Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 583
________________ प्रथमः प्रत्यक्षप्रस्तावः प्रबन्धवन्निमित्ताश्चेन्निमित्तं तत्प्रबध्यते । प्रबन्धवत्त्वं तस्यापि परस्मादेव तादृशात् ॥११७४।। तथा सत्यम (न) वस्थानाहोणन्निर्मुच्यसे कथम् । तन्नौपनिषदं सत्त्वमप्युत्पत्त्यादिकारणम् ॥ ११७५॥ सत्यम्, अकारणमेव ब्रह्म तस्य नित्यनिरूजनरूपतया शान्तात्मनः कचित्प्रवृत्तिनिवृत्त्यो- ५ रसम्भवात, अविद्योल्लासस्य तु जगत्कारणस्य तन्नान्तरीयकत्वात् तदपि तत्कारणमावेदयन्ति श्रुतयः । नहि विद्यासम्पर्कविकलस्तदुल्लास: प्रतिभासरहितस्य तस्यासम्भवात्, प्रतिभासस्य च विद्यारूपत्वादिति चेत् ; कुतस्तथाभूतस्य परिज्ञानम् ? “सदेव सोम्येदमग्र आसीत् , एकमेवाद्वितीयम्" [छान्दो० ६ । २ । १] इत्यादेराम्नायादिति चेत् ; न; तस्यापि निरंशपरमाणुरूपस्याऽप्रतिवेदनात् । स्थूलत्वे तु नानावयवसाधारणत्वमवश्यम्भावि, तस्य तदन्तरेणानुपपत्तेः। १५ तथा च तदेव स्वावयवेभ्योऽनर्थान्तरं भवत्प्रस्तुते वस्तुनि निदर्शनम्, शरीरग्रहणस्योपलक्षणत्वादिति सिद्धो नः सिद्धान्तः । तस्याप्यविद्योल्लासनिबन्धनत्वेन न स्वावयवेभ्यो भेदो नाप्य. भेदो वस्तुसद्विषयत्वात् तद्विकल्पस्येति चेत् ; कथमिदानी तद्वलात् तत्त्वतो ब्रह्मसिद्धिः अवस्तु सतस्तदनुपपत्तेरतिप्रसङ्गात् । माभूत्ततस्तत्प्रतिपत्तिः तदुपकल्पितादन्यत एव ज्ञानात् तत्परिज्ञानोपगमादिति चेत् ; न; तत्रापि तस्येत्यादेरनुगमादनवस्थापत्तेश्च । ततो दूरमनुसृत्यापि किश्चि- १० तात्त्विकमेव तज्ज्ञानमनन्तरच स्वावयवेभ्यो वक्तव्यं तथा च सिद्धं तद्वदेव सद्रूपस्यापि भेदप्रभेदरूपतत्त्व(रूपत्वम् तथैव निर्बाधादवबोधादित्युपपन्नमुक्तं 'सकलाङ्गशरीरवत्' इति । यस्य तु मतम्-साध्यवैकल्पं निदर्शनस्य शरीरस्यापि तदंशेभ्यो नियमेनानन्तरत्वा. भावादिति; तदपि दुर्मतम् ; जीवत्यनर्थान्तरत्वपरिज्ञाने तदनुपपत्तेः । समवायादेव तत्परिज्ञानं नानान्तरत्वादिति चेत् ; कः पुनः संयोगात् समवायस्य विशेषो यतस्तत एव तत्परिज्ञानं न २० संयोगादपि । अयुतसिद्धसम्बन्धत्वमेवेति चेत् ; न तावदियमयुतसिद्धिरपृथग्देशत्वम् ; शरीरतदङ्गयोस्तदभावेन समवायाभावापत्तेः । नहि तयोरपृथग्देशत्वम् ; शरीरस्य तदङ्गदेशत्वात् तदङ्गानाञ्च तदारम्भकदेशत्वात् । अश्वमहिषवत लौकिकस्य पृथग्देशत्वस्याभावादपृथग्देशत्वं तयोरिति चेत्, न; करतलगतयोः कुँवलामलकयोरपि तथात्वेन समवायापत्तेः । नाप्यभिन्नकालत्वम् ; अत एव । न च शरीराभिन्नकालत्वं तदङ्गानाम् ; प्रागपि भावात् , अन्यथा तदारम्भ- २५ कस्वानुपपत्तेः । शरीरस्यैव सम्बन्धापेक्षमभिन्नकालत्वम्, नहि शरीरमन्यदाऽन्यदा च सम्बन्धः । सम्बध्यमानस्यैव तस्योत्पत्तेरिति चेत् ; कुत एतत् ? तत्सम्बन्धस्य तदेकसामग्यधीनत्वादिति चेत् ; न; तस्य नित्यस्योपगमात् । सदुत्पत्तिसमये तस्य भावादिति चेत् ; तत एव कुवलमप्यामलकेन तादृशमेवोत्पधेत । आमलकस्याकारणत्वान्नेति चेत् ; न तेनापि तत्सम्बन्धविभुत्वा. आम्नायस्यापि । २ भेदाभेदविकल्पस्य । ३ आम्नायबलात् । ४ आम्नायतो ब्रह्मप्रतिपत्तिः । ५ तैरेवनिमा०,०,०।६बदरामलकयोरपि । ७ एतत्सम्बन्ध-आ०, ब०, प० ।

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618