________________
१९९३ ।
प्रथमः प्रत्यक्ष प्रस्तावः
तर्हि मा भूवन् तत्परमाणवः तत्सन्तानाश्च तेषामपि बाह्यवदप्रतिभासनात्, अद्वैतं तु संवेदनमस्त्विति चेत्; न; तस्य निरंशाणुरूपस्य निषेत्स्यमानत्वात् । नीलादिभेदाधिष्ठानमेव तदिति चेत्; किमिदं 'तेपां तेनाधिष्ठानम् ? तत्र वर्त्तनमिति चेत्; न; अवयव - वद्वृत्तिविकल्पादिदोषानुषङ्गात् । तदात्मत्वमिति चेत्; न; अवयविनोऽपि स्वावयवापेक्षया तत्प्रसङ्गात् । स एव नास्ति, कपालव्यतिरेकेणाऽप्रतिभासनादिति चेत्; ज्ञानमपि नास्ति ५ नीलादिव्यतिरेकेणाप्रतिभासनात् । नोलादीनामेकत्वमेव "तदिति चेत्; अवयव्यपि कपालानामेकत्वमेव किन्न स्यात् ? विरुद्धधर्माध्यासादिति चेत्; नीलादीनां कथम् ? अशक्यविवेच नत्वादिति चेत् ; न ; तेनापि तदध्यासस्याप्रतिरोधात् 'चित्रप्रतिभासाभावापत्तेः ।
१०
किचेदमशक्यविवेचनत्वम् ? युगपत्प्रतिभासनमिति चेत्; न; तथापि भेदस्यैवोपपत्तेः यौगपद्यस्य तन्निष्ठत्वात् । अपृथग्वेद्यत्वमिति चेत्; तदपि कुतः प्रतिपत्तव्यम् ? तदेकत्वादिति चेत्; न; परस्पराश्रयात् - अपृथग्वेद्यत्वेन तस्य ततश्चापृथग्वेद्यत्वस्य सिद्ध: । नीलादिभ्य एवेति चेत्; न; तैरपि परस्परस्यापरिज्ञाने तदपेक्षस्य तद्वेद्यत्वस्यापरिज्ञानात् । परिज्ञाने तु नार्थनिषेधनम् अर्थस्याप्यन्यतस्तदुपपत्तेः । अत एव नानुमानादपि तत्परिज्ञानम् । न चानुमानमद्वैते सम्भवति विरोधात् अद्वैतेन तस्य नैरन्तर्येतर चिन्तायां पूर्ववदोषाञ्च । तन्ना - पृथग्वेद्यत्वमशक्यविवेचनत्वम् । एकत्वेन प्रतिभासनमिति चेत्; न; कपालेष्वपि तद्भावेनावयविसिद्धेरप्रतिषेधात् । तदेवाह - 'एतत्समानमन्यत्र' इति । एतत् परचित्तस्थम् "अभेदप्रतिभासरूपमशक्यविवेचनत्वं समानमन्यत्रापि बहिरर्थावयवेष्वपि ।
१५
भवतु समानम्, तथापि " नातस्तत्र तत्सिद्धि:, दूरविरलकेशेषु " तदभावेऽपि भावादिति चेत्; तेष्वपि कुतस्तदभावे तद्भावः ? सन्निवेशविशेषादेकार्थ करणात् तद्वासनाप्रबोधाच्चेति चेत्; न; संवेदनभेदेष्वपि तत एव तत्प्रसङ्गात् । न च " तत्रैकार्थकरणं नास्त्येव ; खरविषाणवद- २० वस्तुत्वापत्तेः । कार्यकारणभेदे कथमद्वैतमित्यपि न सारम्; परस्यैव दोषात् । न च " तद्भेदा एव 'सन्निवेशनिबन्धनं तत्प्रतिभासनम्' इत्यादिविकल्पानपाकुर्वन्ति, भेदत्वेन बाह्यभेदाविशेषात् । तदाह-संविश्संविदोः । असंविग्रहणमत्रापि निदर्शनार्थम्, असंविद इव संविदोऽपि भेदानादयो विकल्पान् परामर्शान् नाऽपाकुर्युः । कीदृशान् ? नैरन्तर्यानुबन्धिनः नैरन्तर्यं सन्निवेशविशेषम् उपलक्षणमिदम् - तेनैकार्थ करणादिकमपि अनुबध्नन्ति अनूपस्थापयन्ति एक प्रतिभासनमिति शीलान् इति ।
तत्तचित्रमेकं ते विज्ञानं तत्कथं भवेत् । निर्बाधात्प्रतिभासाच्चेद् बाह्योऽप्यर्थस्तथेष्यताम् ॥ ९३६॥
३७९
१ नीलादिभेदानाम् । २ अद्वैतसंवेदनेन । ३ तदात्मत्वप्रसङ्गात्। ४ अवयवी । ५ ज्ञानम् । ६ विरुद्धधर्माध्यासस्य । ७ अन्यथा - विरुद्धधर्माच्या बाभावे । ८ भेदनिष्टत्वात् । ९ एकत्वस्य । १० अभेदप्रतिभासस्वरूप - आ०, ब०, प० । ११ अशक्यविवेचनत्वतः अवयवेषु श्रवयवसिद्धिः । १२ एकावयव्यभावेऽपि । १३ र्थकारणात्तद्वासनाप्रतिबोधनाआ०, ब०, प० । १४ संवेदनभेदेषु । १५ संवेदनभेदा एव । १६-कं चेद्वि-आ०, ब०, प० ।
२५