________________
३८४
न्यायविनिश्चयविवरणे
[ ११९४
विरोधः, तस्य बहिरर्थाभावप्रतिपत्तावुपायत्वञ्च । तेनैकस्यानेकत्वे अनेकस्य चैकत्वे निषिद्धे परिशिष्टस्याप्रतिवेदनादभावोपपत्तेरिति चेत्; न; विचारस्याप्रमाणत्वे ततो विरोधस्याप्रतिपत्तेः । प्रामाण्यञ्च न प्रत्यक्षत्वेन ; ततो विरोधपरिज्ञानाभावस्य निवेदितत्वात् । अनुमानस्वनेति चेत् ; तत्र तर्हि विरोधप्रतिबद्धं किञ्चिल्लिङ्गमङ्गीकर्त्तव्यम् अन्यथा अनुमानस्यानुत्पत्तेः । तत्प्रतिबन्धस्य च न प्रत्यक्षात्परिज्ञानम् ; तस्य - विरोधाविषयत्वात् । न च विरोधमजानता कस्यचित्प्रतिबन्धः शक्यपरिज्ञानः, तन्निष्ठस्य तस्य सत्येव तत्परिज्ञाने परिज्ञानोपपत्ते: । विचारादेव तस्यापि परिज्ञानं तेन विरोधस्यापि प्रतिपत्तेरिति चेत्; न; परस्पराश्रयात्-प्रतिबन्धपरिज्ञानाद्विचारः, ततश्च तत्परिज्ञानमिति । विचारान्तरात्तत्परिज्ञानमिति चेत्; न; तेनापि विरोधस्याग्रहणे तद्योगात् । ग्रहणे तु प्रकृतविचारवैयर्थ्यम् । अनुमानत्वे च विचारान्तरस्य १० तद्धेतोरपि प्रतिबन्धपरिज्ञानमन्यतो विचारादित्यव्यवस्थितो विचारः, स कथं नाम विरोधमुपबृंहयेत् ? " स्वयं पतन्नोद्धरते पतन्तम् ” [ ] इति न्यायात् । ततो नानुमानत्वेनापि विचारस्य प्रामाण्यम् । अतो विकल्पमात्रमेवेदमवस्तु संस्पर्शिदुरागमानुरक्तानां रक्तपटानाम् । न चातः क्वचिद्विरोधस्यान्यस्य वा प्रतिपत्तिः । न चैकानेकस्वभावयोरपरावपि तत्स्वभाव, अपि तु चित्रपतते य एव नीलादीनां परस्परमेकस्वभाव: स एव तयोरपि १५ तत्स्वभावः, य एव च तेषामन्योन्यं नानास्वभावः स एव तयोरपि तत्स्वभावः, तथैव परि स्फुटज्ञानवपुषि निरुपलवतया प्रत्यवभासनात्, तत्कथं तदवलम्बनेनानवस्थापरिकल्पनमुपपनम् । तन्न विरोधादयेकानेकात्मनो बहिर्भावस्याभावपरिज्ञानं तस्यैवाप्रतिपत्तेः ।
नापि वैयधिकरण्यात्; तस्यापि विरोधासिद्धावसिद्धेः तन्मूलत्वात् । नाप्युभयदोपादपरिज्ञानलक्षणात् ; तत्परिज्ञानस्य प्रत्यक्षत एव प्रतिपादनात् । नापि साङ्कर्यसंशयाभ्याम् ; २० कथञ्चिदसाङ्कर्येणैव निःसंशयं तत्प्रतिपत्तेः । अतो निर्बाधप्रतिपत्तिविषयस्याभावमनुपायमाच. क्षाणो भवत्येवातीवोपहासविषय इति युक्तमुक्तम्- 'चित्रं शून्यम्' इत्यादि । ततो न यथोक्तं बाह्यमसत्, नापि विभ्रममात्रम्, सकल विकल्पविकलं वा, तत्प्रतिपेधस्याभिहितत्वात् । नापि संवृतिमात्रम्, स्पष्टप्रतीतिविषयस्य तत्त्वानुपपत्तेः । तदेवाहतस्मान्नैकान्ततो भ्रान्तिर्नासत्संवृतिरेव वा ॥ ९४ ॥ इति |
सुबोधमेतत् । वाशब्दादनुक्तसमुच्चयः, तेन 'न सकलविकल्पविकलम्' इत्यपि प्रतिपत्तव्यम् ।
भवतु तर्हि तदेकव्यक्तिसंविन्मात्रमद्वैतमिति चेत्; तद्यदि चित्रैकरूपम्, “चित्रप्रतिभासाप्येकैव बुद्धिः " [प्र० वार्तिकाल० २।२१९] इति वचनात् तदाऽनुकूलमागतम्, बाह्यस्यापि तद्रूपस्यानिवारणात् । न च बाह्यमपरिज्ञानान्नास्त्येव स्वतस्तस्यापरिज्ञानेऽपि परतः
५
२५
1
१ सम्बन्धस्य । २ - व्यवस्थाविचारस्य आ०, ब०, प० । ३ बौद्धानाम् । ४ - ज्ञाने तस्य आ०, ब०, प० । ५ तदाह आ०, ब०, प०१६ -तः समुच्चीयते तेन सकल-आ०, ब०, प० ।