________________
प्रथमः प्रत्यक्षप्रस्तावः
१९३]
३८१ एतेन 'सकलविकल्पविकलसंवित्तिमात्रं तत्त्वमित्यपि प्रत्युक्तम् ; तद्वैकल्यस्य नीरूपनिषेधात्मत्वे प्रमाणविषयत्वासम्भवात् , तस्य तद्लायातत्वं ब्रुवतामप्यविकल्पकत्वाविशेषात् । पर्युदासमेव, तत् पर्युदस्तसकलविकल्पस्य संवेदनस्यैव तद्वैकल्यार्थत्वादिति चेत् ; इदमप्यसावम् ; यस्मात्
विकल्पा यदि वेघेरन् निषेध्येरन सर्वथा । विकल्पाश्चेन्न वेघेरग्निषेध्येरन ते कचिन् ।।९३७॥ न विज्ञाय तद्रूपं तदुल्लेखेन तान् क्वचित् । तत्रामी नेति निश्चेतुं निर्वक्तुश्च प्रभुर्जनः ॥९३८॥ वस्तुतस्तदवित्तावप्यारोपेण प्रवेदनात् । बहुधानकवत्तेषां निषेधः सम्मतो यदि ॥ ९३९।। तन्न सारं विकल्पादेवारोपस्यावकल्पनात् । आरोपात्तस्य क्लप्तौ तु भवत्यन्योन्यसंश्रयः ॥९४०॥ अन्यारोपाद्विकल्पश्चेत्सोऽप्यन्यस्माद्विकल्पकात् । सोऽप्यारोपात्तदन्यस्मादित्थं स्यादनवस्थितिः ॥९४१॥ परकल्पनया चेत्स्युर्विकल्पास्तन्न सङ्गतम् । आत्मेतरविकल्पे यत् विकल्पविरहात्ययः ॥९४२॥ आरोपात्तद्विकल्पश्चन्नेदानीं तनिषेधनात् । तस्माद्विकल्पासंवित्तेः तनिषेधः क्वचित्कथम् ।।९४३॥ किञ्च तद्वदनं यत्र विकल्पः पयुदस्यते । नीलादिरूपं तच्चेत्स्यात् सावकल्पकमेव तत् ॥९४४॥ नानाभागस्वभावस्य तस्य स्थूलस्य दर्शनात् । एकानेकविकल्पस्य तत्रावश्यमवस्थितेः ॥९४५॥ तद्विकल्पव्यपेतस्य न तस्यास्ति स्वतो गतिः । अविवादः स्वसंवितेर्विवादविषयेऽत्ययात् ।।९४६।। अन्यतोऽपि न तादृक्षात्तस्याप्यन्येन 'तादृशात् । प्रतिपत्तौ यतो दूरं प्रसरत्यनवस्थितिः ॥९४७॥ अतादृशाच्च तद्विचिस्ताविकी कल्पितात्कथम् ? । अकल्पिताच्चेन्नन्वेवं तदेव स्याद्विकल्पकम् ।।९४८।।
। सकलं संवि-मा०, २०, ५०। २ त्यविज्ञेय-मा., .., .। ३ प्रधानवत् । १ तादृशा मा०,०,०।