________________
३७८
गरवाजेतम। -----
न्यायविनिश्चयविवरणे
[२१९३ धानस्यापि सजातीयैरव्यवहितैरनुपपत्तेः । व्यवहितैरेवेति चेत् ; न ; अनवस्थापत्तेः । तथा च नीलमणिसम्मतानां संवेदनपरमाणूनां परापरैरपरिमाणैः तत्परमाणुभिर्व्यवधानात् नीलव्याप्त सकलं जगद्भवेत् ।
नीलव्याप्तं जगत्प्राप्तं पीतादिपरिवर्जितम् । तञ्च प्रतीतिसौभाग्यप्रत्यनीकं प्रकल्प नम् ॥९२९॥ व्यवधानं विजातीयैर्यदापि स्यात्परापरैः । तदा नीलमणिर्नाम न कश्चिदवतिष्ठते ॥९३०॥ न मेचकमणिज्ञानमपि तत्रोपपत्तिमत् । तेपु पर्यन्तवत्स्वेव तथा ज्ञानप्रवर्तनात् ॥९३१॥ उपदानान्ययोरेवं व्यवधानप्रकल्पने । अतीव कालदूरत्वं संवित्त्योः सम्प्रसज्यते ॥९३२॥ ततश्चाव्यवधानेन नीलज्ञाने क्रमः कचित् । प्रतीतिपथमापन्नो भ्रश्यत्येव भवन्मते ॥९३३॥ सजातिव्यवधानेऽपि नीलसंवित्तिसन्ततः । अनादिनिधनत्वाप्तिः प्रतीति प्रतिपीडयेत् ॥९३४॥ तस्मान्निरन्तरत्वं तद्वक्तव्यं वेदनेष्वपि ।
सांशत्वप्रचयाभावदोषं तच्च प्रकल्पयेत् ॥९३५॥
तथा हि- नीलमणिसंवेदनपरमाणूनां देशतो नैरन्तये' मध्यवर्तिनः पडशाः प्राप्नुवन्ति पभिर्दिग्भागभिन्नै रन्तर्यादिति । तैरपि व्यतिरिक्तस्तस्य नैरन्तर्ये पुनरन्ये षडंशा इति, तैरेव २० सकलस्यापि गगनतलस्य व्याप्तेरनवकाशास्तदन्ये भवेयुः । तथा क्रमवतामपि तत्परमाणूनां
देशतो नैरन्तर्ये मध्यवर्त्तिनो द्वौ देशौ पूर्वापराभ्यां द्वाभ्यां नैरन्तर्यात , ताभ्यामपि तथा नैरन्तर्ये परौ उभौ देशाविति तैरेवानाद्यनन्तकालव्याप्तेः कालः कीदृगुपादानादिप्रबन्धस्य भवेत् ? सर्वात्मना तु नैरन्तर्ये परमाणुमात्रत्वं 'प्रचयस्य, मणिपरमाणूनामेकत्रैवानुप्रवेशात् । सन्ता
नस्याप्येकक्षणत्वम् , एकत्रैव परापरतरक्षणानां प्रत्यस्तमयात् । न च प्रकारान्तरं नैरन्तर्यस्यास्ति २५ यत्रायं दोषो न भवेत् । कथं नास्ति ? तेषामक्रमाणामन्योन्यात्मकतया स्थूलीभावेन क्रमवताश्च
दीर्घाभावेन नैरन्तर्यस्योपपत्तेरिति चेत् ; न ; कालदैये क्षणभङ्गवाव्यापत्तेः, देशदैोऽप्येव. यविवत् । एकत्र चलनादौ सर्वत्र तत्प्रसङ्गात् प्रचयवतामेव चलनादिः, न प्रचयस्येति चेत् ; न ; तेषां प्रचयैकरूपत्वेन रूपान्तराभावात् । भावे वा यत्रैव तेषां चलनादिस्तत्रैव प्रचयस्य तद्विकलस्य प्रतीतिप्रसङ्गात् ।।
१ सम्बन्धे । २ परमाणोः। ३ अंशैः। ४ प्रवयस्य ता०,भा०,०।५-पपत्तिरिति आ०,०प०। चानादी भा०, ब०, ५०।