Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 456
________________ न्यायविनिश्चयविवरणे [ १९४ स्वर्गाद्यभावप्रतिपत्तेः चार्वाकस्यापि किं तत्र प्रमाणान्तरपरिकल्पनया ? यत इदं शोभेत] इति । " प्रेमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥” [ कथं वा क्वचिदपि तेषामदृश्यानां तस्मादभावप्रतिपत्तिः ? 'दृश्यानुपलम्भस्यैव गमकत्वम्' इति स्वमतव्याघातात् । इदमपि भेदवादिन एव मतं नाद्वैतवादिनः तेनानुपलम्भ५ मात्रादभावप्रतिपत्तेरभ्युपगमादिति चेत्; न; एवं नीलेनान्याकारस्य तेन नीलस्यानुपलम्भात्, अभावप्रतिपत्तावभिन्न योगक्षेमत्वस्याश्रयासिद्धिप्रसङ्गात् । नीलेतर योरन्योन्यमनुपलम्भेऽपि स्वयमुपलम्भोन्नाभाव इति चेत्; न; सन्तानान्तरेष्वपि स्वयमुलम्भस्य भावात् । सोऽपि परेणानुपलभ्यमानो नास्त्येवेति चेत्; न; नीलेतरयोरपि स्वयमुपलम्भस्य परस्परानुपलम्भेनाभावापत्तेः । तन्नानुपलम्भमात्रादपि तदभावज्ञानम् । कथं वा तन्मात्रात्तभावज्ञानज्ञानम् ? कथं च न स्यात् ? तन्मात्रज्ञानेन तदभावज्ञानस्य तज्ज्ञानेन च तन्मात्रस्याप्रतिपत्तेः, तत्काले तस्याभावात्, उभयसमयव्यापिनश्च ज्ञानस्यानभ्युपगमात् । उभयोश्च कुतश्चिदपरिज्ञाने तद्धेतुफलभावस्याशक्यपरिज्ञानत्वात् । सत्यम् ; न वस्तुतोऽनुपलम्भस्य तज्ज्ञानहेतुत्वम् “अशक्त' सर्वम्" [प्र० वा० २४] इति वचनात् संवृत्या तु तदभ्युपगम्यते " संवृत्यास्तु यथा तथा" [प्र० वा० २ | ४] इति वचनादिति चेत्; न; व्याहारादेरपि तयैव सन्तानान्तरपरिज्ञानहेतुत्वापत्तेः । संवृति - बलेन तत्परिज्ञानमपरिज्ञानमेवेति चेत्; न; तेन तंन्निषेधस्याप्यनिषेधत्वप्रसङ्गात् । १५ " अपि च, केयं संवृतिर्नाम ? तत्र हेतुफलभावमध्यारोपयन् कश्चिन्मिध्याविकल्प इति चेत ; न ; तस्यापि हेतुसमसमयस्य तत्फले तत्फलसमसमयस्य च हेतौ अप्रवृत्तेः, उभयसमसमयस्य च तस्यानभ्युपगमात् कथं ततोऽप्यनुपलम्भस्य तद्धेतुत्वम् ? सत्यम् ; २० न तस्याप्युभयविषयत्वं वस्तुतः संवृत्यन्तरेणैव परिकल्पनादिति चेत् ; न ; तेनापि हेतुतत्फलयोरपरिज्ञाने विकल्पतद्विषयत्वस्याशक्यारोपणत्वात् । तस्यापि तदन्तरेण तद्विषयत्व - परिकल्पनान्न दोष इति चेत्; न; तत्रापि ' तेनापि' इत्याद्यनुबन्धादावृत्तिमतोऽनवस्थादोषस्यापत्तेः । विचाराधिष्ठिता न सम्भवत्येव "संवृतिः, लोकबुद्ध्यैव केवलमभ्युपगम्यत इति चेत्; न सम्यगेतत् ; लोकस्यैव सन्तानान्तरस्वभावस्याभावात् । तदयं लोकमेवानभ्यु२५ पगच्छन् तद्बुद्ध्या संवृतिमङ्गीकरोतीति कथमनुन्मत्तप्रज्ञ: ? भवतु वा संवृतिः, तथापि तया तदभावज्ञानस्य किमारोपयितव्यम् ? अनुपलम्भ १० ३८६ १ " तदुक्तं धर्मकीर्तिना - प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः । प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥" प्र० परी० पृ० ६४ | प्रश० कन्द० पृ० १५५ । प्रमाणमी० पृ० ८ । २ " प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः– यथोक्ताया दृश्यानुपलब्धिस्तत एव ।" - न्यायबि०, टी० पृ० ४३ । प्रमाणवा० स्ववृ० १५ | प्रमाणवार्तिकाल० ४।२६२ । ३ -दभावज्ञानं क-आ०, ब०, प० । “अनुपलम्भमात्रात् सन्तानान्तराभावज्ञानमभूदिति ज्ञानम्" - ता० टि० । ४ संवृत्यैव । ५ संवृतिबलेन । ६ " सत्याभासः परन्तत्र न तत्त्वं परमार्थतः । विचार्यमाणशून्यत्वे संवृतिः सेति गीयते ॥ " - प्र० वार्तिकाल० पृ० ४८ ।

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618