________________
न्यायविनिश्चयविवरणे
[१११४९ "अर्थक्रियाकृते भेदे रूपभेदो न लक्ष्यते । दाहपाकादिभेदेन कशानुन हि भेदवान् ॥ यथैव भिन्नशक्तीनामभिन्न रूपमाश्रयः । तथा नानाक्रियाहेतूं रूपं किन्नाभ्युपेयते ।। एकस्यैवैष महिमा भेदसम्पादनासहः । वढेरिव यदा भावभेदकल्पस्तदा मुधा ॥" [ब्रह्मसि० २१७.१०] इति ।
तदेव सामान्यं नोपलभ्यते भेदस्यैव बहिरन्तश्चोपलम्भात् , तदुपलम्भे वा न भेदव्यवहार: तस्य संहृताखिलभेदरूपत्वात् तत्कथं तत्र तस्य सामर्थ्यम् , असति तदनुपपत्तेरिति
चेत् ? न; विशेषाणामपि परपरिकल्पितानामप्रतिपत्तेः । प्रतिपत्तौ वा न सामान्यव्यवहारः १. संहृताखिलसामान्यरूपत्वात्तेषाम, तत्कथं तत्र तेषामपि सामर्थ्यम् असति तदनुपपत्तेः । कल्पनया सत्त्वमिति चेत्, न; तस्या एव भेदाप्रतिपत्तावसम्भवात् । निवेदितञ्चैतत् । एतदेवाह
न विशेषा न सामान्यं तान् वा शक्त्या कयाचन ॥१४८॥ तद्विभर्ति स्वभावोऽयं समानपरिणामिनाम् । इति ।
अत्र द्वितीयो” नञ् तदित्यनेन सम्बन्धनीयः । वाशब्दश्चैवार्थः । तदयमर्थः-तद्१५ अनन्तरोक्तं सामान्यं ब्रह्मवादिपरिकल्पितं कयाचन भिन्नयेतरया वा शक्त्या प्रत्यासत्त्य
परसञ्ज्ञया तान् विशेषान् प्रामारामादिरूपान् न बिभर्ति वा न स्वीकरोति यथा । उपलक्षणमिदम्-नापि तद्व्यवहारं करोति । तथा विशेषाः सौगताभिमताः सामान्यं गोत्वादि न बिभ्रति बिभर्तीत्यस्य वचनपरिणामेन सम्बन्धात् । इदमप्युपलक्षणम्-तेन तद्व्यवहारमपि
न कुर्वन्ति, तेषामपि तत्सामान्यवदप्रतिपत्तिविषयत्वेन खपुष्पतुल्यत्वात् । मा भूत् तत्कल्पि२० तानां तेषां तद्भरणं त्वत्परिकल्पितानां भवेत् त्वया तत्प्रतिपत्तेरभ्युपगमादिति चेत् ; न, तत्रापि
तदसम्भवात् । न हि तेऽपि विशेषाः कयाचिदपि शक्त्या सामान्यं बिभ्रति, स्वयं तद्रूपत्वेन तदाधारत्वानुपपत्तेः । तन्न तत्रापीय प्रक्रियाऽवकल्पते । तदाह-स्वभावोऽयं सामान्यरूपः । केषाम् ? समानपरिणानिनों स्वहेतुसामग्रीतः सादृश्यपरिणामापत्तिमताम् । भिन्नमेव
सामान्य विशेषेभ्यस्तदाधेयश्च 'खण्डादिषु गोत्वम्' इति प्रतिपत्तेः, तत्कथं ते तन्न बिभ्रतीति २५ चेत् ? अत्राह
अप्रसिद्धं पृथक्सिद्धम् [उभयात्मकमञ्जसा ॥१४९॥ इति ।
प्रकर्षेण प्रत्यक्षलक्षणत्वेन सिद्धं निश्चितं प्रसिद्धं तदन्यद् अप्रसिद्धम् । किं तत् ? पथसिद्धं विशेषेभ्योऽर्थान्तरत्वेन सिद्धं निष्पन्नं सामान्यम् । न हि प्रत्यक्षे सामान्यस्य
1 -हेतुरूपं आ०, ब०,५०। २ -तथा मुदा आ०, ब०, प० । ३ संघृताखि-आ०, १०, प० । -यो न तदि-आ.,०प० । ५ बौद्धकल्पितानां विशेषणाम् ।