________________
१॥१४९]
प्रथमः प्रत्यक्षप्रस्ताव 'तेन तदुपपत्तेः । कथं तस्यापि विशेषेणैकत्वं विलक्षणत्वादिति चेत् ? कथं रूपेण संस्थानस्य तदविशेषात् ? मा भून् , संस्थानस्यैवाभावादिति चेत ; न ; दर्शनात् । न हि पश्यन्नय दैर्ध्यस्थौल्यादिकं न पश्यति, तदपह्नवे रूपदर्शनेऽपि तदापत्तेरन्धकल्पं जगद्भवेत् । रूपमेव संस्थानम् , सत्येव तदुपलम्भे तस्य दर्शनात् नापरमिति चेत् ; न ; तत एव रूपस्यापि संस्थानादन्यस्याभावप्रसङ्गात् । दूरविरलकेशादौ केवलस्यापि रूपस्य दर्शनमिति चेत् ; न ; ५ समन्धकारादौ केवलस्यापि मयूरादिसंस्थानस्योपलम्भात् । संस्थानमेव तन्न भवति यथादृष्टस्याप्राप्तः, तस्यैव संस्थानत्वे प्राप्तिरपि स्यात् , न चैवम् , स्पष्टस्यैव प्राप्तेः । न च तयोरेकत्वं प्रतिभासभेदेन भेदस्यैवोपपत्तेः, तस्माद् भ्रान्तमेव तदर्शनम् विसंवादादिति चेत् ; न ; अस्पष्टतायामेव विसंवादात् , न संस्थाने । तदव्यतिरेकात् तत्रापि विसंवाद एवेति चेत् ; न; एकान्ततस्तदभावात् , अन्यथा ह्यस्पष्टमित्येव स्यात् प्रतिभासो न स्थूलमिति । कथं १० वा तत्संस्थानस्यावस्तुत्वे लिङ्गत्वम् ? अविनाभावनियमादिति चेत् ; न तनियमम्यापि तदुत्पत्तितादात्म्ययोरेवाभ्यनुज्ञानात् । अत एवोक्तम्
"कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
अविनाभावनियमो दर्शनान्न न दर्शनात् ॥” [प्र० वा० ३।३०] इति ।
न चावस्तु कस्यचित्कार्यम् ; व्योमकुसुमादिवत् । नापि स्वभावः । स्वभाववत्त्वेऽपि १५ साध्यस्य तस्मादेकान्तेनाभेदे तदप्यवस्त्वेव स्यात् । न च तत्साधने प्रेक्षावतां प्रवृत्तिः पुरुषार्थाभावात । साधितात् ततो वस्तुसाधनमिति चेत ; न; तस्यापि तस्मादेकान्तेनाभेदे पूर्ववहोषादनवस्थानुषगाच । कथञ्चित् तदव्यतिरेकपरिकल्पनया तत्साध्यवस्तुत्वपरिपालनं ध्यामलितो. पलब्धसंस्थानस्यापि वस्तुत्वमवस्थापयति, तस्यापि ध्यामलितत्वात् कथञ्चिदेवाव्यतिरेकात् । मा भूल्लिङ्गत्वमपि तस्येति चेत् ; कथं तर्हि तत्र प्रतिपन्नप्राप्तिव्यभिचारस्यानुमानादविसंवादः ? २० यत इदं सूक्तम्
“ममैवं प्रतिभासोऽयं न संस्थानविवर्जितः । एवमन्यत्र दृष्टत्वादनुमानं तथा च तत् ॥” [प्र०वार्तिकाल० १।१] इति ।
कथं पुनः अनुमानादयविसंवादः तद्विषयस्याप्यस्पष्टावभासित्वेनावस्तुत्वाविशेषात , तत्रापि तत्प्रतिभासलिङ्गोपजनितादनुमानाद् अविसंवादपरिकल्पनायामनवस्थापत्तिरिति चेत् ; २५ अयमपि परस्यैव दोषः । न दोषः, व्यवहारभङ्गभयादकृतविचारस्यैवानुमानप्रामाण्यस्याभ्यनुज्ञानादिति चेत् ; न. ; तथा दर्शनस्यैव तदङ्गीकारोपपत्तेः । एवमप्यवास्तवमेव संस्थान व्यावहारिकस्याध्यक्षस्यावस्तुविषयत्वात् , ततः सांवृतमेव तत् अस्थूलादिव्यावृत्त्या स्थूलादे: संवृत्या परिकल्पनादिति चेत् ; अत्राह
१ सामान्येन । २-पनव्याप्तिव्यभि-आ०, ब.,प० ।