकपर्य्यायः व्यक्तं करोति व्यक्तयतीति वचनाद्यचि ( पचाद्यचि) व्यक्तमिति व्युत्पत्तेः । तदयमर्थः - सत्त्वं सामान्यं व्यक्तिभिः द्रव्यादीना - मन्यतमैर्विशेषैः व्यक्तं प्रकटीभूतं यदि चेत्, व्यक्तं व्यञ्जकं द्रव्यादिषु सद्द्रव्यं सन् गुणः सत्कर्मेति च प्रत्ययस्योपजनकम् । अत्र दूषणम् - व्यक्तं प्रकटीभूतं भवेदित्युपस्कारः । १५ किम् ? त्रैलोक्यं त्रयो लोकास्त्रैलोक्यम् चातुर्वर्ण्यादिवत् व्युत्पत्तिः । कदा तद् व्यक्तम् ? सदा सर्वकालम् ।
न चैवं सत्य सर्वज्ञः कश्चिदप्युपपद्यते ।
सत्किञ्चित्पश्यता सर्वेणाशेषार्थावलोकनात् ॥ ११६९॥
,
यदा च यत्र च तदस्ति तदैव तत्रैव तद्व्यक्तिर्न सर्वदा सर्वत्रेति चेत् ; भवेदेवं यदि २० तदनित्यमसर्वगतञ्च । न चैवम् नित्यसर्वगतस्यैव तस्याभ्युपगमात् । तदाह - 'नित्यं सर्वगतम्' इति । तादृशस्याप्यभिव्यक्तिसहायस्यैव तस्य तत्प्रत्यय हेतुत्वम्, न च सर्वत्र सर्वदा तदभिव्यक्तिः, तदयमदोष इति चेत्; न; द्रव्यादीनां तदभिव्यञ्जकानां सर्वदा सर्वत्र च भावात् । तैरप्यभिव्यक्तैरेव "तदभिव्यक्तिर्नापरैरिति चेत्; न; सत्त्वेन तदभिव्यक्तौ परस्पराश्रयात् - तेन तदभिव्यक्तिः, अभिव्यक्तैश्च तैस्तस्याभिव्यक्तिरिति । २५ द्रव्यत्वादिभिरभिव्यक्तिरिति चेत्; न; _ तैरप्यनभिव्यक्तैस्तदभिव्यक्तौ सत्त्वेनापि स्यात् अविशेषात् । पृथिव्यादिरूपाद्युत्क्षेपणादिभिरभिव्यक्तैरेवेति चेत्; न तैरप्यनभिव्यक्तैः, अनवस्थापत्तेश्च । तन्न सामान्यधर्मैस्तदभिव्यक्तिः । स्वरूपेणैव निर्विकल्पक प्रत्यक्षविषयेणेति
१ वचाद्यचि ब०, प० । “अच् पचादिभ्यश्च" - कात०४।२।४८ । २ सद्गुणः आ०, ब०, प० । ३ चतुवर्णा एव चातुर्वर्ण्यम् । ४ " सत्वम् " - ता० टि० । ५ सवाभिव्यक्ति: । ६ द्रव्याद्यभिव्यक्ती | ७ सरवेन । ८ द्रव्यादिभिः । ९ " द्रव्यादीनाम् " - ता० टि० । १० अनभिव्यक्तेन अभिव्यक्तिः स्यात् ।
ક