________________
१११४९] प्रथमः प्रत्यक्षप्रस्ताव
४९९ विशेषभ्यो भेदस्तदाधेयत्वं वा प्रत्यवभासते, कथञ्चित तदव्यतिरेकस्यैव तस्य तत्रावभासनात् । तथापि तत्र तदवभासकल्पनायर्या भवन्तु कुशलिनस्ताथागताः 'परस्परविश्लेषिणामणूनामेव वत्रावभासनम्' इति तेषामपि शक्यत्वात परिकल्पनस्य । खण्डादिषु गोत्वमिति तु प्रतिपत्तिरापोद्धारिकी व्यवहारार्था न तावता तस्य तदाधेयत्वम् , अन्यथा तेषामपि तदाधेयत्वं भवेत् - "सामान्यनिष्ठा विविधा विशेषाः" [ युक्त्यनु० श्लो० ४१ ] इत्यपि प्रतीतेः । कीदृशं ५ तर्हि तत्त्वम् ? इत्याह-उभयात्मकमञ्जसा इति । सामान्यविशेषोभयखभावं तत्त्वम् अञ्जसा परमार्थेनेति ।
तदात्मत्वेऽपि वस्तुनः सामान्यमेकमेव 'सर्वसर्वगतं न प्रतिव्यक्ति भिन्नं सदृशपरिणामलक्षणम् । तदुक्तम्
"यथा च व्यक्तिरेकैव दृश्यमानः पुनः पुनः । . कालभेदेऽप्यभिन्नैवं जातिभिन्नाश्रया सती ।। कात्यावयवशो वृत्तिपृच्छा जातौ न युज्यते ।
न हि भेदविनिर्मुक्ते कात्य॑भेदविकल्पनम् ॥"[मी० श्लो०वन० ३२.३३] इति चेत् ; न ; व्यक्तिवत्तदन्तरालेऽपि तस्योपलम्भप्रसङ्गात् । अनभिव्यक्तर्नेति चेत् ; व्यक्तावपि न भवेत् , तदन्तरालगतात् तद्गतस्य तद्रूपस्याभेदात् । भेदे व्यक्तिगतमेव तत्सा. १५ मान्यमस्तु तत एव तत्प्रयोजनपरिसमाप्तेः व्यर्थ तदन्तराले तत्कल्पनम् । प्रतिव्यक्ति तस्य भेदे कथमभेदप्रत्ययः 'खण्डो गोर्मुण्डो 'गौरिति' इति चेत् ? अभेदेऽपि कथं क्वचिदभिव्यक्तिरनभिव्यक्तिश्चान्यत्र व्यक्तेरतद्रूपत्वात् ? न हि व्यक्तिर्विषयस्वभावो येन तद्वत्त्वेतराभ्यां तस्य भेदः अपि त्वन्यैव ततः, तत्प्रतिपत्तिरूपत्वादिति चेत् ; कथमेवं तदन्तराले "तदप्रतिपत्तावनभिव्यक्तिरुत्तरम् ? तैयाप्यप्रतिपत्तरेव प्रतिपादनात् । तत्पर्यनुयोगे तस्या एवोत्तरत्वानुपपत्तेः। २० कुतश्च तस्याभिव्यक्तिः ? यत्र "तत् तत इति चेत् ; न ; सर्वतः स्यात् , सर्वसर्वगतत्वेन तस्य सर्वत्र भावात् । यस्य सामयं तत इति चेत् ; "तदपि यदि सामान्यरूपं सर्वसर्वगतञ्च स एव दोष:- तदन्तरालेऽपि ततस्तदभिव्यक्तिरिति । नायं दोषः, "तस्य तत्रानभिव्यक्तत्वेनानभिव्यञ्जकत्वात् । इतरत्र कुतस्तदभिव्यक्तिः ? अन्यस्मात् सामर्थ्यादिति चेत् ; न ; तदपीत्यादेः तत्राप्यनुषङ्गादनवस्थापत्तेश्च । असर्वगतमेव तदिति चेत् ; न ; २५ सर्वगतसामान्यप्रतिज्ञाव्यापत्तेः । सामान्यादन्येव सामर्थ्यम् असर्वगतमनभिव्यक्तञ्च, अन्यथा पूर्ववद् दोषादिति चेत् ; ततोऽपि यद्यभिव्यक्तिस्तव्यापिनी ; सर्वस्य सर्वदर्शित्वप्रसङ्गः, सर्वगतसामान्यव्यापिन्या तदभिव्यक्त्या "तदव्यतिरिक्तसकलवस्तुव्याप्तेरवश्य.
१ सर्व सर्व-आ०, २०, ५०।२ -वत्तत्तदन्त-आ०, ब०, ५०।३ -व्यक्तिगतस्य-मा०, ब०,१०। ४ गोरिति चेत् आ०, २०, ५०।५ "अभिव्यक्तः"-ता.टि.। ६ व्यक्त्यन्तराले। . सामान्याप्रतिपत्ती । ८ "अनभिव्यक्तर्न सामान्यप्रतिपत्तिः' इत्युत्तरम् । ९ अनभिव्यक्त्यापि। १० सामान्यम् । ११ सामर्थ्यमपि । १२ सामान्यस्य । १३ असर्वगतसामर्थ्यादपि । १४ तदभिव्यति-आ०,०,५०।