________________
न्यायविनिश्चयविवरणे
[१९३ तच्च सर्वविकल्पानामभावे दसबुद्धयः ।
बौद्धाः कथमिव ब्रूयुः विरोधापत्तिभीरवः ॥९४९।।
तदेवाह- 'आहुः' इत्यादि । 'न' इत्यनुवर्तनीयम् । नाहुः बौद्धाः। कम् ? अनर्थम् अर्थ्यत इत्यर्थः सकलविकल्पाभावः तस्मादन्यं विकल्पभावम् । कीदृशम् ? ५ अर्थवलायातम् , अर्घामानं निर्विकल्पवेदनमर्थः तं क्लयति स्थापयतीति तद्बलस्तदधिगमः,
तस्मै तदर्थम् आयातम् । कस्मान्नाहुः ? अविकल्पकाः विकल्पानामभावं कायन्ति कथयन्ति यत इति । ततो न सकलविकल्पातीतमपि तत्त्वम् , प्रमाणप्रणयनवैकल्यात् ।।
अस्तु तर्हि विभ्रममात्रं तत्त्वम् , अन्तर्बहिश्च यथाकल्पनप्रतिपत्तेः, यथाप्रतिभासनन नानैकत्वादिधमैर्विचारायोगात् । तस्मादविद्यमानमेव सुखनीलादि सर्वमवभासते "मायामरीचिप्रतिभासवदसत्त्वेऽप्यदोषः" [प्र० वार्तिकाल• २।२१०] इति वचनादिति कश्चित् ; सोऽपि न विपश्चिदेव । यस्मात्
सत्यश्चेद्विभ्रमात्मासौ सर्वथा विभ्रमः कथम् ? । मिथ्या चेत् ; सुखनीलादि सत्यमेव प्रसज्यते ।।९५०॥ यतोऽपि विभ्रमज्ञानं विचारात्परिकल्प्यते । तद्विभ्रमे कथं तस्मादन्यविभ्रमवेदनम् ? ॥९५१।। अन्यथा तत एवान्यसर्वाविभ्रमकल्पनात् । विभ्रमैकान्तवादोऽयं नश्येत्पर्यन्त एव ते ।।९५२॥ तदविभ्रमपक्षे तु तद्बलात्सर्वविभ्रमम् ।
न प्राज्ञा ब्रुवते ब्रूयुर्मेषकल्पाः परं परे ।।९५३॥
तदाह-'आहुः' इत्यादि । कम् आहुः ? अनर्थम्-न विद्यतेऽर्थोऽस्मिन् इत्यनर्थो ' विभ्रमः तम् । की शम् ? अर्थवलायातम् , अर्थो विचारः तस्य तत्त्वतो भावात् अन्यथा ततो विभ्रमव्यवस्थानुपपत्तेः, तस्य बलं सामर्थ्य तेनायातम् । क आहुः ? अविकल्पकाः इति । अवयो मेषाः ईषदसमाप्ता (कल्पप्') अवयः अविकल्पा अनुकम्पिताः त एवावि. कल्पका विभ्रमवादिन इति । न मया तत्त्वतो भावनैरात्म्यादिकं कुतश्चित्तद्वलादागतं परिकल्प्यते यदयं प्रसङ्गः, किन्तु परपर्यनुयोगेन तद्विपर्यय एव निषिध्यते । निषिद्धे च तस्मिन् तदेव तत्त्वमवशिष्यते गत्यन्तराभावादिति चेत् ; न ; तत्पर्यनुयोगादनात्तन्निषेधे अतिप्रसङ्गात् । अर्थादिति चेत् ; न ; तस्यैव तद्वादिनामभावात् । भावे सिद्धं स्वत एव तस्यार्थबलायातस्य परिकल्पनं तत्र चायं दोषश्चेति सूक्तम्-'आहुः' इत्यादि ।
१-चिप्रभृतिभासवदसत्त्वमप्य-ता.। "प्रतिभासवदसत्त्वेप्यदोषः"-प्र. वार्तिकाल । २ प्रतिषु उप. लभ्यमानः कोष्ठ कान्तर्गतः 'कल्पप्' इति शब्दः ईषदसमाप्तौ कल्पप्प्रत्ययस्य सूचकः । ३ बहिरादिसद्भावः । ४-गात्तदना-आ०, ब०, प० ।