________________
१९४]
प्रथमः प्रत्यक्षप्रस्ताव
३८५
परिज्ञानात् । तस्य' च स्वपरविषयस्वभावद्वयाधारस्याभ्युपगमात् । 'तत्स्वभावद्वयस्याप्यपरेण तद्वयेन तस्याप्यपरेण तेन परिज्ञानमित्यनवस्थानम्' इत्यपि चोद्यं न चित्रैकवादिनः सम्भवति तत्रापि प्रसङ्गात् ।
__भवतु बाह्यस्य परिज्ञानम् ; तथापि कथं चित्रस्यैकत्वम् ? कथं ज्ञानस्य ? अशक्यविवेचनत्वादिति चेत् ; न ; बहिरपि तद्भावस्य निवेदितत्वात् । अभिन्नयोगक्षेमत्वादिति ५ चेत् ; किमिदं तत्वादिति ? सहोत्पत्तिविनाशत्वात् , सहोत्पत्तिसंवेदनत्वाद्वेति चेत् ; न ; तस्य सन्तानान्तरज्ञानैर्यभिचारित्वेनागमकत्वात् । अस्ति हि तेषां तत्त्वं न चैकत्वमिति । 'तान्येव न सन्ति अपरिज्ञानात् तत्कथं तेषु तत्त्वम् ? न हि तेषां प्रत्यक्षतः परिज्ञानम् ; शरीरवत्तत्रापि संशयाद्यभावापत्तेः। नाप्यनुमानात् ; लिङ्गाभावात् । व्याहारादि लिङ्गमिति चेत् ; कुत एतत् ? तस्य संवेदनकार्यत्वेनात्मनि प्रतिपत्तेरिति चेत् ; तर्हि तस्य संवेदनस्य १० चैकमेव ज्ञानमभ्युपगन्तव्यम् - अन्यथा 'संवेदनस्य व्याहारादिः कार्यम् , तस्य संवेदनं कारणम्' इति परिज्ञानासम्भवात् । भवत्विति चेत् ; न तस्यापि संवेदनसमयस्य व्याहारादौ तत्समयस्य च संवेदने प्रवृत्त्यभावात् , 'तत्काले भाविनि भूतेंवा स्वयमभावात् । अतत्कालेन च तत्प्रतिपत्तौ अतिप्रसङ्गात् । न चोभयकालत्वमेकस्य ; क्षणिकत्वात् । भवतु वा "तस्य "तत्कार्यत्वम् , तथापि न गमकत्वम् ; गाढस्वापादौ साध्याभावेऽपि भावात् । अन्य एव स १५ व्याहारादिः, न च तद्व्यभिचारात्तद्विलक्षणस्यापि तत्रागमकत्वम् ; गोपालघटिकाधूमव्यभि. चारात् पर्वतधूमस्यापि पावकं प्रत्यगमकत्वापत्तेरिति चेत् ; भवत्वेवं तथापि कथं तस्य सर्वत्र तत्कार्यत्वम् ? कचित्तथा दर्शनादिति चेत् ; न ; तेन तत्रैव तत्प्रतिपत्तिसम्भवान्न सर्वत्र तस्य तत्राऽप्रवृत्तेः । व्याप्तिज्ञानादिति चेत् ; कुतस्तस्योत्पत्तिः ? कचित्तथा दर्शनादिति चेत् ; न ; "शालूकस्यापि सर्वत्र "गोमयकार्यत्वपरिज्ञानापत्तेः क्वचित्तथादर्शस्याऽविशेषात् । न २० चैवम् , "अन्यत्रान्यतोऽपि तस्योत्पत्तेः । तज्ज्ञानवतः सर्वज्ञत्वापत्तेश्च । तस्मादप्रतिपन्नव्याप्तिकत्वान्न व्याहारादेस्तेषामनुमानम् , इत्यनुपलम्भात् न सन्त्येव सन्तानान्तरज्ञानानीति न तैरभिन्नयोगक्षेमत्वस्य व्यभिचार इति चेत् ; कोऽयमनुपलम्भो नाम ? उपलम्भनिवृत्तिमात्रमिति चेत् ; न ; ततो गगनंकुसुमादिव कस्यचिदप्यप्रतिपत्तेः । अन्योपलम्भ इति चेत् ; तेनापि कथं भवेत्प्रतिपत्तिः ? तद्विविक्ततया तद्विषयस्योपलम्भादिति चेत् ; अस्तु तर्हि २५ तत्रैव तदभावो न सर्वत्र, अन्यथा प्रत्यक्षादेव स्वर्गादिविविक्तभूतलादिविषयात् सर्वत्र
ज्ञानस्य । २ चित्रज्ञानेऽपि । ३ “योगः अप्राप्तस्य विषयस्य परिच्छेदलक्षणा प्राप्तिः, क्षेमः तदर्थक्रियानुष्ठानलक्षणं परिपालनम् ।"-हेतुधि. टी. पृ. ३६ । "अलब्धधर्मानुवृत्तिः योगः, लब्धधर्मानुवृत्तिः क्षेमः।"प्र. वा० स्ववृ०। ४ सन्तानान्तरज्ञानानाम् । ५ सन्तानान्तरज्ञानानि । ६ व्याहारादेः । ७ ज्ञानस्यापि । ८ व्याहारादिकाले भाविनि । ९ संवेदनकाले भूते। १० व्याहारादेः। " संवेदनकार्यत्वम् । १२ यत्र दृश्यते तत्रैव । १३ इन्दीवरकन्दस्यापि । १४ "पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् काष्ठादग्निरहेःफणादपि मणिोपित्ततो रोचनाः । इति पुरातनवचनम्"-ता.टि.। १५ तडागादौ । १६ पकादपि ।