Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 581
________________ प्रथमः प्रत्यक्षप्रस्तावः र्थान्तरत्वेऽनान्तरत्वे च पूर्ववत्प्रसङ्गात् । तस्यापि ताभ्यामनिर्वचनीयत्वकल्पनायाम् अनवस्थानोपनिपातात् । स्यान्मतम् -अयमेव ह्यविद्यामुग्धवधूविलासप्रपञ्चस्य स्वभावो यदुक्तविचारपरशुपरिपातासहिष्णुत्वम् । तत्सहिष्णुत्वे तत्प्रपञ्चत्वपरित्यागापत्तेः । ‘जंह्यादविद्याऽविद्यात्वं विचारं सहते यदि । न्यायघातासहिष्णुत्वमविद्यालक्षणं यतः ॥' [ ] इति वेचनादिति चेत् ; न; तत्स्वभावस्यापि सत्त्वासत्त्वयोस्ताभ्यामनिर्वचनीयत्वे च भेदाभेदयोस्ताभ्यामनिवर्चनीयत्वे च पूर्ववत्प्रसङ्गात् तस्यापि तत्प्रतिघातासहिष्णुत्वव्यावर्णनायामनवस्थितेरप्रतिक्षेपात् । ततो दूरं गत्वापि तात्त्विकं तदर्थान्तरञ्च तद्रूपमभ्युपगन्तव्यमिति कथं न भेदो वास्तवो यतस्तदात्मकमेव सत्त्वं न भवेत् ? तदाह ___ सर्वभेदप्रभेदं सत् सकलाङ्गशरीरवत् ॥१५६॥ इति । भेदाश्च जीवपुद्गलादयः प्रभेदाश्च तेषानवान्तरविशेषाः, जीवस्य संसारिणो मुक्ताः सस्थावराः सकलेन्द्रिया विकलेन्द्रियाः सज्ञिनोऽसज्ञिन इति, पुद्गलस्य ऍथिव्य आपस्ते. जांसि वायव इति भेदप्रभेदाः, सर्वे निरवशेषा भेदप्रभेदा यस्मिंस्तत् सर्वभेदप्रभेदं सत् सत्वं भावप्रधानत्वानिर्देशस्य । सकलेत्यादि तत्रैव निदर्शनम् । सकलान्यङ्गानि करच१५ रणादीनि यस्य तच्च तच्छरीरं च तदिव तद्वदिति । तात्पर्यमत्र-यथा न पाणिपादादेरर्थान्तरं शरीरं तद्भाव एवोपलभ्यमानत्वात् । न हि तदर्थान्तरत्वे तस्य तद्भाव एवोपलब्धिः , गोरभावेप्यश्वस्योपलम्भात् । न चैवम् अतोऽनन्तरमेव ततस्तत् । उक्तश्चैतत्-''भावे चोपलब्धेः" [ब्रह्मसू० २।१।१५] इति । अतश्च तस्य ततोऽनर्थान्तरत्वं यत्प्रत्यक्षतस्तथैवोपलभ्यते । न हि गवाश्ववत् पाण्यादिशरीरयोर्भेदेनोपलब्धिः; परस्पराविष्वग्भावेनैवोपलब्धेः । न चोपलब्धे. २० लक्षणान्तरम् ; अतिप्रसङ्गात् । इदमप्युक्तम्-"भावाच्चोपलब्धेः' [ ब्रह्मसू० २।१।१५ ] लक्षणान्तरे इति । तथा तत एव सद्रूपमपि भेदादनान्तरमभ्युपगन्तव्यम् । न हि तस्यापि भेदाभावेऽपि भेदादन्यत्वेनाप्युपलब्धिः; सत्येव द्रव्यादौ भेदे तत्प्रभेदे च तदनन्तरत्वेन च सर्वत्र सर्वदापि प्रतिपत्तेः । तदनन्तरत्वे तस्य भेदस्येव भेदान्तरं प्रति तस्याप्यनुगमनं न भवेत् , तथा च"तदन्तरस्य सर्वस्याप्यसत्त्वादेकभेदमात्रमेव सद्रूपं प्राप्तम् । तच्च प्रतीतिविरुद्धमिति २५ चेत्, न; शरीरेऽप्येवं प्रसङ्गात् । न हि तस्यापि पाण्यादेव्यतिरेके 'तद्वदेव तदन्तरं प्रत्यनुगमन १ यदुतवि-आ०, ब०, प० । २ स्यादविद्या-आ०,ब०, प० । ३ न्यायाघातस-ता०। ४ “अविद्याया अविद्यात्व इदमेवतु लक्षणम् । मानाघातासहिष्णुत्वमसाधारणमिप्यते ॥"-बृ० सं० वा० श्लो० १८१ । ५ सदसत्वयो-आ०, ब०, प० । ६ त्रसा स्था-आ०,ब०प० । ७ पृथिव्यापस्ते-आ.५०, ५०! ८ स्वरूपान्तरम् । ९ 'लक्षणान्तर' इति पदं सम्पातादायातमिति भाति । १० "भावाच्चोपलब्धेरित वा सूत्रम्"-ब्रह्म शा० भा० । ११ भेदान्तरस्य । १२ पाण्यादिवदेव । १३ अवयवान्तरम् ।

Loading...

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618