Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 586
________________ म्यायविनिश्चयविवरणे [१।१५८ लक्षणम् - "अज्ञातार्थप्रकाशो वा' [प्र०वा० १।३] १ व्यावहारिकमिति चेत् ; ननु तन्निश्चयात्मकमेव, तथैव व्यवहर्तृषु प्रसिद्धः, अन्यथा “मनसो" [प्रश्वा० २।१३३] इत्यादिना तत्प्रसिद्धिप्रतिपादनस्यानुपपत्तेः । न च ततः क्षणिकस्य प्रतिपत्तिः, निर्विवादत्वे. नानुमानवैफल्यापत्तेः। द्वितीयविकल्पेऽपि कुतस्तदनुमानस्य प्रामाण्यम् ? समारोपव्यवच्छे. ५ दादिति चेत् ; कोयं समारोपो नाम ? क्षणिकेऽक्षणिकज्ञानमिति चेत् ; उच्यते कालत्रयानुयायिनमिह न क्षणिकं वदन्ति विद्वांसः । प्रत्यक्षादिव तन्न क्षणिकज्ञानात्सुबोधं वः ॥११७६॥ न ह्यक्षणिकं ज्ञानं वस्तुबलादस्ति बौद्धसिद्धान्ते । कल्पितरूपं कथमिव तत्कस्यापि प्रतीतिकरम् ॥११७७।। तस्याप्यक्षणिकत्वं क्षणिकज्ञानान्न शक्यकल्पनकम् । अक्षणिकश्च न किञ्चिद्विज्ञानं तात्त्विकं भवताम् ॥११७८।। कल्पितमक्षणिकं तद्यदि पुनरुच्येत पूर्ववदोषः । पुनरपि तद्वद्वचने कथमनवस्थानतो मुक्तिः ? ॥११७९।। तन्न समारोपोऽयं शक्यपरीक्षस्ततः कथं ब्रूयुः ।। तद्विच्छित्तिविधानात् प्रमाणमनुमानमिति बौद्धाः १ ॥११८०॥ अपि चैवं कथं नीलादिविकल्पस्यापि न प्रामाण्यम् ? नीलादौ विपरीतसमारोपाभावादिति चेत् ; क्षणिके कुतस्तद्भावः ? साधर्म्यदर्शनादिति चेत् ; न; नीलादेरपि पीतादिना कथ. चित्तदर्शनात् । सर्वथा क्षणिकेऽपि तदभावात् । न तत्र समारोपः प्रतीयत इति चेत् ; इतरत्र कुतस्तत्प्रतीतिः ? स्वत इति चेत् ; न; अस्वलक्षणत्वे तदयोगात् । प्रत्यक्षं हि स्वसंवेदनम् , तत् २. कथमस्वलक्षणविषयं भवेत् ? स्वलक्षणात्मैव स इति चेत् ; न तर्हि समारोपाकारत्वं स्वलक्षण स्यातद्रूपत्वात् । अन्यत एव तस्य तदाकारत्वं न स्वत इति चेत; कथमन्यकृतस्य स्वतो वेद. नम् ? तदप्यन्यत एवेति चेत् ; न; तस्याप्यतदाकारत्वे तदयोगात् । तदाकारत्वे तदपि न स्वलक्षणमिति तस्यापि न स्वसंवेदनादवगतिः। स्वलक्षणमेव तत् , तदाकारत्वन्तु तस्याप्यन्यत एवेति चेत् ; न; तत्रापि कथमित्यादेरनुषङ्गादनवस्थानदोषपाषाणदूरपरिपातनस्य दुरपाकरत्वात् । २५ तन्न समारोपस्यैवाप्रतिपत्तेः तयवच्छेदः फलमनुमानस्य । अनिश्चितार्थनिश्चय इति चेत्; कि पुनः प्रत्यक्षतः स नास्ति ? नास्त्येव तस्यानिश्चयरूपत्वादिति चेत् ; कथं प्रामाण्यम् ? प्रामाण्ये वा किमनुमानेन ? तत्कृतनिश्चयाभावेऽपि तत्प्रामाण्यस्याविघातात्, अस्ति च तत् । ततो न प्रत्यक्षात्प्रतिपत्तिः क्षणिकस्य । "मनसोर्युगपवृत्तेः सविकल्पाविकल्पयोः । विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति ॥"-ता० टी० । २ यायिनमिति न प०।-यायिनमपि न आ०, ब.। ३ च्यात् आ०, ब०, प०। ४ साधाभावात् । ५ अनुमानकृत

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618