________________
न्यायविनिश्चयविधरणे
[ १९३ नन्वेवमपि अवयवाविष्वग्भागलक्षण एवावयवी सिद्ध्यति । न चायं योगस्याभिप्रेतः अवयवभिन्न एव तत्र तस्याभिप्रायात् । तस्य च न सिद्धिः, तदूषणस्य तदवस्थत्वादिति चेत् ; भवतोऽपि चित्रैकरूपमेव संवेदनं सिद्ध्यति । न च तत्तवाभिप्रेतम् "अविभागोऽपि बुद्ध्या
त्मा"[प्र० वा० २।३.५४ ] इति विरोधात् । यत्त्वभिप्रेतं निरंशवेदनं तमाद्यापि सिद्धम् , ५ वदप्रतिपत्तिदूषणस्याप्रतिक्षेपात् । अथ कदाचिदिदमपि तवाभिप्रेतम् , योगस्याप्यवयवाविष्वग्भाव: किन्नाभिप्रेतः स्यात् ? प्रयोजनाभावादिति चेत ; न ; बहिरर्थस्थापनस्यैव प्रयोजनत्वात् । स्यावादानुप्रवेशस्तु भवतोऽपि, 'चित्रकचित्तवादस्यापि स्याद्वादत्वात् । अनुप्रविष्टस्यापि परित्यागा. ददोषो योगस्यापि, सदविष्वग्भावस्य परित्यागात । तत्परित्यागे न कश्चिदवयवी, प्रकारान्तरस्य
प्रतिक्षेपादिति चेत् ; चित्रकचित्तपरित्यागेऽपि न किञ्चिद्विज्ञानं निर्भागतद्रूपस्य प्रतिक्षिप्तत्वात् । १० ततो न बहिर्नान्तः किञ्चिदिति सर्वनैरात्म्यम् ।
न तस्यापि 'निष्प्रमाणा सिद्धिरतिप्रसङ्गात् । प्रमाणश्च न तत्र वास्तवमस्ति तद्विरोधात् । अवास्तवमिति चेत् ; न ततस्तस्य तत्त्वतोऽप्रतिपत्तेस्तद्विपर्ययवत् । नापि तदप्रतिपन्नमेव प्रमाणम् ; अनभ्युपगमात् । तत्प्रतिपत्तिश्च न वस्तुभूतात्प्रमाणात ; तस्यैवाभावात् । अवस्तु.
भूतादिति चेत् ; न; तस्यापि तादृशात्प्रतिपत्तावनवस्थानात् । १५ अपि च, किमिदमवस्तुभूतमिति ? अविद्यमानमिति चेत् ; न तस्याऽकिञ्चित्करत्वेन
प्रमाणत्वायोगात् । विद्यमानत्वेन कल्पनात्तत्त्वमिति चेत् ; कुतस्तत्कल्पनम् ? संवृतेरिति चेत् ; न; तस्या अपि मिथ्याज्ञानव्यतिरेकेणाभावात् , तस्य चोक्तनीत्या निषेधात् । संवृतेरपि संकृत्या परिकल्पनायाम् अनवस्थादोषात् । तन्न सर्वनैरात्म्यमपि तत्त्वम् ; तंत्र प्रमाणस्याभावात् ।
भावेऽपि न तेनं तस्य परिच्छेदः, प्रतिबन्धाभावात् । न हि तन्नैरात्म्येन तस्य तादात्म्यम् ; २० स्वयं नैरात्म्यप्रसङ्गात् । नापि तदुत्पत्तिः; तस्य सर्वशक्तिवैकल्यात् । न च योग्यत्वम् ; तस्य
कार्यावसेयत्वात् । न च कार्य तत्परिच्छेदरूपमुपलब्धम् ; तत्रैव विप्रतिपत्तेः । ततो न तस्य प्रमाणोपपन्नत्वं विचारचतुराः प्रवक्तुमर्हन्ति । ये तु अवन्ति ते "विचारविकला इत्यावेदयति
आहुरर्थवलायातमनर्थमविकल्पकाः । इति।
आहुः प्रतिपादयन्ति । किम् ? अनर्थम् अर्थस्य ज्ञानज्ञेयलक्षणस्याभावम् , . अर्थाभावेऽव्ययीभावविधानात् । की शम् ? अर्थबलायातम्-अर्ध्यते तत्त्वनिरूपणार्थि " भिरित्यर्थः प्रमाणम् , तस्य बलं विषयप्रतिबन्धस्तेनागतम् अर्थषलायातम् । कयाहुः ?
अविकल्पकाः न विद्यते विकल्पो निवेदितन्यायेन तस्य प्रमाणविषयत्वाभावनिर्णयो येषां ते तथोकास्ताथागता इति ।
२५
भवयविभि-मा०,०प०२ -सौगतस्य । ३ चित्रकचित्रवा-मा०,०प०। ४ निष्प्रमाणसि-मा., १०,०। ५ सर्वनराम्यविरोधात् ।। अवास्तवप्रमाणात् । तत्प्रमा-मा०, ब०, प०।८ प्रमाणेन । ९ नैरास्म्यस्य । १. प्रमाणस्य । सर्वनैरात्म्यस्य । १२ निराचारवि-10,4०, प० । १३ के आहुः ।