________________
१५
५००
न्यायविनिश्चयविवरणे
( १९४९
म्भावाम् । वक्ष्यति चैतत्- नित्यमित्यादिना'। यदि न तद्व्यापिनी कथं तदभिव्यक्तम, अभिव्यक्तिव्याप्तस्वभावस्यैवाभिव्यक्तत्वोपपत्तेः । खण्डशोऽभिव्यक्तमप्यभिव्यक्तमेवेति चेत ; न ; तस्य खण्डाभावान् । तद्भावे वा कथं तत्र कार्यावयवशो वृत्तिपर्यनुयोगो नोपपद्यते इदं सूक्तम्- 'कान्यवयवशो वृत्तिः' इत्यादि । अपि च
ब्राह्मण्यमपि सामान्यं यदि सर्वगतं तदा । शूद्रादिष्वपि तद्भावाज्जातिसाङ्कर्यमागतम् ॥ ११५०॥ व्यक्ताव्यक्तविभागस्तु निर्विभागे न युतिमान | कुतो वा तदभिव्यक्तिर्व्य क्तिभ्यस्तदसम्भवान् ॥ ११५१ ॥ stosare हि व्यक्तेस्त व्यक्तिरुपलभ्यते । अन्यथानुपदेशः स्यान्निश्वयस्तत्र गोल्ववन् ।। ११५२ ॥ उपदेश सहायैव व्यक्तिस्तद्व्यञ्जिका यदि । केवलैव मम चत सहायापेक्षणेन किम् ।। ११५३॥ केवला न समर्था चेतु सहायापेक्षणेन किम् | सहाय एव सामर्थ्यं तस्यामित्यपि नोत्तरम् ।। ११५४ ॥ स्वतः सामर्थ्यशून्यत्वे तदयोगात स्वपुष्पवन् । स्वतोऽपि यदि सामर्थ्य सहायो नैव कार्यकृत् ॥ ११५५ ॥
सत्येव सचिवे तच्चेत् तत्कृतं स्यात्तथा सति ।
वृथा तत्करणं जातेयक्तिरेवास्तु तत्कृता ।। ११५६॥
एवं हि न प्रसज्येत पारम्पर्यपरिश्रमः ।
सचिवेन विनाप्यस्ति तचेत् कुर्वीत किन्न तत् ॥ ११५७ ॥ कार्यं कार्यकृतेऽप्यस्ति सामर्थ्यमिति साहसम् ।
अन्योन्यजन्य सामर्थ्यं व्यक्तितत्सचिवद्वयम् ॥ ११५८॥ कार्यकच्चे शूद्रादावप्येवं तत्प्रसञ्जनान् ।
कौण्डिन्यादिवत् " सूतमागधादिरपि ब्राह्मण्यस्य व्यक्तिरेव तत्रापि तस्य तदुपदेशस्य २५ च सर्वगतसामान्यवादिमतेन भावान् । ततस्तत्रापि तदभिव्यक्तौ कथं याजनाध्यापनादयः कर्मविधयो न भवेयुः, आचारसाङ्कर्यं न भवेत् ? तदेवं क्षत्रियत्वादयोऽपि 'चिन्त्याः । तन्न वस्य सर्वसर्वगतत्वं तद्वद् गोत्वादेरपि । व्यक्तिसर्वगतस्य तु प्रत्यन्तरालं विच्छेदे नानात्वम् अन्यथा सर्वसर्वगतादविशेषः । तन्न तादृशेन सामान्येन तदात्मकत्वं भावस्य सादृश्यात्मनैव
,
१ न्यायवि० श्लो० १५५ । २ - व्यक्तत्वापत्तेः आ०, ब०, प० । ३ केवलं न-आ०, ब०, प० । ४ जातव्यक्ति - ता० । ५ ब्राह्मण्यां क्षत्रियाज्जातः सूतः । क्षत्रियायां वैश्याज्जानो मागधः । ६ द्रष्टव्यम् प्र० वार्तिकाल० १।२ । ७ - था सर्वग - आ०, ब०, प० । ८ सर्वगतेन ।