________________
५०४
न्यायविनिश्चयविवरणे
[१।१५४ इदमेवाह
तस्माद् दृष्टस्य भावस्य न दृष्टस्सकलो गुणः ॥१५३॥ इति ।
तस्मात् प्रागुक्तादनेकान्तात् तमाश्रित्य दृष्टस्य उपलब्धस्य भावस्य चन्द्रादेः न दृष्टो नोपलब्धः सकलः समप्रो गुणः स्वभावः विप्लवाकारविवेकादिलक्षणो नैकान्तात् तत्र ५ दृष्टस्यादृष्टस्वभावविरोधात् । भवतु दृष्ट एव तत्र सकलोऽपि गुण इति चेत् ; उत्तमत्र- कुतो विभ्रम इति । अन्यत इति चेत् ; न ; ततोऽप्यचन्द्रप्रतिमासात् तत्र विभ्रमे अतिप्रसङ्गात् । नापि चन्द्रप्रतिभासात् ; तत्रापि सर्वगुणतयैव तस्य प्रतिभासात् । तत्राप्यन्यतो विभ्रमकल्पना. यामनवस्थापत्तेः । ततो यदुक्तम्
"तसाद् दृष्टस्य मावस्य दृष्ट एवाखिलो गुणः ।" [प्र.वा० ३।४४] इति; तदुपपद्यत एवैकान्तो यदि लभ्येत । इदं तु न युक्तम्
"भ्रान्तेनिश्चीयते नेति साधनं सम्प्रवर्तते ।” [प्र०वा० ३।४४] इति ;
सर्वात्मना वस्तुदर्शने भ्रान्त्यभावस्य निवेदितत्वात ।
तदेवं रूपसंस्थानात्मकत्ववत् दृश्येतरात्मकत्ववच्च सामान्यविशेषात्मके वस्तुनि व्यवस्थिने सति यत्परस्यापद्यते तदाह
प्रत्यक्षं कल्पनापोढं प्रत्यक्षादिनिराकृतम् । इति ।
प्रत्यक्ष प्रत्यक्षवेद्यं 'ज्ञानज्ञेयलक्षणं वस्तु कल्पनापोढं जात्यादिकल्पनारहित यत्परस्येष्टं तत् प्रत्यक्षेण आदिशब्दादनुमानादिना च निराकृतम् । अनेन "प्रत्यक्ष कल्पनापोढम्" [ प्र० वा० २।१२३ ] इत्यस्य पक्षाभासत्वं अवता न हेतुभिः परित्राणमित्यावेदितं भवति ।
निगमयमाह
अध्यक्ष लिङ्गतस्सिद्धमनेकात्मकमस्तु सत् ॥१५४॥ इति । सत् विद्यमानम् अनेकात्मकम् अनेकस्वभावम् अस्तु भवतु। कुतः ? सिद्धं निश्चितं यतः । कुतस्सिद्धम् ? अध्यक्षलिङ्गतः अध्यक्षश्च लिङ्गच ताभ्यां ततः । न हि प्रमाणसिद्धे वस्तुन्यनस्तुकारः प्रेक्षावतो युक्त इति भावः। भवतु नाम प्रत्यक्षात् तत् "सिद्धं तस्य निश्चितलक्षणत्वात् लिङ्गात्तु कथं तस्य निश्चेष्यमाणलक्षणत्वादिति चेत् ; न ; तस्यापि 'विषयतः प्रत्यक्षनिश्चयादेव निश्चयात् । न हि प्रत्यक्षविषयादन्यथा तस्य विषयः प्रत्यक्षवा. धित्वेनाप्रामाण्यप्रसङ्गात् । न चैवं पुनस्तन्निश्चयकरणस्यापार्थकत्वम् ; तस्य लक्षणविप्रतिपत्ति.
२०
१ज्ञानं ज्ञे-आ.,ब०, ५०।२न तस्य हेतुभिस्त्राणमुत्पतम्नेव यो हतः।"-ता. टि०। ३ वस्तुन्यवस्तुका-श्रा०, ब०, प० । ४ अखीकारः । ५ सिद्ध निश्चि-आ०,०,प. लिङ्गस्य ।