________________
११९४ ।
प्रथमः प्रत्यक्ष प्रस्ताव'
इदमेवाने कान्तवादिनमुपहसतः सौगतस्य प्रत्युपहासं दर्शयन् व्याचष्टे -
चित्रं तदेकमिति चेदिदं चित्रतरं ततः ॥ ९३ ॥ इति
૩૮૨
चित्रं नानारूपं तद्वाह्यं चित्रपतङ्गादि, एकम् अभिन्नम् इति एवं चेत् यदि मन्यते जैनः इदम् अनन्तरोक्तं ततश्चित्रात् अतिशयेन चित्रं चित्रतरं विस्मयनीयतरम् । तथा हि-यदि नानारूपं नैकं विरोधात् इत्यसदेव एकत्वम्, तद्भावे च न नानारूपम्, तस्यापि ५ परमाणुरूपस्याबुद्धिगोचरत्वादित्यन्नेव तादृशो बहिरर्थं इति भवत्येव तद्वादिनामुपहास इति भावः । परस्य तत्र प्रत्यपहासमाह -
चित्रं शून्यमिदं सर्वं वेत्सि चित्रतमं ततः । इति
'चित्रं नानारूपं बाह्यं मयूरादि । कीदृशम् ? इदं प्रत्यक्षवेद्यं सर्वं निरवशेषं वेत्सि जानासि । कीदृशम् ? शून्यं नीरूपम् । 'इदम्' इत्यत्रापि सम्बन्धनीयम् । इदं परस्य वचनं १० ततश्चित्रतरात् अतिशयेन चित्रं चित्रतमम् अनुपायस्यैव तदभाववेदनस्य प्रतिपादनात् । तत्प्रत्यक्षमेव तत्रोपाय इति चेत्; न; तेन तदस्तित्वस्यैव प्रतिवेदनात् । अत एवोक्तम् 'इदम्' इति ।
,
सत्यम् ; तेन तद्भावस्य वेदनम्, तत्तु तदन्तर्गतस्यैवेति चेत्; न; बहिर्भूतस्यैवानुभवात् । भ्रान्तस्तदनुभव इति चेत्; न; सर्वदा तथैव भावात् । न च तादृशस्य १५ विभ्रमः ; स्वरूपेऽपि प्रसङ्गात् । तन्न प्रत्यक्षं तत्रोपायः । विरोध इति चेत्; न; तस्याप्यप्रति पन्नस्यानुपायत्वात् । न प्रत्यक्षात्तत्प्रतिपत्तिः " तेनैकत्वाधिष्ठानस्यैव नानारूपस्योपलम्भात् । न हि तत्रैकत्वविकलस्य नानारूपस्य तद्विकलस्य चैकत्वस्य प्रत्यवभासनम्, तथा कदाचि दप्यसंवित्तेः । तदुक्तम्
"न पश्यामः क्वचित्किञ्चित्सामान्यं वा स्वलक्षर्णम् ॥” [सिद्धिवि०प०२] इति । २० मा भूत्ततस्तत्प्रतिपत्तिविचारादेव तदभ्युपगमात् । तथा हि-यदि चित्रपतङ्गादौ नीलपीतादिकमेकं न तर्हि 'नाना' इति कथं चित्रत्वम् ? कथश्विदेवैकं न सर्वथेति चेत् ; तत्रापि येन स्वभावेनैकं येन च नाना तयोर्भेदे; यदेकं तदेकमेव यन्नाना तदपि नानैवेति न चित्रमेकम् नैकं चित्रमिति कथमनेकान्तवादः ? तत्रापि कथचिदेव भेदादयमदोप इति चेत्; न; तत्रापि 'तत्रापि' इत्यादिप्रसङ्गानिवृत्तेरनवस्थोपनिपाताच्च । न चापर्यवसितानामेव भेदाभेदस्वभावानाम् एकत्र परिकल्पनमुपपन्नं प्रतीतिप्रत्यनीकत्वात् । ततो यदि किञ्चित्पर्यवसाने नानारूपमेकं न भवति प्रथममपि न भवेदविशेपात् इति सिद्धस्तस्य तत्परिहारलक्षणो
"
२५
१ तस्यापर - ता० । २ चित्रमिति ना-आ०, ब०, प० । ३ प्रत्यक्षेण । ४ सर्वदा भवतः । ५ विरोधप्रतिपत्तिः । ६ - काधिष्ठा-आ०, ब०, प० । ७ प्रत्यक्षे । ८ " जात्यन्तरं तु पश्यामः ततोऽनेकान्तसाधनम् ” इत्युत्तरार्धम् । ९ प्रत्यक्षात् ।