________________
भ्यायविनिश्चयविवरणे
[१।१५१ सन्निवेशादिवद् वस्तु सांवृतं किन्न कल्प्यते । इति । ___ सनिवेशो रचनाविशेषः संस्थानमिति यावत् । स आदिर्यस्य सदृशपरिणामादेः स इव तद्वत् "सुप इव" [शाकटा० ३।३।२] इति प्रथमान्तात् वत् प्रत्ययः । वस्तु रूपादिः
सांवृतं संवृतेः कल्पनाया आगतम् किं कस्मात् न कल्प्यते ? कल्प्यत एव शक्यं हि ५ वक्तुम्-अरूपादिव्यावृत्त्या रूपादिरपि कल्पनोपदर्शित एव न तात्विक इति । रूपाधभावे
कस्यारूपादेः व्यावृत्तिरिति चेत् ? स्थूलादेरभावेऽपि कस्यास्थूलादेः व्यावृत्तिः १ रूपादेरेव, तस्यैव स्थूलादितया परिकल्पनादिति चेत् ; अन्यत्रापि स्थूलादेरेव, तस्यैव रूपादितया परि. कल्पनादिति समानश्चः।
भवतु वस्त्वपि सांवृतमेवेति चेत् ; कुतस्तस्य परिक्षानम् ? अवस्तुस्वेन स्वतस्तद. १० योगात् । अन्यत इति चेत ; न ; ततोऽप्यतदाकारात्तदसम्भवात् । तदाह
अप्रसिद्धं पृथसिद्धम् [उभयात्मकमञ्जसा]
अप्रसिद्धं प्रमाणनिश्चि' न भवति । किम् ? पृथक् ज्ञानादर्थान्तरतयाऽनाकारार्प. कत्वेन सिद्धं निष्पन्नं सन्निवेशादिरूपादिकम्; सर्वथा तदाकाराच्च न ततस्तस्य परिज्ञानं तस्यापि
तद्वदवस्तुत्वात् । पुनस्तदन्यस्य सर्वथा तदाकारस्य कल्पनायामनवस्थापत्तेः । कथञ्चित्तदा१५ कारत्वे च सिद्धं तद्वास्तवेतरस्वभावं तदाह-'उभयात्मकम्' इति । भवतु ततः किम् १
इत्यत्राह-अञ्जसा इत्यादि । सन्निवेशादि वदन्तीति सन्निवेशादिवदो जैना: ? 'विच्येवं रूपात् तेषां वस्तु रूपस्थूलादिरूपतयाऽनेकान्तात्मकं सांवृतं भवदभिप्रायेण किन्नेष्यते ? इध्यत एव । कथम् ? अञ्जसा परमार्थेन । तात्पर्यमत्र
सत्येतरस्वभावं चेदेकं वस्तूपगम्यते । वस्तुतस्तर्हि रूपादिसंस्थानाद्यात्मकं तथा ॥ ११५९ ।। तथा च तद्वत्सामान्यविशेषात्मापि तत्त्वतः । वक्तव्यं वस्तु तद्बुद्धिदेवताकोपभीरुभिः ॥ ११६० ॥ अनेकान्तात्मके भावे सत्येवमुपपादिते । खण्डशोऽपि परिज्ञानं न वस्तुषु विरुद्धयते ॥ ११६१ ॥ निरंशार्थप्रवादे हि वस्तुनः सर्वथाग्रहात् । न क्वचिद्विभ्रमो नाम भवेदित्याह शास्त्रकृत् ॥ ११६२ ॥ समग्रकरणादीनामन्यथा दर्शने सति ॥१५०॥ सर्वात्मनां निरंशत्वात् सर्वथा ग्रहणं भवेत् । इति ।
अन्यथा अनेकान्तादन्येन' प्रकारेणैकरूपेण दर्शने अभ्युपगमे सति विद्यमाने ३० सौगताद नां सर्वथा सर्वेण चन्द्रादेवर्तुलत्वादिनेवैकादित्वादिनापि प्रकारेण ग्रहणं भवेत् ।
१-पादिकः सां-आ०, ब०, प० । २ विच् प्रत्यये सति । ३ तदा आ०, ९, १०