________________
न्यायविनिश्चयविवरणे
[ १९४
स्वर्गाद्यभावप्रतिपत्तेः चार्वाकस्यापि किं तत्र प्रमाणान्तरपरिकल्पनया ? यत इदं शोभेत] इति ।
" प्रेमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥” [
कथं वा क्वचिदपि तेषामदृश्यानां तस्मादभावप्रतिपत्तिः ? 'दृश्यानुपलम्भस्यैव गमकत्वम्' इति स्वमतव्याघातात् । इदमपि भेदवादिन एव मतं नाद्वैतवादिनः तेनानुपलम्भ५ मात्रादभावप्रतिपत्तेरभ्युपगमादिति चेत्; न; एवं नीलेनान्याकारस्य तेन नीलस्यानुपलम्भात्, अभावप्रतिपत्तावभिन्न योगक्षेमत्वस्याश्रयासिद्धिप्रसङ्गात् । नीलेतर योरन्योन्यमनुपलम्भेऽपि स्वयमुपलम्भोन्नाभाव इति चेत्; न; सन्तानान्तरेष्वपि स्वयमुलम्भस्य भावात् । सोऽपि परेणानुपलभ्यमानो नास्त्येवेति चेत्; न; नीलेतरयोरपि स्वयमुपलम्भस्य परस्परानुपलम्भेनाभावापत्तेः । तन्नानुपलम्भमात्रादपि तदभावज्ञानम् ।
कथं वा तन्मात्रात्तभावज्ञानज्ञानम् ? कथं च न स्यात् ? तन्मात्रज्ञानेन तदभावज्ञानस्य तज्ज्ञानेन च तन्मात्रस्याप्रतिपत्तेः, तत्काले तस्याभावात्, उभयसमयव्यापिनश्च ज्ञानस्यानभ्युपगमात् । उभयोश्च कुतश्चिदपरिज्ञाने तद्धेतुफलभावस्याशक्यपरिज्ञानत्वात् । सत्यम् ; न वस्तुतोऽनुपलम्भस्य तज्ज्ञानहेतुत्वम् “अशक्त' सर्वम्" [प्र० वा० २४] इति वचनात् संवृत्या तु तदभ्युपगम्यते " संवृत्यास्तु यथा तथा" [प्र० वा० २ | ४] इति वचनादिति चेत्; न; व्याहारादेरपि तयैव सन्तानान्तरपरिज्ञानहेतुत्वापत्तेः । संवृति - बलेन तत्परिज्ञानमपरिज्ञानमेवेति चेत्; न; तेन तंन्निषेधस्याप्यनिषेधत्वप्रसङ्गात् ।
१५
"
अपि च, केयं संवृतिर्नाम ? तत्र हेतुफलभावमध्यारोपयन् कश्चिन्मिध्याविकल्प इति चेत ; न ; तस्यापि हेतुसमसमयस्य तत्फले तत्फलसमसमयस्य च हेतौ अप्रवृत्तेः, उभयसमसमयस्य च तस्यानभ्युपगमात् कथं ततोऽप्यनुपलम्भस्य तद्धेतुत्वम् ? सत्यम् ; २० न तस्याप्युभयविषयत्वं वस्तुतः संवृत्यन्तरेणैव परिकल्पनादिति चेत् ; न ; तेनापि हेतुतत्फलयोरपरिज्ञाने विकल्पतद्विषयत्वस्याशक्यारोपणत्वात् । तस्यापि तदन्तरेण तद्विषयत्व - परिकल्पनान्न दोष इति चेत्; न; तत्रापि ' तेनापि' इत्याद्यनुबन्धादावृत्तिमतोऽनवस्थादोषस्यापत्तेः । विचाराधिष्ठिता न सम्भवत्येव "संवृतिः, लोकबुद्ध्यैव केवलमभ्युपगम्यत इति चेत्; न सम्यगेतत् ; लोकस्यैव सन्तानान्तरस्वभावस्याभावात् । तदयं लोकमेवानभ्यु२५ पगच्छन् तद्बुद्ध्या संवृतिमङ्गीकरोतीति कथमनुन्मत्तप्रज्ञ: ?
भवतु वा संवृतिः, तथापि तया तदभावज्ञानस्य किमारोपयितव्यम् ? अनुपलम्भ
१०
३८६
१ " तदुक्तं धर्मकीर्तिना - प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः । प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥" प्र० परी० पृ० ६४ | प्रश० कन्द० पृ० १५५ । प्रमाणमी० पृ० ८ । २ " प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः– यथोक्ताया दृश्यानुपलब्धिस्तत एव ।" - न्यायबि०, टी० पृ० ४३ । प्रमाणवा० स्ववृ० १५ | प्रमाणवार्तिकाल० ४।२६२ । ३ -दभावज्ञानं क-आ०, ब०, प० । “अनुपलम्भमात्रात् सन्तानान्तराभावज्ञानमभूदिति ज्ञानम्" - ता० टि० । ४ संवृत्यैव । ५ संवृतिबलेन । ६ " सत्याभासः परन्तत्र न तत्त्वं परमार्थतः । विचार्यमाणशून्यत्वे संवृतिः सेति गीयते ॥ " - प्र० वार्तिकाल० पृ० ४८ ।