________________
११९२]
प्रथमः प्रत्यक्षप्रस्तावः दोषत्वात् । विजिगीषोः कथमपि तत्करणं गुण एवेति चेत् ; न ; चपेटादिनापि तत्करणस्य गुणत्वप्रसङ्गात् । 'तेन तत्करणं परिषत्पतिर्न सहते धर्मच्युतेरिति चेत् ; व्यभिचारिहेतुना तत्करणं कथं सहेत अविशेषात् ? स्वयमपरिज्ञानादिति चेत् ; न ; स्वतस्तस्यापरिज्ञानेऽपि प्राश्निकवचनात परिज्ञानोपपत्ते, प्राश्निकैश्च तद्वचनस्यावश्यम्भावात् , अन्यथा तद्वैफल्यात् । परिज्ञातमपि सहते न्यायशास्त्रे तस्य गुणत्वेनाभिधानादिति चेत् ; शास्त्रान्तरे तस्य दोषत्वेना. ५ भिधानात् न सहेतापि । तत्कथं तस्मादेकान्तेन वादिनो जयो यत 'इतरस्य निग्रहः स्यात् ? तन्न कथञ्चिदपि मतानुज्ञानं निग्रहायेत्यलं प्रसङ्गेन ।
कथं पुनरचेतनार्थदोषेण चेतनस्य दूषणं तस्करदोषेण साधोरपि तत्प्रसङ्गादिति चेत् ; स्यादेवम् ; यद्यर्थेऽप्यचेतनत्वं तस्यावलम्बनम् , तदभावाच्चतने न भवेदिति। न चैवम् , अर्थेऽपि नैरन्तर्यस्य तदवेलम्बनत्वात् , तस्य॑ च चेतनेऽप्यविशेषात् । न च तदवलम्बनस्य चेतनभेदैः प्रतिक्षेपः; १० तस्यापि प्रतिक्षेपापत्तेः । तच्च दोषस्याभिधायिष्यमाणत्वात् । तदाह-भेदाः चेतनेतरत्वलक्षणाः, व्यक्तिभेदाद्वहुवचनम् । कयोस्ते ? संविदसंविदोः ज्ञानार्थयोः, विकल्पान् सांशत्वादिदोषपरामर्शान् न अपाकुर्युः, न प्रतिक्षिपेयुः । असंविद्हणं किमर्थम् ? तद्भेदैस्तदनपाकरणस्य परं प्रत्यपि प्रसिद्धत्वादिति चेत् ; न ; तस्य निदर्शनार्थत्वाद् असंविझेदवत् संविझेदा अपि तानापाकुर्युरिति । तत्र हेतुमाह-नैरन्तर्यानुवन्धिन इति । नैरन्तयं प्रत्यासत्तिः, तदनु. १५ वन्धिनस्तदवलम्बिन इति ।
नैरन्तयं मनस्यं ते दोषोत्पत्तिनिवन्धनम् । चिद्भेदास्तत्प्रयुक्तस्य दोषस्य क्षेपकाः कथम् ? ॥९२४॥ 'तस्यापि तैः प्रतिक्षेपे सान्तरत्वमबाधितम् । चेतनेषु भवेत्तस्य तदभावत्वनिश्चयात् ॥९२५॥ निरन्तरेतरत्वाभ्यो निर्मुक्ता यदि संविदः । स्थूलस्तम्भावभासोऽयं कथं तासूपपद्यताम् ॥९२६॥ अन्यथा तादृशैरेव बारिप्यणुभिः स्वयम् । द्रव्यनिष्पादनात्किन्नु नैरन्तर्येण नः फलम् ॥९२७॥ यत्सांशत्वादिदोषस्य तत्राप्युद्भावनं भवेत् । निरन्तरत्वस्याभावः सान्तरत्वं तदुच्यताम् ।।९२८॥
भवतु सान्तरत्वमेव संवेदनानामिति चेत् ; न ; व्यवधानाभावे तइनुपपत्तेः । व्यवधानश्च न सजातीयैरव्यवहितैरेव ; नैरन्तर्यदोषात् । व्यवहितैरेवेति चेत् ; न ; तव्यव.
१ चपेटादिना । २ उत्तरस्य आ०, ब०, प० । ३ -स्य भाष-आ०,०, ५०४ अचेतनत्वाभावात् । ५ दोषावसम्बनत्वात् । नैरन्तर्यस्य । ७ चेतोगतम् (१)। नैरन्तर्यप्रयुक्तस्य । ९ नैरन्तर्यस्यापि । १. किन्तु नै-आ०, व., प० ।