Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 579
________________ १२१५६ ) प्रथमःप्रत्यक्षप्रस्ताव: ५०९ सत्तदिष्वप्यपरसत्तासम्बन्धकल्पनायामनवस्थितिरिति प्रकारेण तेषु तत्प्रतीत्यभावप्रकारेण वा, सन्ति विद्यन्ते सत्तादयः आदिशब्दाद् द्रव्यत्वादयश्च । तथा तेन प्रकारेण अर्थाः द्रव्यादयः "द्रव्यगुणकर्मस्वर्थः" [वैशे० ८।२।३] इति वचनान् , सर्वे निरवशेषाः सन्तीति सम्बन्धः । न हि तत्राप्यर्थान्तरस्य सत्त्वस्थ प्रतिपत्तिः, रूपभेदानवलोक नात् । सम्बन्धात् तदनवलोकनमिति चेत् ; न ; सर्वथाप्यनवलोकनप्रसङ्गात् । 'तद्भेदाद्रूपान्तरस्याप्यं. ५ नर्थान्तरत्वात् । तथापि तस्यावलोकने नानेकान्तप्रतिक्षेपः अवलोकितानवलोकितरूपत्वेन तस्यावश्यम्भावात् , तथा च सामान्यविशेषात्मकत्वेनैव किन्न स्यात् , यतः प्रतीतिमतिलक्ष्य सत्त्वमर्थान्तरं परिकल्प्येत ? कथं वानवस्थाननिर्मुक्तिः ? सत्तादिपु सत्त्वान्तरस्याभावादिति चेत् ; न ; जीवति सत्प्रत्यये तदभावस्यासम्भवात् । औपचारिक एव स तत्र माणवके सिंहप्रत्ययवदिति चेत ; न ; बाधकाभावे तत्वानुपपत्तेः । तत्र तदन्तरानवलोकनमेव १० बाधकमिति चेत, यद्येवं प्रतिपद्यसे द्रव्यादिष्वपि तन्माभून , अनवलोकनम्याविशेषात् । अनवलोकितमपि सत्प्रत्ययादवगम्यत इति चेत् ; न तर्हि तत्प्रत्ययस्यानवलोकनं वाधकमिति कथं सत्त्वादिष्वपि ततस्तदन्तरं नावगम्येत यतोऽनवस्थानं न प्राप्नुयात् ? तस्मात् स्वत एव द्रव्यादयः सन्ति, पृथिव्यादीनि द्रव्याणि रूपादयो गुणाः उत्क्षेपणादीनि कर्माणोति वक्तव्यम् , प्रतीतिव्यापारस्यैवमेवानुभवात् । ___ नन्वेवं सत्त्वादीनां "पथगभावे कथं "दृष्टान्तत्वम् ? परप्रसिद्ध्येति चेन् ; न; तस्याः प्रमाणत्वे तथा तदभावानुपपत्तः । अभ्युपगममात्रत्वे तु तद्विषयनिदर्शनबलादवस्थाप्यमानं तद्व्याद्यर्थसत्त्वमपि तादृशमेव भवेदिति चेत् ; सत्यम् ; न हि वयं दृष्टान्तबलात् तत्र तत्सत्वमवकल्पयामो निरपवादात् तत्प्रतीतिबलादेव तदवकल्पनात् । सत्त्वादिनिदर्शनोपदर्शनं तु परस्य तद्बलातिलचनमवस्थापयितुम्-'यदि द्रव्यादिषु तद्वलमतिलवयसि किन्न सत्त्वादिष्वपि २० लायन्ननवस्थादोषमन्वाकर्षसि ?' इति । भवति चैवमवस्थापनम"-"स्ववाह्य (वाग्य)त्रिता वादिनो न विचलिष्यन्ति" [ ] इति न्यायात् । कुतो वा सत्त्वादीनां सामान्यरूपत्वं यतस्तत्र सामान्यान्तराभावः ? समानप्रत्ययहेतुत्वादिति चेत् ; न ; देशकालावस्थासंस्कारादेरपि तद्रूपत्वापत्तेः । अस्ति हि तस्यापि तत्प्रत्ययहेतुत्वम्-'दक्षिणात्योऽयम् अयमपि दाक्षिणात्यः' इति देशात् , 'प्रावृषिजोऽयम् अयमपि प्रावृषिजः' इति कालात् , 'बालोऽयम् २५ अयमपि बालः' इत्यवस्थातः, 'पण्डितोऽयम् अयमपि पण्डितः' इति संस्काराच्च तत्प्रत्यय १ अनवलोकितस्वरूपविशेषात् । २ ज्ञातुं योग्यस्य स्वरूपान्तरस्य । ३ अनवलोकितखरूपादभेदेऽपि । ४ रूपान्तरस्य । ५ -कत्वेनेव आ०, ब०, प० । ६ सत्तादिषु । ७ औपचारिकत्वानुपपत्तेः । ८ सामान्यादिषु । ९ सत्तान्तर । १० सामान्यम् । ११ पृथग्भावे आ०,व०प० । १२ “सत्तायोगाद्विना सन्ति यथा सत्तादयः" इतिता०टि०। १३-वादाप्रति-आ०, ब०, ५०।१४ - पनं स्वबाधानियन्त्रिता ता० । 'अस्मिन् पाठे खमतबाधाभयानियन्त्रिता बादिनः' इत्यर्थो शेयः । १५ "स्ववाग्यन्त्रिता वादिनो न विचलिष्यन्तीति"-प्रमेयक पृ०६६२ । १६पिप्रत्य- आ०, ब., ५०।

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618