________________
१।१५३]
प्रथमः प्रत्यक्षप्रस्तावः कुतः ? निरंशत्वात् निर्भागत्वात् । न हि निर्भागं वस्तु गृहीतमगृहीतञ्चोपपन्नं विरोधात् । भवत्येव तथा ग्रहणं 'केषाञ्चिदिति चेत् ; आह-सर्वात्मनाम् सर्वेषां भ्रान्तानामभ्रान्तानां चात्मनां पुरुषाणाम् । कीदृशानाम् ? समग्रकरणादीनां करणमिन्द्रियमादिर्येषामालोकादीनां ते करणादयः, समग्राः सम्यगभिमुखाः कार्योत्पादने करणादयो येषां तेषामिति । यथा सामग्रीसद्भावात् चन्द्रादौ वर्तुलत्वादेर्महणं तैमिरिकादिभिस्तथैकत्वादेरपि भवेदविशेषात् । तथा ५ च न विभ्रमो नाम कचिदपीति व्यर्थस्तन्निवृत्त्यर्थः प्रयास इति मन्यते ।
भवतु तस्यैकत्वादिनैव वर्तुलत्वादिनाप्यग्रहणमेवेति चेत् ; आहनौयानादिषु विभ्रान्तो न न पश्यति बाह्यतः ॥१५२॥ इति ।
नौयानमादिः येषामाशुभ्रमणादीनां तेष निमित्तेषु सत्सु विभ्रान्तः प्रतिपत्ता न न पश्यति पश्यत्येव । क ? बाह्यतो बहिस्तथाप्रतीतेरिति भावः ।।
पश्यन्नप्यसदेव पश्यतीति चेत् : आह
न च नास्ति स आकारः ज्ञानाकारेऽनुषङ्गतः । इति ।
सं वर्तुलत्वादिः आकारो न च नैव नास्ति विद्यत एव बाह्यतस्तत्प्रतीतेरविसंवादा. दिति भावः । बाह्यस्यादर्शनमसत्त्वच ब्रुवतो दोषमाह-ज्ञानाकारेऽनुषङ्गतः ज्ञानस्याकारः स्वरूपं तत्रानुषङ्गः प्राप्तिः न पश्यतीत्यस्य नास्तीत्यस्य च तस्मात् । बाह्यतो न न पश्यति न १५ च नास्तीति सम्बन्धः
यदा बाह्यवदेवायं न पश्यत्यन्तरप्यलम् । भ्रान्तश्चैतन्यशून्यत्वं तदा प्राप्नोति मानवः ॥११६३॥ चैतन्यरहितश्चासौ मृत एव कथं भ्रमी । मिथ्याज्ञान्येव यल्लोके भ्रमीति प्रथितो बुधैः ॥११६४॥ भ्रान्तिमात्रं बहिश्चान्तश्चाभ्युपेतवतोऽपि न । स्वतोऽन्यतो वा तद्वित्तिरिति पूर्व निरूपितम् ॥११६५॥ भ्रान्तं बाहस्ततो ज्ञानमभ्रान्तं चान्तरिच्छतः । द्वित्वादिनैव चन्द्रादिरविभ्रान्तोऽस्तु नान्यथा ॥११६६॥ विवेको विप्लवाकाराद् यदि विज्ञानचन्द्रयोः । तगृहे विप्लवाकारः क्व वराकः प्रवर्तताम् ।। ११६७॥
तदग्रहे कथं वित्तिविभेदात्तयोरपि । ..तस्मात् दृश्येतरात्मत्वमनेकान्तावलम्बनम् ॥११६८॥
२ ख व-आ०, य०, ५०॥ ३ ना आ०, ब०, प० । ४ -त्तिरपि भे
"अभ्रान्तानाम्"-ता. टि. भा०,०,१०।