________________
३७६ न्यायविनिश्चयविवरणे
. [११९२ वृत्य 'भवतोऽप्ययं दोषः' इति ब्रवीति स निगृहीतो वेदितव्यः" [न्यायवा० ५।२।२१] इति ; तत्प्रतिविहितम् ; दोषमनुदृत्य' इत्यस्यासिद्धेः, व्यभिचारोद्भावनादेव तदुद्धरणात् । 'भवतोऽपि' इत्यस्य च, व्याप्तिविघटनवलेन तदुद्भावनोपायत्वात् । एतदप्यन्यत्तत्रैव
"यत एवासावुत्तरे वक्तव्यप्रसङ्गं करोति अत उत्तरापरिज्ञानान्निगृह्यते" [ न्यायवा० ५ ५।२।२१ ] इति ; तदपि दुर्भाषितम् ; प्रसङ्गकरणस्यैवोक्तनीत्या सदुत्तरत्वेन तदपरिज्ञानस्या
भावात् । अन्यदप्युत्तरमेवंविधे विषये सम्भवति, तस्यापरिज्ञानानिगृह्यत इति चेत् ;न प्रकृतस्य परिज्ञानाजयस्यापि प्राप्तेः । न चैतदुभयं योगपद्येन ; विरोधात् ।
निग्रहश्चेजयो नास्ति जयश्चेन्नास्ति निग्रहः । निग्रहश्च जयश्चेति व्याहतं युगपद् द्वयम् ॥९१९॥ अपरिज्ञानमप्यस्य कस्मादप्रतिपादनात् । न निग्रहभयात्तस्य परिज्ञानेऽपि सम्भवात् ॥९२०॥ एकदोषाभिधानेन परपक्षे हि दूषिते । दोषान्तरप्रवादो हि निग्रहायैव कल्पते ॥९२१॥ सतो दोषान्तरस्यापि निग्रहो यद्यकीर्तनम् । सतो हेत्वन्तरस्यापि निग्रहः स्यादकीर्तनम् ॥९२२॥ ततस्तत्कीर्तनं योगैर्निग्रहः कल्प्यते कथम् । इदमेव स्वयं देवैरन्यत्र प्रतिपादितम् ॥९२३॥ "वादिनोऽनेकहेतूक्तौ निगृहीतिः किलेष्यते ।
नानेकक्षणस्योक्तौ वैतण्डिकविनिग्रहः ॥” [सिद्धिवि० परि० ५] इति ; २० ततो न युक्तम्-'उत्सरापरिज्ञानान्निगृह्यते' इति ; तदपरिज्ञानस्यैवासिद्धः । एवमन्य. दपि समानदोषापादनं निर्दोष प्रतिपत्तव्यम् । तन्न मतानुज्ञा नाम निग्रहस्थानं सम्भवति ।
___मा भूत् 'चौरस्त्वं पुरुषत्वात्' इत्युक्ते 'भवानपि चौरः तत एव' इति प्रसङ्गकरणबुद्ध्या प्रतिब्रुवाणस्य तन्निग्रहस्थानम् , चौर्यापादनबुद्ध्या तु प्रतिवदतो भवत्येव', परापादितस्य,
चौर्यस्यात्मन्यभ्युपगमात् , अनभ्युपगमे हि न पुरुषत्वं तत्र हेतुर्वक्तव्यः किन्तु पदद्रव्येणा२१ नतिसृष्टन सम्बन्धः, न चोक्तः 'सः, इस त्तरस्यापरिज्ञानेन परमतमनुजानतो भवत्येव
तन्निग्रहस्थानमिति चेत् ; कस्तेन तं निगृह्णीयात् ? वाद्येव ; परिषद्बलादिपरिग्रहवैफल्यापत्ते ।। परिषद्धलादय एवेति चेत् ; तेनापि वादिनो गुणाभावात् जयमपश्यन्तः कथमितरं निगृहीयुः ? जयाभावे निग्रहानुपपत्त । न च तस्य स्वपक्षसाधनं गुणः, चौर्य प्रति पुरुषत्वस्यानैकान्तिकत्वेनासाधनत्वात् । परत्र तदभ्युपगमकरणं स इति चेत् ; न ; तस्याप्यन्यायनिबन्धनत्वेन
न्यायवार्तिके उक्तम् । २ जयपराजयौ । ३ स्वतो आ०, ब०, प० । ४ निग्रहस्थानम् । ५ अनतिसृष्टः परद्रव्यसम्बन्धवत्वादिति हेतुः । ६ गुणः ।