Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 580
________________ ५१० न्यायविनिश्चयविवरणे [१२१५६ प्रादुर्भावस्यावलोकतात् । अथ तत्रापि देशादेर्धर्मविशेषाणामुत्पत्तौ तदधिष्ठाना: सामान्यविशेषा एव तत्प्रत्ययहेतवो न देशादय इति चेत् ; न ; तेभ्य एव तदर्शनात् । अन्यतस्तत्परिकल्पनायां सर्वत्र हेतुफलभावनियमनिर्लोपापत्तेः। अतो. देशादय एव तद्धतव इति भवत्येव तेषां सामान्य रूपत्वम् । तदेवाह-देशकालाश्च । च शब्दादवस्थादयश्च सामान्यं भवेयुरिति वाक्यशेषः। ५ तथा च यदुक्तम्-"सामान्यादयो न सत्तासम्बन्धवन्तः, अवान्तरसामान्यविकलत्वात् , ये तु तत्सम्बन्धवन्तो न ते तद्विकलाः यथा द्रव्यादयः तद्विकलाश्च सामान्यादयः, तस्मान्न तत्सम्बन्धवन्तः"[ ] इति ; तत्प्रतिव्यूढम् ; देशादिवदन्येषामपि द्रव्यगुणकर्मणां क्वचित् कथञ्चित् कदाचित् सामानप्रत्ययहेतुत्वेन सामान्यरूपतोपपत्तौ न सत्तासम्बन्धी नावान्तरसामान्यमित्युभयाव्यावृत्या वैधोदाहरणत्वानुपपन्तः। समानप्रत्ययहेतुरेव सामान्य देशादयस्तु नैवम् , विशेषप्रत्ययम्यापि तत एव भावादिति चेत् ; न तर्हि सत्त्वद्रव्यत्वादयोऽपि सामान्यं समानप्रत्ययवन् 'प्रागभावादिरूपादिव्यावृत्तिप्रत्ययस्यापि तत एव भावादिति न किञ्चिदेतत् । स्याद्वादिनां तु नायं दोषः सर्वस्यापि विशेषात्मकत्ववत् सामान्यात्मकत्वस्यापि प्रतीतिबलेन तैरभ्युपगमात । तदाह- सकलं चेतनेतररूपं वस्तु मतम् अङ्गीकृतं सामान्य. मिति सम्बन्धः। सकलमपि यदि सामान्यं तर्हि सन्मात्रमेव जगत् प्राप्तम् , तस्माद्वयतिरेके 'सामान्यरूपत्वानुपपत्तेः, अभिमतञ्चैतद् ब्रह्मविदाम्-सकलभेदकलापमलविकलस्य तन्मात्रस्यैव ब्रह्मरूपतया तैरभ्युपगमादिति चेत् ; कुतस्तदभ्युपगम: ? स्वेच्छानिबद्धादभ्युपगमात् तत्सिद्धावतिप्रसङ्गाद । प्रतिभासबलोपनिवद्धादिति चेत् ; न ; निभदस्याप्रतिभासनात् । न हि निर्भेदस्य सतः प्रतिभासनम् जीवपुद्गलादिभेदतत्प्रभेदपरिकलितशरीरतया भेदरूपस्यैव तस्य प्रत्यवभासनात् । कथमन्यथा संसारतत्कारणादिः , तस्य भेदरूपत्वेन तदभावेऽनुपपत्तेः ? मा भूदिति चेत् ; न ; "मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति" [ कठ० ४।१० ] इत्यादेवचनस्य निर्विषयत्वापत्तेः । भवतु भेदप्रतिभासः स तु अविद्यारूपवारवनितास्वैरविलासपरिकल्पितत्वेनातत्त्वविषय एवेति चेत् ; कथं तस्यार्थान्तरत्वे ब्रह्मणः तात्त्विक एव भेदो न भवेत् ? तस्यासत्त्वादिति चेत् ; न ; 'असंश्च प्रतिभासश्च' इति व्याघातात् । भावाभावाभ्यामनिर्वचनीयत्वादिति चेत् ; न ; तपस्याप्यसत्त्वे भेदप्रतिभासत्वा. 'नुपपत्तेः। सत्त्वे भेदतात्विकत्वस्य तदवस्थत्वात् । तस्यापि ताभ्यामनिर्वचनीयत्वकल्पनायां प्राच्यप्रसङ्गानिवृत्तेरनवस्थापत्तेश्च । ततस्तस्यानन्तरत्वे तु ब्रह्मापि तद्वत् तद्विलासपरिकल्पितं भवेत् । न चैवम् , तस्य निरवद्यविद्यारूपतया परैः प्रतिज्ञानात् । नायं दोषः तस्य ततो भेदाभेदाभ्यामनिर्वाच्यत्वादिति चेत् ; न ; तद्रूपस्यासत्त्वे प्रतिभासत्वासम्भवात् । सत्त्वेऽप्य. १ साध्यहेतूभय । २ प्राग्भावा-आ०, ब०, प० । प्रागभावादिव्यावृत्तिप्रत्ययः सत्त्वात् , रूपादिव्यबृत्तिप्रत्ययः द्रव्यत्वात् । ३-पविक-आ०, ब०,१०। ४ सन्मात्रस्यैव । ५-तात्त्विकस्व आ०, ब०,१०। ६-प्रसङ्गानतिवृआ०, ब०, प० । ७ परिज्ञा- आ०, ब०, प० । “विज्ञानमानन्दं ब्रह्म"-वृहदा०३।९।३४ ।

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618